अक्षर आकार:

बृहस्पतिस्तोत्रम्

bRRihaspatistotram

बृहस्पतिस्तोत्रम्

ॐ चराचरगुरुं नौमि गुरुं सर्वोपकारकम् । यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १॥ वृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः । गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २॥ सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः । अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३॥ सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः । सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४॥ पञ्चविंशतिनामानि गुरुं स्मृत्वा तु यः पठेत् । आयुरारोग्यसम्पन्नो धनधान्यसमन्वितः ॥ ५॥ जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः । कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥ ६॥ तदेतत्पठनादेव दह्यतेऽग्निरिवेन्धनम् । गुरोर्दिनेऽर्चयेद्यस्तु पीतवस्त्रानुलेपनैः ॥ ७॥ धूपदीपोपहारैश्च विप्रभोजनपूर्वकम् । पीडाशान्तिर्भवेत्तस्य स्वयमाह बृहस्पतिः ॥ ८॥ मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः । ज्ञाता यः सर्वशास्त्राणां स गुरुः प्रीयतां मम ॥ ९॥ इति बृहस्पतिस्तोत्रम् ।