अक्षर आकार:

श्रीभास्कराष्टकम्

Shri Bhaskarashtakam

श्रीभास्कराष्टकम्

श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् । नीरेजसम्भवमुकुन्दशिवस्वरूपं श्रीभास्करं भुवनबान्धवमाश्रयामि ॥ १॥ मार्ताण्डमीशमखिलात्मकमंशुमन्तं आनन्दरूपमणिमादिकसिद्धिदं च । आद्यन्तमध्यरहितं च शिवप्रदं त्वां श्रीभास्करं नतजनाश्रयमाश्रयामि ॥ २॥ सप्ताश्वमभ्रमणिमाश्रितपारिजातं जाम्बूनदाभमतिनिर्मलदृष्टिदं च । दिव्याम्बराभरणभूषितचारुमूर्तिं श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥ ३॥ पापार्तिरोगभयदुःखहरं शरण्यं संसारगाढतमसागरतारकं च । हंसात्मकं निगमवेद्यमहस्करं त्वां श्रीभास्करं कमलबान्धवमाश्रयामि ॥ ४॥ प्रत्यक्षदैवमचलात्मकमच्युतं च भक्तप्रियं सकलसाक्षिणमप्रमेयम् । सर्वात्मकं सकललोकहरं प्रसन्नं श्रीभास्करं जगदधीश्वरमाश्रयामि ॥ ५॥ ज्योतिस्वरूपमघसञ्चयनाशकं च । तापत्रयान्तकमनन्तसुखप्रदं च । कालात्मकं ग्रहगणेन सुसेवितं च । श्रीभास्करं भुवनरक्षकमाश्रयामि ॥ ६॥ सृष्टिस्थितिप्रलयकारणमीश्वरं च दृष्टिप्रदं परमतुष्टिदमाश्रितानाम् । इष्टार्थदं सकलकष्टनिवारकं च श्रीभास्करं मृगपतीश्वरमाश्रयामि ॥ ७॥ आदित्यमार्तजनरक्षकमव्ययं च छायाधवं कनकरेतसमग्निगर्भम् । सूर्यं कृपालुमखिलाश्रयमादिदेवं लक्ष्मीनृसिंहकविपालकमाश्रयामि ॥ ८॥ फलश्रुतिः श्रीभास्कराष्टकमिदं परमं पवित्रं यत्र श्रुतं च पठितं सततं स्मृतं च । तत्र स्थिराणि कमलाप्तकृपाविलासै- र्दीर्घायुरर्थबलवीर्यसुतादिकानि ॥ हरिः ॐ तत् सत् इति श्रीभास्कराष्टकं सम्पूर्णम् ।