अक्षर आकार:

भौममङ्गलस्तोत्रम्

bhaumamangalastotram

भौममङ्गलस्तोत्रम्

भौमो दक्षिणदिक्-त्रिकोणयमदिग्-विघ्नेश्वरो रक्तभः । स्वामी वृश्चिकमेषयोः सुरगुरुश्चार्कः शशी सौहृदः ॥ १॥ ज्ञोऽरिः षट् त्रिफलप्रदश्च वसुधा स्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भवः क्षितिसुतः कुर्यात्सदामङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥ कुज कुप्रभवोऽपि त्वं मङ्गलः परिगद्यसे । अमङ्गलं निहत्याशु सर्वदा यच्छ मङ्गलम् ॥ ३॥ अनया पूजया भौमदेवः प्रीयताम् । ॐ अङ्गारकाय नमः ॐ लोहिताय नमः ॐ भौमाय नमः । ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीभौममङ्गलस्तोत्रं सम्पूर्णम् ॥