अक्षर आकार:

ग्रहध्यानम्

grahadhyAnam

ग्रहध्यानम्

चन्द्रध्यानम् । कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः । हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं स्वस्याङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥ कुजध्यानम् । विन्ध्येशं ग्रहदक्षिणप्रतिमुखं रक्तत्रिकोणाकृतिं दोर्भिः स्वीकृतशक्तिशूलसगदं चारूढमेषाधिपम् । भारद्वाजमुपात्तरक्तवसनच्छत्रश्रिया शोभितं मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं कुजम् ॥ बुधध्यानम् । आत्रेयं महदाधिपं ग्रहगणस्येशानभागस्थितं बाणाकारमुदङ्मुखं शरलसत्तूणीरबाणासनम् । पीतस्रग्वसनद्वयध्वजरथच्छत्रश्रिया शोभितं मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं बुधम् ॥ गुरुध्यानम् । रत्नाष्टापदवस्त्रराशिममलं दक्षात्किरन्तं करा- दासीनं विपणौ करं निदधतं रत्नादिराशौ परम् । पीतालेपनपुष्पवस्त्रमखिलालङ्कारसम्भूषितं विद्यासागरपारगं सुरगुरुं वन्दे सुवर्णप्रभम् ॥ शुक्रध्यानम् । श्वेताम्भोजनिषण्णमापणतटे श्वेताम्बरालेपनं नित्यं भक्तजनायसम्प्रददतं वासो मणीन् हाटकम् । वामेनैव करेण दक्षिणकरे व्याख्यानमुद्राङ्कितं शुक्रं दैत्यवरार्चितं स्मितमुखं वन्दे सिताङ्गप्रभम् ॥ शनीश्वरध्यानम् । ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् । निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥ %Need Surya, Rahu, Ketu dhyAna verses