अक्षर आकार:

चन्द्रस्तोत्रम् २

Chandrastotram 2

चन्द्रस्तोत्रम् २

ध्यानं श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् । दोर्भ्यां वृताभयगदं वरदं सुधांशुं श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १॥ आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च । प्रत्यङ्मुखस्थश्चतुरस्रपीठे गदाधराङ्गो वररोहिणीशः ॥ २॥ चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ ३॥ चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् । श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥ ४॥ श्वेतछत्रधरं देवं सर्वाभरणभूषणम् । एतत्स्तोत्रं तु पठतां सर्वसम्पत्करं शुभम् ॥ ५॥ फलश्रुतिः - क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् । इदं निशाकरस्तोत्रं यः पठेत् सततं नरः । सोपद्रवाद्विमुच्येत नात्र कार्या विचारणा ॥ ६॥ इति चन्द्रस्तोत्रं सम्पूर्णम् ।