अक्षर आकार:

नवग्रहपीडाहरस्तोत्रम् २

navagrahapIDAharastotram 2

नवग्रहपीडाहरस्तोत्रम् २

सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः । सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १॥ गभस्तिमाली भगवान्शिवपूजापरायणः । करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ २॥ जगदाप्यायनकरो ह्यमृताधारशीतलः । सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ ३॥ पद्मरागनिभा नेना देहेनापिङ्गललोचनः । ( var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः) अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ ४॥ रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ ५॥ कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा । शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ ६॥ धातु चामीकरच्छायः सर्वज्ञानकृतालयः । ( var तप्त चामीकरच्छायः) बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ ७॥ सोऽपि मे शान्तचित्तेन परमेण समाहितः । ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ ८॥ हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः । शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ ९॥ भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः । शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १०॥ नीलाञ्जननिभः श्रीमान् सैहिकेयो महाबलः । शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ ११॥ धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः । वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १२॥ पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः । घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३॥ खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः । शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १४॥ एते ग्रहा महात्मानो महेशार्चनभाविताः । शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १५॥ ॥ इति नवग्रहपीडाहरस्तोत्रं (२) सम्पूर्णम् ॥