अक्षर आकार:

चन्द्रस्तोत्रम्

chandrastotram

चन्द्रस्तोत्रम्

नमश्चन्द्रमसे ॥ नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे । विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १॥ त्वमेव सर्वलोकानामाप्यायनकरः सदा । क्षीरोद्भवाय देवाय नमः शङ्गरशेखर ॥ २॥ युगानां युगकर्ता त्वं निशानाथो निशाकरः । संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३॥ ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः । ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४॥ इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः । दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५॥ न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति । अहोरात्रकृत्तं पापं पठनादेव नश्यति ॥ ६॥ द्विजराजो महापुण्यस्तारापतिर्विशेषतः । ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७॥ इति चन्द्रस्तोत्रं सम्पूर्णम् ।