अक्षर आकार:

नवग्रह जपमन्त्राः

Navagraha Japamantra

नवग्रह जपमन्त्राः

१ सूर्यः अथ सूर्यमन्त्रप्रारंभः ॐ अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः । तृष्टुप् छन्दः । सूर्यो देवता । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । सूर्याय अङ्गुष्ठाभ्यां नमः । तेजोमूर्तये तर्जनीभ्यां स्वाहा । वरदाय मध्यमाभ्यां वषट् । हंसाय अनामिकाभ्यां हुम् । शान्ताय कनिष्ठिकाभ्यां वौषट् । कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट् । सूर्याय हृदयाय नमः । तेजोमूर्तये शिरसे स्वाहा । वरदाय शिखायै वषट् । हंसाय कवचाय हुम् । शान्ताय नेत्रत्रयाय वौषट् । कर्मसाक्षिणे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् । धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् । सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥ पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥ द्विभुजं पद्महारं च वरदं मकुटान्वितम् । ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ आस॒`त्येन॒ रज॑सा॒ वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑ च । हि॒रण्॒यये॑न सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑ । (यथाशक्ति जपेत्) सूर्याय हृदयाय नमः । तेजोमूर्तये शिरसे स्वाहा । वरदाय शिखायै वषट् । हंसाय कवचाय हुम् । शान्ताय नेत्रत्रयाय वौषट् । कर्मसाक्षिणे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् । धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् । सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥ पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥ द्विभुजं पद्महारं च वरदं मकुटान्वितम् । ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति श्रीसूर्यमहामन्त्रः
२ चन्द्रः अथ सोममन्त्रप्रारंभः ॐ अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः । गायत्री छन्दः । सोमो देवता । सां बीजम् । सीं शक्तिः । सूं कीलकम् । मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । सोमाय अङ्गुष्ठाभ्यां नमः । निशाकराय तर्जनीभ्यां स्वाहा । क्षीरोदार्णवसंभवाय मध्यमाभ्यां वषट् । लक्ष्मीसहोदराय अनामिकाभ्यां हुम् । तारकेशाय कनिष्ठिकाभ्यां वौषट् । सुधामूर्तये करतलकरपृष्ठाभां फट् । सोमाय हृदयाय नमः । निशाकराय शिरसे स्वाहा । क्षीरोदार्णवसंभवाय शिखायै वषट् । लक्ष्मीसहोदराय कवचाय हुम् । तारकेशाय नेत्रत्रयाय वौषट् । सुधामूर्तये अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् गदाधरधरं देवं श्वेतवर्णं निशाकरम् । ध्यायेदमृतसंभूतं सर्वकामफलप्रदम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ (यथाशक्ति जपेत्) सोमाय हृदयाय नमः । निशाकराय शिरसे स्वाहा । क्षीरोदार्णवसंभवाय शिखायै वषट् । लक्ष्मीसहोदराय कवचाय हुम् । तारकेशाय नेत्रत्रयाय वौषट् । सुधामूर्तये अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानं गदाधरधरं देवं श्वेतवर्णं निशाकरम् । ध्यायेदमृतसंभूतं सर्वकामफलप्रदम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वोपचारान् समर्पयामि ॥ इति सोममन्त्रः
३ अङ्गारकः अथ अङ्गारकमहामन्त्रप्रारंभः ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः । गायत्री छन्दः । अङ्गारको देवता । मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । अङ्गारकाय अङ्गुष्ठाभ्यां नमः । धरणीसुताय तर्जनीभ्यां नमः । रक्तवाससे मध्यमाभ्यां नमः । रक्तलोचनाय अनामिकाभ्यां नमः । शक्तिधराय कनिष्ठिकाभ्यां नमः । कर्मभावनाय करतलकरपृष्ठाभ्यां नमः । अङ्गारकाय हृदयाय नमः । धरणीसुताय शिरसे स्वाहा । रक्तवाससे शिखायै वषट् । रक्तलोचनाय कवचाय हुम् । शक्तिधराय नेत्रत्रयाय वौषट् । कर्मभावनाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम् । शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥ (यथाशक्ति जपेत्) अङ्गारकाय हृदयाय नमः । धरणीसुताय शिरसे स्वाहा । रक्तवाससे शिखायै वषट् । रक्तलोचनाय कवचाय हुम् । शक्तिधराय नेत्रत्रयाय वौषट् । कर्मभावनाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम् । शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति अङ्गारकमहामन्त्रः
४ बुधः अथ बुधमहामन्त्रप्रारंभः ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः । तृष्टुप्छन्दः । बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः । बुधाय अङ्गुष्ठाभ्यां नमः । सौम्याय तर्जनीभ्यां नमः । सिंहारूढाय मध्यमाभ्यां नमः । चतुर्बाहवे अनामिकाभ्यां नमः । गदाधराय कनिष्ठिकाभ्यां नमः । सोमपुत्राय करतलकरपृष्ठाभ्यां नमः । बुधाय हृदयाय नमः । सौम्याय शिरसे स्वाहा । सिंहारूढाय शिखायै वषट् । चतुर्बाहवे कवचाय हुम् । गदाधराय नेत्रत्रयाय वौषट् । सोमपुत्राय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः । चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒ꣳसृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वꣳस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताꣳ॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥ (यथाशक्ति जपेत्) बुधाय हृदयाय नमः । सौम्याय शिरसे स्वाहा । सिंहारूढाय शिखायै वषट् । चतुर्बाहवे कवचाय हुम् । गदाधराय नेत्रत्रयाय वौषट् । सोमपुत्राय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः । चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति बुधमहामन्त्रः
५ बृहस्पतिः अथ बृहस्पतिमन्त्रप्रारंभः ॐ अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः । जगतीछन्दः । बृहस्पतिर्देवता । बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः । गुरवे अङ्गुष्ठाभ्यां नमः । वाक्पतये तर्जनीभ्यां नमः । गीर्वाणवन्दिताय मध्यमाभ्यां नमः । वरदाय अनामिकाभ्यां नमः । सुराचार्याय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः । गुरवे हृदयाय नमः । वाक्पतये शिरसे स्वाहा । गीर्वाणवन्दिताय शिखायै वषट् । वरदाय कवचाय हुम् । सुराचार्याय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् वराक्षमालिकादण्डकमण्डलुधरं विभुम् । पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम् ॥ (यथाशक्ति जपेत्) गुरवे हृदयाय नमः । वाक्पतये शिरसे स्वाहा । गीर्वाणवन्दिताय शिखायै वषट् । वरदाय कवचाय हुम् । सुराचर्याय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् वराक्षमालिकादण्डकमण्डलुधरं विभुम् । पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति बृहस्पतिमन्त्रः
६ शुक्रः अथ शुक्रमहामन्त्रप्रारंभः ॐ अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः । त्रिष्टुप्छन्दः । शुक्रो देवता । मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । दानवपूजिताय अङ्गुष्ठाभ्यां नमः । दैत्याचार्याय तर्जनीभ्यां नमः । वरदाय मध्यमाभ्यां नमः । श्वेतवस्त्राय अनामिकाभ्यां नमः । शुक्राय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः । दानवपूजिताय हृदयाय नमः । दैत्याचार्याय शिरसे स्वाहा । वरदाय शिखायै वषट् । श्वेतवस्त्राय कवचाय हुम् । शुक्राय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् जटिलं चाक्षसूत्रं च वरदण्डकमण्डलुम् । श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्वँ ह॒व्यम् म॒तिं चा॒ग्नये॒ सुपू॑तम् । यो दैव्या॑नि॒ मानु॑षा जनूँष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ अथवा ॐ शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तन्ते॑ अन्य॒द्विषु॑रूपे॒ अह॑नी॒द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधा वो भ॒द्रा ते॑ पूषन्नि॒हरा॒तिर॑स्तु ॥ (यथाशक्ति जपेत्) दानवपूजिताय हृदयाय नमः । दैत्याचार्याय शिरसे स्वाहा । वरदाय शिखायै वषट् । श्वेतवस्त्राय कवचाय हुम् । शुक्राय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् जटिलं चाक्षसूत्रं च वरदण्डकमण्डलुम् । श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति शुक्रमहामन्त्रः
७ शनैश्चरः अथ शनैश्चरमहामन्त्रप्रारंभः ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः । गायत्रीछन्दः । शनैश्चरो देवता । मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । शनैश्चराय अङ्गुष्ठाभ्यां नमः । मन्दगतये तर्जनीभ्यां नमः । अधोक्षजाय मध्यमाभ्यां नमः । सौरये अनामिकाभ्यां नमः । अभयङ्कराय कनिष्ठिकाभ्यां नमः । ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः । शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौरये कवचाय हुम् । अभयङ्कराय नेत्रत्रयाय वौषट् । ऊर्ध्वरोम्णे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑' । शं योर॒भिस्र॑वन्तु नः । (यथाशक्ति जपेत्) शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौरये कवचाय हुम् । अभयङ्कराय नेत्रत्रयाय वौषट् । ऊर्ध्वरोम्णे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति शनैश्चरमहामन्त्रः
८ राहुः अथ राहुमहामन्त्रप्रारंभः ॐ अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः । गायत्रीछन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः । धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः । कराळवदनाय तर्जनीभ्यां नमः । खण्डवराय मध्यमाभ्यां नमः । महाशूराय अनामिकाभ्यां नमः । त्रिशूलधराय कनिष्ठिकाभ्यां नमः । नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः । धूम्रवर्णाय हृदयाय नमः । कराळवदनाय शिरसे स्वाहा । खण्डवराय शिखायै वषट् । महाशूराय कवचाय हुम् । त्रिशूलधराय नेत्रत्रयाय वौषट् । नीलसिंहासनस्थाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् कराळवदनं खड्गचर्मशूलवरान्वितम् । नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑' । कया॒ शचि॑ष्ठया वृ॒ता ॥ (यथाशक्ति जपेत्) धूम्रवर्णाय हृदयाय नमः । कराळवदनाय शिरसे स्वाहा । खण्डवराय शिखायै वषट् । महाशूराय कवचाय हुम् । त्रिशूलधराय नेत्रत्रयाय वौषट् । नीलसिंहासनस्थाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् कराळवदनं खड्गचर्मशूलवरान्वितम् । नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति राहुमहामन्त्रः
९ केतुः अथ केतुमहामन्त्रप्रारंभः ॐ अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः । गायत्री छन्दः । केतुर्देवता । मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । धूम्रवर्णय अङ्गुष्ठाभ्यां नमः । द्विबाहवे तर्जनीभ्यां नमः । केतवे मध्यमाभ्यां नमः । विकृताननाय अनामिकाभ्यां नमः । गृध्रासनाय कनिष्ठिकाभ्यां नमः । लंबकाय करतलकरपृष्ठाभ्यां नमः । धूम्रवर्णाय हृदयाय नमः । द्विबाहवे शिरसे स्वाहा । केतवे शिखायै वषट् । विकृताननाय कवचाय हुम् । गृध्रासनाय नेत्रत्रयाय वौषट् । लंबकाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् । गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑' । स मु॒षद्भि॑रजायथाः ॥ (यथाशक्ति जपेत्) धूम्रवर्णाय हृदयाय नमः । द्विबाहवे शिरसे स्वाहा । केतवे शिखायै वषट् । विकृताननाय कवचाय हुम् । गृध्रासनाय नेत्रत्रयाय वौषट् । लंबकाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् । गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति केतुमहामन्त्रः