अक्षर आकार:

भौमस्तोत्रम्

bhaumastotram

भौमस्तोत्रम्

ॐ उदयभूधरशिखरकोटरचर दिवाकरसन्निभ कुङ्कुमदहनविद्रुमललितपद्मदलाचलद्युते । ललिततुण्डविचित्रशिखण्डनकुलकुलाधिपवाहन कुरु महीसुत सिद्ध सुसेवितपादसरोज मयि कृपाम् ॥ १॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायःसर्वकर्मावबोधकः ॥ २॥ लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ॥ ३॥ धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः । अङ्गारको यमश्चैव सर्वरोगापहारकः ॥ ४॥ सृष्टिकर्ताऽपहर्ताच सर्वकामफलप्रदः । भूतिदो ग्रहपूज्यश्च वक्रो रक्तवपुः प्रभुः ॥ ५॥ एतानि कुजनामानि यो नित्यं प्रयतः पठेत् । ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ६॥ रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा । मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ७॥ ऋणरेखाः प्रकर्तव्या दग्धाङ्गारैस्तदग्रतः । सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ८॥ ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् । एवं कृत्वा न सन्देहः ऋणहीनो धनी भवेत् ॥ ९॥ भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति । येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ १०॥ शत्रवश्च हता येन भौमेन महितात्मना । स प्रीयतां तु भौमोऽद्य तुष्टो भूयात्सदा मम ॥ ११॥ इति भौमस्तोत्रं सम्पूर्णम् ।