अक्षर आकार:

श्रीनवग्रहस्तोत्रम्

shrInavagrahastotram

श्रीनवग्रहस्तोत्रम्

ज्योतिर्मण्डलमध्यगं गदहरं लोकैक-भास्वन्मणिं मेषोच्चं प्रणतिप्रियं द्विजनुतं छायपतिं वृष्टिदम् । कर्मप्रेरकमभ्रगं शनिरिपुं प्रत्यक्षदेवं रविं ब्रह्मेशान-हरिस्वरूपमनग़्हं सिंहेश-सूर्यं भजे ॥ १॥ चन्द्रं शङ्कर-भूषणं मृगधरं जैवातृकं रञ्जकं पद्मासोदरमोषधीशममृतं श्रीरोहिणीनायकम् । शुभ्राश्वं क्षयवृद्धिशीलमुडुपं सद्बुद्धि-चित्तप्रदं शर्वाणीप्रियमन्दिरं बुधनुतं तं कर्कटेशं भजे ॥ २॥ भौमं शक्तिधरं त्रिकोणनिलयं रक्ताङ्गमङ्गारकम् । भूदं मङ्गलवासरं ग्रहवरं श्रीवैद्यनाथार्चकम् । क्रूरं षण्मुखदैवतं मृगगृहोच्चं रक्तधात्वीश्वरं नित्यं वृश्चिकमेषराशिपतिमर्केन्दुप्रियं भावये ॥ ३॥ सौम्यं सिंहरथं बुधं कुजरिपुं श्रीचन्द्र-तारासुतं कन्योच्चं मगधोद्भवं सुरनुतं पीतांबरं राज्यदम् । कन्यायुग्म-पतिं कवित्व-फलदं मुद्गप्रियं बुद्धिदं वन्दे तं गदिनं च पुस्तककरं विद्याप्रदं सर्वदा ॥ ४॥ देवेन्द्र-प्रमुखार्च्यमान-चरणं पद्मासने संस्थितं सूर्यारिं गजवाहनं सुरगुरुं वाचस्पतिं वज्रिणम् । स्वर्णाङ्गं धनुमीनपं कटकगेहोच्चं तनूजप्रदं वन्दे दैत्यरिपुं च भौमसुहृदं ज्ञानस्वरूपं गुरुम् ॥ ५॥ शुभ्राङ्गं नयशास्त्रकर्तृजयिनं संपत्प्रदं भोगदं मीनोच्चं गरुडस्थितं वृष-तुलानाथं कलत्रप्रदम् । केन्द्रे मङ्गलकारिणं शुभगुणं लक्ष्मी-सपर्याप्रियं दैत्यार्च्यं भृगुनन्दनं कविवरं शुक्रं भजेऽहं सदा ॥ ६॥ आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं छाया-सूर्यसुतं शरासनकरं दीपप्रियं काश्यपम् । मन्दं माष-तिलान्न-भोजनरुचिं नीलांशुकं वामनं शैवप्रीति-शनैश्चरं शुभकरं गृध्राधिरूढं भजे ॥ ७॥ वन्दे रोगहरं करालवदनं शूर्पासने भासुरं स्वर्भानुं विषसर्पभीति-शमनं शूलायुधं भीषणम् । सूर्येन्दु-ग्रहणोन्मुखं बलमदं दत्याधिराजं तमं राहुं तं भृगुपुत्रशत्रुमनिशं छायाग्रहं भावये ॥ ८॥ गौरीशप्रियमच्छकाव्यरसिकं धूम्रध्वजं मोक्षदं केन्द्रे मङ्गलदं कपोतरथिनं दारिद्र्य-विध्वंसकम् । चित्राङ्गं नर-पीठगं गदहरं दान्तं कुलुत्थ-प्रियं केतुं ज्ञानकरं कुलोन्नतिकरं छायाग्रहं भावये ॥ ९॥ सर्वोपास्य-नवग्रहाः! जडजनो जाने न युष्मद्गुणान् शक्तिं वा महिमानमप्यभिमतां पूजां च दिष्टं मम । प्रार्थ्यं किन्नु कियत् कदा बत कथं किं साधु वाऽसाधु किं जाने नैव यथोचितं दिशत मे सौख्यं यथेष्टं सदा ॥ १०॥ नित्यं नवग्रह-स्तुतिमिमां देवालये वा गृहे श्रद्धा-भक्ति-समन्वितः पठति चेत् प्राप्नोति नूनं जनः । दीर्घं चायुररोगतां शुभमतिं कीर्तिं च संपच्चयं सत्सन्तानमभीष्ट-सौख्यनिवहं सर्व-ग्रहानुग्रहात् ॥ ११॥ ॥ इति श्रीनवग्रहस्तोत्रं संपूर्णम्॥