अक्षर आकार:

नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः

navagrahANAM samuchchayAShTottarashatanAmAvaliH

नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः

आदित्यचन्द्रौ कुजसौम्यजीव-श्रीशुक्रसूर्यात्मजराहुकेतून् । नमामि नित्यं शुभदायकास्ते भवन्तु मे प्रीतिकराश्च सर्वे ॥ ॐ ग्रहनायकेभ्यो नमः । ॐ लोकसंस्तुतेभ्यो नमः । ॐ लोकसाक्षिभ्यो नमः । ॐ अपरिमितस्वभावेभ्यो नमः । ॐ दयामूर्तिभ्यो नमः । ॐ सुरोत्तमेभ्यो नमः । ॐ उग्रदण्डेभ्यो नमः । ॐ लोकपावनेभ्यो नमः । ॐ तेजोमूर्तिभ्यो नमः । ॐ खेचरेभ्यो नमः । १० ॐ द्वादशराशिस्थितेभ्यो नमः । ॐ ज्योतिर्मयेभ्यो नमः । ॐ राजीवलोचनेभ्यो नमः । ॐ नवरत्नालङ्कृतमकुटेभ्यो नमः । ॐ माणिक्यभूषणेभ्यो नमः । ॐ नक्षत्राधिपतिभ्यो नमः । ॐ नक्षत्रालङ्कृतविग्रहेभ्यो नमः । ॐ शक्त्याद्यायुधधारिभ्यो नमः । ॐ चतुर्भुजान्वितेभ्यो नमः । ॐ सकलसृष्टिकर्तृभ्यो नमः । २० ॐ सर्वकर्मपयोनिधिभ्यो नमः । ॐ धनप्रदायकेभ्यो नमः । ॐ सर्वपापहरेभ्यो नमः । ॐ कारुण्यसागरेभ्यो नमः । ॐ सकलकार्यकण्ठकेभ्यो नमः । ॐ ऋणहर्तृभ्यो नमः । ॐ धान्याधिपतिभ्यो नमः । ॐ भारतीप्रियेभ्यो नमः । ॐ भक्तवत्सलेभ्यो नमः । ॐ शिवप्रदायकेभ्यो नमः । ३० ॐ शिवभक्तजनरक्षकेभ्यो नमः । ॐ पुण्यप्रदायकेभ्यो नमः । ॐ सर्वशास्त्रविशारदेभ्यो नमः । ॐ सुकुमारतनुभ्यो नमः । ॐ कामितार्थफलप्रदायकेभ्यो नमः । ॐ अष्टैश्वर्यप्रदायकेभ्यो नमः । ॐ ब्रह्मविद्भ्यो नमः । ॐ महद्भ्यो नमः । ॐ सात्विकेभ्यो नमः । ॐ सुराध्यक्षेभ्यो नमः । ४० ॐ कृत्तिकाप्रियेभ्यो नमः । ॐ रेवतीपतिभ्यो नमः । ॐ मङ्गलकरेभ्यो नमः । ॐ मतिमतां वरिष्ठेभ्यो नमः । ॐ मायाविवर्जितेभ्यो नमः । ॐ सदाचारसम्पन्नेभ्यो नमः । ॐ सत्यवचनेभ्यो नमः । ॐ सर्वसम्मतेभ्यो नमः । ॐ मधुरभाषिभ्यो नमः । ॐ ब्रह्मपरायणेभ्यो नमः । ५० ॐ सुनीतिभ्यो नमः । ॐ वचनाधिकेभ्यो नमः । ॐ शिवपूजातत्परेभ्यो नमः । ॐ भद्रप्रियेभ्यो नमः । ॐ भाग्यकरेभ्यो नमः । ॐ गन्धर्वसेवितेभ्यो नमः । ॐ गम्भीरवचनेभ्यो नमः । ॐ चतुरेभ्यो नमः । ॐ चारुभूषणेभ्यो नमः । ॐ कामितार्थप्रदेभ्यो नमः । ६० ॐ सकलज्ञानविद्भ्यो नमः । ॐ अजातशत्रुभ्यो नमः । ॐ अमृताशनेभ्यो नमः । ॐ देवपूजितेभ्यो नमः । ॐ तुष्टेभ्यो नमः । ॐ सर्वाभीष्टप्रदेभ्यो नमः । ॐ घोरेभ्यो नमः । ॐ अगोचरेभ्यो नमः । ॐ ग्रहश्रेष्ठेभ्यो नमः । ॐ शाश्वतेभ्यो नमः । ७० ॐ भक्तरक्षकेभ्यो नमः । ॐ भक्तप्रसन्नेभ्यो नमः । ॐ पूज्येभ्यो नमः । ॐ धनिष्ठाधिपेभ्यो नमः । ॐ शतभिषक्पतिभ्यो नमः । ॐ आमूलालङ्कृतदेहेभ्यो नमः । ॐ ब्रह्मतेजोऽभिवर्धनेभ्यो नमः । ॐ चित्रवर्णेभ्यो नमः । ॐ तीव्रकोपेभ्यो नमः । ॐ लोकस्तुतेभ्यो नमः । ८० ॐ ज्योतिष्मतां परेभ्यो नमः । ॐ विविक्तनेत्रेभ्यो नमः । ॐ तरणेभ्यो नमः । ॐ मित्रेभ्यो नमः । ॐ दिवौकोभ्यो नमः । ॐ दयानिधिभ्यो नमः । ॐ मकुटोज्ज्वलेभ्यो नमः । ॐ वासुदेवप्रियेभ्यो नमः । ॐ शङ्करेभ्यो नमः । ॐ योगीश्वरेभ्यो नमः । ९० ॐ पाशाङ्कुशधारिभ्यो नमः । ॐ परमसुखदेभ्यो नमः । ॐ नभोमण्डलसंस्थितेभ्यो नमः । ॐ अष्टसूत्रधारिभ्यो नमः । ॐ ओषधीनां पतिभ्यो नमः । ॐ परमप्रीतिकरेभ्यो नमः । ॐ कुण्डलधारिभ्यो नमः । ॐ नागलोकस्थितेभ्यो नमः । ॐ श्रवणाधिपेभ्यो नमः । ॐ पूर्वाषाढाधिपेभ्यो नमः । १०० ॐ उत्तराषाढाधिपेभ्यो नमः । ॐ पीतचन्दनलेपनेभ्यो नमः । ॐ उडुगणपतिभ्यो नमः । ॐ मेषादिराशीनां पतिभ्यो नमः । ॐ सुलभेभ्यो नमः । ॐ नीतिकोविदेभ्यो नमः । ॐ सुमनसेभ्यो नमः । ॐ आदित्यादिनवग्रहदेवताभ्यो नमः । १०८ इति नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः समाप्ता ।