अक्षर आकार:

केतुस्तोत्रम्

ketustotraM

केतुस्तोत्रम्

अथ केतुस्तोत्रप्रारम्भः । ॐ अस्य श्री केतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । गौतम उवाच । मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद । सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥ सूत उवाच । श‍ृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् । गुह्याद्गुह्यतमं केतोः ब्रमणा कीर्तितं पुरा ॥ २॥ आद्यः कराळवदनो द्वितीयो रक्तलोचनः । तृतीयः पिङ्गळाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥ पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः । सप्तमो हिमगर्भश्च् तूम्रवर्णोष्टमस्तथा ॥ ४॥ नवमः कृत्तकण्ठश्च दशमः नरपीठगः । एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥ द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः । पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥ नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः । पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥ कुळुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् । पद्ममष्टदळं तत्र विलिखेच्च विधानतः ॥ ८॥ नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ । केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥ स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् । ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥ केतोः कराळवक्त्रस्य प्रतिमां वस्त्रसंयुताम् । कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥ दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः । वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥ मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः । तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥ इति केतुस्तोत्रं सम्पूर्णम् ।