अक्षर आकार:

श्रीदिनेशस्तवः

Shri Dineshastavah

श्रीदिनेशस्तवः

मानससरोगतं मे शोषय पङ्कं खरोस्रं दिननाथ । नो चेत्खरत्वमेषामुस्राणां भूयात्कथं ब्रूहि ॥ १॥ निवार्य बाह्यं परमन्धकारं दिनेश गर्वं कुरुषे वृथा त्वम् । यद्यस्ति शक्तिस्तव मामकीन- मन्तःस्थमान्ध्यं विनिवारयाशु ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीदिनेशस्त्यवः सम्पूर्णः ।