अक्षर आकार:

बुधस्तोत्रम् २

budhastotram 2

बुधस्तोत्रम् २

ॐ नमो बुधाय विज्ञाय सोमपुत्राय ते नमः । रोहिणीगर्भसम्भूत कुङ्कुमच्छविभूषित ॥ १॥ सोमप्रियसुताऽनेकशास्त्रपारगवित्तम । रौहिणेय नमस्तेऽस्तु निशाकामुकसूनवे ॥ २॥ पीतवस्त्रपरीधान स्वर्णतेजोविराजित । सुवर्णमालाभरण स्वर्णदानकरप्रिय ॥ ३॥ नमोऽप्रतिमरूपाय रूपानां प्रियकारिणे । विष्णुभक्तिमते तुभ्यं चेन्दुराजप्रियङ्कर ॥ ४॥ सिंहासनस्थो वरदः कर्णिकारसमद्युतिः । खड्गचर्मगदापाणिः सौम्यो वोऽस्तु सुखप्रदः ॥ ५॥ स्थिरासनो महाकायः सर्वकर्मावबोधकः । विष्णुप्रियो विश्वरूपो महारूपो महेश्वरः ॥ ६॥ बुधाय विष्णुभक्ताय महारूपधराय च । सोमात्मजस्वरूपाय पीतवस्त्रप्रियाय च ॥ ७॥ अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः । सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ॥ ८॥ सत्यवादी खड्गहस्तो ग्रहपीडानिवारकः । सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ९॥ एतानि बुधनामानि प्रातरुत्थाय यः पठेत् । न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ॥ १०॥ इत्येतत्स्तोत्रमुत्थाय प्रभाते पठते नरः । न तस्य पीडा बाधन्ते बुद्धिभाक्च भवेत्सुधीः ॥ ११॥ सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति । बुधो बुद्धिप्रदाता च सोमपुत्रो महाद्युतिः । आदित्यस्य रथे तिष्ठन्स बुधः प्रीयतां मम ॥ १२॥ इति बुधस्तुतिः समाप्ता ।