अक्षर आकार:

केतुपञ्चविंशतिनामस्तोत्रम्

ketupa~nchavinshatinAmastotram

केतुपञ्चविंशतिनामस्तोत्रम्

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः । लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १॥ रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् । पलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥ २॥ तारागणविमर्दी च जैमिनेयो ग्रहाधिपः । गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः ॥ ३॥ प्रव्रज्यादो ज्ञानदश्च तीर्थयात्राप्रवर्तकः । पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥ ४॥ तस्य नश्यति बाधा च सर्वकेतुप्रसादतः । धनधान्यपशूनां च भवेद् वृद्धिर्न संशयः ॥ ५॥ ॥ इति श्रीस्कन्दपुराणे केतोः पञ्चविंशतिनामस्तोत्रं संपूर्णम् ॥