अक्षर आकार:

नवग्रहध्यानम्

navagrahadhyAnam

नवग्रहध्यानम्

श्रीगणेशाय नमः । अथ सूर्यस्य ध्यानं - त्रिपुरासर्वस्वे प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् । सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ अथ चन्द्रस्य ध्यानं - निःसृतमागमे शङ्खप्रभमेणप्रियं शशाङ्कमीशानमौलिस्थितमीड्यवृत्तम् । तमीपतिं नीरजयुग्महस्तं ध्याये हृदब्जे शशिनं ग्रहेशम् ॥ अथ भौमस्य ध्यानं - आगमामृतमञ्जर्याम् प्रतप्तगाङ्गेयनिभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम् । सुरासुरैः पूजितपादपद्मं भौमं दयालुं हृदये स्मरामि ॥ अथ सौम्यस्य ध्यानं - भैरवतन्त्रे सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दुरूपं ह्यसिपाशहस्तम् । दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम् ॥ अथ जीवस्य ध्यानं - भैरवतन्त्रे तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम् । मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम् ॥ अथ शुक्रस्य ध्यानं - कुब्जिकासर्वस्वे सन्तप्तकाञ्चननिभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहद्वन्द्वशूलम् । क्रौञ्चासनं ह्यसुरसेवितपादपद्मं शुक्रं स्मरे द्विनयनं हृदि पङ्कजेऽहम् ॥ अथ शनेर्ध्यानं - शुभदमागमामृते नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् । सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम् ॥ अथ सैंहिकेयस्य ध्यानं - वामकेश्वर तन्त्रे शीतांशुमित्रान्तकमीड्यरूपं घोरं च वैडुर्यनिभं विबाहुम् । त्रैलोक्यरक्षाप्रदंमिष्टदं च राहुं ग्रहेन्द्रं हृदये स्मरामि ॥ अथ केतोश्च ध्यानं - तन्त्रसागरे लाङ्गुलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम् । कृष्णाम्बरं शक्तित्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम् ॥ ॥ इति नवग्रहध्यानं सम्पूर्णम् ॥