अक्षर आकार:

बुधमङ्गलस्तोत्रम्

budhamangalastotram

बुधमङ्गलस्तोत्रम्

सौम्योदङ्मुख-पीतवर्ण-मगधश्चात्रेयगोत्रोद्भवो । बाणेशानदिशः सुहृच्छनिभृगुः शत्रुः सदा शीतगुः ॥ १॥ कन्या युग्मपतिर्दशाष्टचतुरः षण्नेत्रकः शोभनो । विष्णुः पौरुषदेवते शशिसुतः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥ बुध त्वं बुद्धिजननो बोधवान् सर्वदा नृणाम् । तत्त्वावबोधं कुरु मे सोमपुत्र नमोऽस्तु ते ॥ ३॥ अनया पूजया बुधदेवः प्रीयताम् । ॐ बुधाय नमः ॐ आत्रेयाय नमः ॐ सोम पुत्राय नमः । ॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीबुधमङ्गलस्तोत्रं सम्पूर्णम् ॥