अक्षर आकार:

नक्षत्रशान्तिस्तोत्रम्

Nakshatra Shanti Stotram

नक्षत्रशान्तिस्तोत्रम्

कृत्तिका परमा देवी रोहिणी रुचिरानना ॥ १॥ श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला । पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला ॥ २॥ नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः । महादेवाऽर्चने शक्ता महादेवाऽनुभावितः ॥ ३॥ पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा । मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ॥ ४॥ उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा । स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ॥ ५॥ अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् । नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः ॥ ६॥ ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः । अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् ॥ ७॥ var मूला ऋद्धिबलान्वितता पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा । अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः ॥ ८॥ एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः । ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः ॥ ९॥ मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः । धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा ॥ १०॥ उत्तराभाद्ररेवत्यावश्विनी च महर्धिका । भरणी च महावीर्या नित्यमुत्तरतः स्थिताः ॥ ११॥ शिवार्चनपरा नित्यं शिवध्यानैकमानसाः । शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः ॥ १२॥ इति नक्षत्रशान्तिस्तोत्रं सम्पूर्णम् ।