अक्षर आकार:

गुरुस्तोत्रम् अथवा बृहस्पतिस्तोत्रम्

gurustotraM

गुरुस्तोत्रम् अथवा बृहस्पतिस्तोत्रम्

अथ गुरुस्तोत्रम् । बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥ सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः । अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥ विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः । भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥ पञ्चविंशतिनामानि पुण्यानि नियतात्मना । वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥ यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः । विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥ यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः । बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥ इति गुरुस्तोत्रं सम्पूर्णम् ।