अक्षर आकार:

मङ्गलकवचम्

maNgalakavacham

मङ्गलकवचम्

श्रीगणेशाय नमः । अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः । रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ १॥ अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ २॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ ३॥ वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः । कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ ४॥ जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा । सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ ५॥ य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् । भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ ६॥ सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् । भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् । रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥ ७॥ ॥ इति श्रीमार्कण्डेयपुराणे मङ्गलकवचं सम्पूर्णम् ॥