अक्षर आकार:

चन्द्रमङ्गलस्तोत्रम्

chandramangalastotram

चन्द्रमङ्गलस्तोत्रम्

चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भवम् । आग्नेयश्चतुरस्रवा षण्मुखश्चापोऽप्युमाधीश्वरः । षट्सप्तानि दशैक शोभनफलः शौरिप्रियोऽर्को गुरुः । स्वामी यामुनदेशजो हिमकरः कुर्यात्सदा मङ्गलम् ॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न हि जानामि क्षमस्व परमेश्वर ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ रोहणीश सुधामूर्ते सुधारूप सुधाशन । सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥ ॐ अनया पूजया चन्द्रदेवःप्रीयताम् ॥ ॥ ॐ चन्द्राय नमः ॐ शशाङ्काय नमः ॐ सोमाय नमः ॥ ॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीचन्द्रमङ्गलस्तोत्रं सम्पूर्णम् ।