अक्षर आकार:

राहुमङ्गलस्तोत्रम्

rAhumangalastotram

राहुमङ्गलस्तोत्रम्

राहुः सिंहलदेशजश्च निरृतिः कृष्णाङ्गशूर्पासनो । यः पैठीनसिगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः ॥ १॥ यः सर्पाद्यधिदैवते च निरृतिः प्रत्याधिदेवः सदा । षट्त्रिस्थः शुभकृच्च सिंहिकसुतः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । मुण्डकायोर्ध्वकेशी च पीडां हरतु मे तमः ॥ अनया पूजया राहुः प्रीयताम् । ॐ राहवे नमः ॐ तमाय नमः ॐ सैंहिकाय नमः । ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीराहुमङ्गलस्तोत्रं सम्पूर्णम् ॥