अक्षर आकार:

बृहस्पतिमङ्गलस्तोत्रम्

bRRihaspatimangalastotram

बृहस्पतिमङ्गलस्तोत्रम्

जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तरासंस्थितः । पीतोऽश्वत्थसमिद्धसिन्धुजनितश्चापोऽथ मीनाधिपः ॥ १॥ सूर्येन्दुक्षितिजप्रियो बुधसितौ शत्रूसमाश्चापरे । सप्ताङ्कद्विभवः शुभः सुरगुरुः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत् पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥ वेदशास्त्रार्थतत्त्वज्ञः ज्ञानविज्ञानपारग । विबुधार्तिहरो नित्यं देवाचार्य नमोऽस्तुते ॥ ३॥ ॐ अनया पूजया वृहस्पतिदेवः प्रीयताम् । ॐ वृहस्पतये नमः ॐ जीवाय नमः ॐ सुराचार्याय नमः । ॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीबृहस्पतिमङ्गलस्तोत्रं सम्पूर्णम् ॥