अक्षर आकार:

राहुपञ्चविंशतिनामस्तोत्रम्

rAhupa~nchaviMshatinAmastotram

राहुपञ्चविंशतिनामस्तोत्रम्

श्री गणेशाय नमः । राहुर्दानवमन्त्री च सिंहिकाचित्तवन्दनः । अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १॥ रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः । ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २॥ कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः । विधुन्तुदः सैंहिकेयो घोररूपो महाबलः ॥ ३॥ ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः । पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः ॥ ४॥ यः पठेन्महती पीडा तस्य नश्यति केवलम् । आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५॥ ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६॥ ॥ इति श्रीस्कन्दपुराणे राहुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥