अक्षर आकार:

आदित्यहृदयस्तोत्रम् पद्मपुराणान्तर्गतम्

Adityahridayastotram from padmapurANa

आदित्यहृदयस्तोत्रम् पद्मपुराणान्तर्गतम्

॥ अथ श्रीपद्मपुराणोक्त निरोगकारी आदित्यहृदयप्रयोगः ॥ आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥ पञ्चमं च सहस्रांशु षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वं च अष्टमं तु अहर्पतिः ॥ नवमं दिनकरः प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रिमूर्तिश्च द्वादशं सूर्य एव तु ॥ ॥ फलश्रुति ॥ द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥ दद्रुकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥ यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः । सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ ॥ सूर्यस्य द्वादशनाम नमस्कारम् ॥ १. ॐ आदित्याय नमः । २. ॐ दिवाकराय नमः । ३. ॐ भास्कराय नमः । ४. ॐ प्रभाकराय नमः । ५. ॐ सहस्रांशवे नमः । ६. ॐ त्रिलोचनाय नमः । ७. ॐ हरिदश्वाय नमः । ८. ॐ विभावसवे नमः । ९. ॐ दिनकराय नमः । १०. ॐ द्वादशात्मकाय नमः । ११. ॐ त्रिमूर्तये नमः । १२. ॐ सूर्याय नमः ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः, अनुष्टुप्छन्दः, श्रीसूर्यनारायणो देवता, हरितहयरथं दिवाकरं घृणिरिति बीजं, नमो भगवते जितवैश्वानर जातवेदसे नमः इति शक्तिः, अंशुमानिति कीलकं, अग्नि कर्म इति मन्त्रः, मम सर्वरोगनिवारणाय श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ॥ स्तवः ॥ अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेत् करयोः सूर्यं कर्णयोश्च दिवाकरम् ॥ नासिकायां न्यसेत् भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥ सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ स्तनभारं महातेजा आदित्यमुदरे न्यसेत् । पृष्ठे त्वर्घमणं विद्यादादित्यं नाभिमण्डले ॥ कट्यां तु विन्यसेद्धंसं रुद्रमूर्वो विन्यसेत् । जान्होस्तु गोपतिं न्यस्य सवितारं तु जङ्घयोः ॥ पादयोस्तु विवस्वन्तं गुल्फयोश्च प्रभाकरम् । सर्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत् ॥ बाह्यतस्तु तमोघ्नंसं भगमभ्यन्तरे न्यसेत् । एष आदित्यविन्यासो देवानामपि दुर्लभः ॥ ॥ न्यासम् ॥ मूर्ध्नि अर्काय नमः । ललाटे रवये नमः । करयोः सूर्याय नमः । कर्णयोः दिवाकराय नमः । नासिकायां भानवे नमः । मुखे भास्कराय नमः । ओष्ठयोः पर्जन्याय नमः । जिह्वायां तीक्ष्णाय नमः । कण्ठे सुवर्णरेतसे नमः । स्कन्धयोः तिग्मतेजसे नमः । बाह्वोः पूषणाय नमः । पृष्ठे मित्राय नमः । दक्षहस्ते वरुणाय नमः । वामहस्ते त्वष्टारं नमः । हस्तौ उष्णकराय नमः । हृदये भानुमते नमः । स्तनयोः महातेजसे नमः । उदरे आदित्याय नमः । पृष्ठे अर्घमणाय नमः । नाभौ विद्यादादित्याय नमः । कट्यां हंसाय नमः । ऊर्वोः रुद्राय नमः । जान्होः गोपतये नमः । जङ्घयोः सवित्रे नमः । पादयोः विवस्वते नमः । गुल्फयोः प्रभाकराय नमः । सर्वाङ्गे सहस्रांशवे नमः । दिग्विदिक्षु भगाय नमः । बाह्ये तमोघ्नंसाय नमः । अभ्यन्तरे भगाय नमः । ॥ ध्यानम् ॥ भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचारञ्जितश्चारुकेशो भास्वान् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः । विश्वाकाशावकाशो ग्रहग्रहण सहितो भाति यश्चोदयाद्रौ सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ ॥ अर्घ्यम् ॥ एहि सूर्य सहस्रांशो तेजोराशिः जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥ ॥ मन्त्रम् ॥ ॐ घृणिः सूर्य आदित्य । ॥ सूर्यस्तुतिः ॥ अग्निमीळे नमस्तुभ्यमीषत्तूर्यस्वरूपिणे । अग्न्यायाहि वीतये त्वं नमस्ते ज्योतिषां पते ॥ शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । धवलाम्भोरुहणं डाकिनीं श्यामलप्रभाम् ॥ विश्वदीप नमस्तुभ्यं नमस्ते जगदात्मने । पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥ सप्ताश्वरथसंयुक्तो द्विभुजो भास्करो रविः । आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ॥ जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते । नमो धर्मविपाकाय नमः सुकृतसाक्षिणे ॥ नमः प्रत्यक्षदेवाय भास्कराय नमो नमः । उदयगिरिमुपेतं भास्करं पद्महस्तं । सकलभुवनरत्नं रत्नरत्नाभिधेयम् ॥ तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां । सुरवरमभिवन्दे सुन्दरं विश्वरूपम् ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात् कारुण्यभावेन रक्षस्व परमेश्वर ॥ ॥ इति श्रीपद्मपुराणे श्रीकृष्णार्जुनेसंवादे आदित्यहृदयस्तोत्रम् ॥