अक्षर आकार:

आदित्यस्तोत्रम्

Adityastotram

आदित्यस्तोत्रम्

श्रीगणेशाय नमः । नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥ पीडानाशाय राजेन्द्र नामानि श‍ृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति श‍ृण्वतः ॥ २॥ आदित्य सविता सूर्यः पूषार्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः ॥ ३॥ दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः । विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥ हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः । पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५॥ द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः । जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६॥ भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः । सङ्काशो भास्वानदितिनन्दनः ॥ ७॥ ?? ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः । मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८॥ जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः । सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९॥ विवस्वानादिदेवश्च देवदेवो दिवाकरः । धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥ १०॥ चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः । कोकशोकापहर्ता च कमलाकर आत्मभूः ॥ ११॥ नारायणो महादेवो रुद्रः पुरुष ईश्वरः । जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२॥ इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः । श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३॥ शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः । सर्वदेवमयो देवः कृष्णः कायप्रदायकः ॥ १४॥ य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् । सर्वपापविनिर्मुक्तः सवर्रोगविवर्जितः ॥ १५॥ पुत्रवान् धनवान् श्रीमाञ्जायते स न संशयः । रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६॥ पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः । सद्यः सुखमवाप्नोति चायुर्दीर्घं च नीरुजम् ॥ १७॥ इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् ।