अक्षर आकार:

चन्द्रकवचम्

chandrakavacham

चन्द्रकवचम्

श्रीगणेशाय नमः । अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ १॥ एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २॥ चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः । प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥ ३॥ पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा । करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४॥ हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः । मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५॥ ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा । अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥ ६॥ सर्वाण्यन्यानि चाङ्गानि पातु चन्दूऽखिलं वपुः । एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७॥ ॥ इति श्रीचन्द्रकवचं सम्पूर्णम् ॥