अक्षर आकार:

केतुस्तोत्रम् २

ketustotram 2

केतुस्तोत्रम् २

ॐ धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः । गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ १॥ श्रीभैरव्युवाच । धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो । यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ २॥ श्रीपरमेश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् । सर्वपापविशुद्धात्मा स रोगैर्मुच्यते धुवम् ॥ ३॥ श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ ४॥ नमो घोरायाघोराय महाघोरस्वरूपिणे । आनन्देशाय देवाय जगदानन्ददायिने ॥ ५॥ नमो भक्तजनानन्ददायिने विश्वभाविने । विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ ६॥ नमो रुद्राय सर्वाय वरदाय चिदात्मने । त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ ७॥ त्रिपुरेशाय देवाय भैरवाय महात्मने । अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ ८॥ नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः । आपदुद्धरणायापि भैरवाय नमो नमः ॥ ९॥ नमो नमो महादेव व्यापिने परमात्मने । नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ १०॥ नमश्चापद्विनाशाय भूयो भूयो नमो नमः । नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ ११॥ नमस्ते सौररूपाय शत्रुक्षयकराय च । महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ १२॥ वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे । सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ १३॥ नमः पुच्छस्वरूपाय महामृत्युकराय च । नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ १४॥ नमस्ते चित्ररूपाय मीनदानप्रियाय च । दैत्यदानवगधर्ववन्द्याय महते नमः ॥ १५॥ य इदं पठते नित्यं प्रातरुत्थाय मानवः । ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ १६॥ यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् । इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ १७॥ सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् । गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ १८॥ अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ १९॥ श्रीदेव्युवाच \- भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो । कथनेन महेशान सत्यं क्रीतास्म्यहं त्वया ॥ २०॥ श्री ईश्वर उवाच । इदं रहस्यं परमं न देयं यस्य कस्यचित् । गुह्यं गोप्यतमं चेयं गोपनीयं स्वयोनिवत् ॥ २१॥ अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः । क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ २२॥ इति केतुस्तोत्रं सम्पूर्णम् ।