अक्षर आकार:

आदित्यहृदयम्

AdityahRidayam

आदित्यहृदयम्

भविष्योत्तरपुराणान्तर्गतम् श्रीगणेशाय नमः । अथ आदित्यहृदयम् । शतानीक उवाच । कथमादित्यमुद्यन्तमुपतिष्ठेद्विजोत्तमः । एतन्मेब्रूहि विप्रेन्द्र प्रपद्ये शरणं तव ॥ १॥ सुमन्तुरुवाच । इदमेव पुरा पृष्टः शङ्खचक्रगदाधरः । प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २॥ कुरुक्षेत्रे महाराजप्रवृत्ते भारते रणे । कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥ ३॥ अर्जुन उवाच । ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । मम कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ ४॥ सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५॥ सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६॥ श्रीभगवानुवाच । रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया । वक्ष्येऽहं सूर्यविन्यासं श‍ृणु पाण्डव यत्नतः ॥ ७॥ अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन । तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥ ८॥ अर्जुन उवाच । नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः । कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥ ९॥ श्रीभगवानुवाच । साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १०॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११॥ अमित्रदमनं पार्थ सङ्ग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यहृदयं श‍ृणु ॥ १२॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥ १३॥ देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन । विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥ १४॥ तस्मात्सर्वप्रयत्नेन सूर्यमावाहयेत् सदा । आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव ॥ १५॥ यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् । लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥ १६॥ अस्मिन्मन्त्रे ऋषिश्छन्दो देवताशक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रतः ॥ १७॥ मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मन्त्रमेव च ॥ १८॥ ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः । श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता अनुष्टुप्छन्दः । हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐ नमो भगवते जितवैश्वानरजातवेदसे इति शक्तिः । ॐ नमो भगवते आदित्याय नमः इति कीलकम् । ॐ अग्निगर्भदेवता इति मन्त्रः । ॐ नमो भगवते तुभ्यमादित्याय नमोनमः । श्रीसूर्यनारायणप्रीप्यथं जपे विनियोगः । अथ न्यासः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखाय वषट् । ॐ ह्रैं कवचाय हुम् ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः ॥ अथ ध्यानम् ॥ भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो भास्वान्यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः । विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ १॥ पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥ २॥ आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् । मार्तण्डं तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्रीः सर्वतो मुखी ॥ ४॥ सर्वज्ञः सर्वगश्चैव सर्वकारणदेवता । सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५॥ सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥ ६॥ इति प्रार्थना ॥ नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे । अनन्तशक्तिर्मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७॥ अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्च दिवाकरम् ॥ ८॥ नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥ ९॥ सुवर्णरेतसं कण्ठे स्कन्धयोनितग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १०॥ वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११॥ उदरे तु यमं विद्यादादित्यं नाभिमण्डले । कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२॥ जान्वोस्तु गोपतिं न्यस्य सवितारं जङ्घयोः । पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥ १३॥ बाह्यतस्तु तमोध्वंस भगमभ्यन्तरे न्यसेत् । सर्वाङ्गेषु सहस्रांशुं दिग्विदिक्षु भग न्यसेत् ॥ १४॥ इति दिग्बन्धः । एष आदित्यविन्यासो देवानामपिदुर्लभः । इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५॥ कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः । सर्पादपि भयं नैव सङ्ग्रामेषु पथिष्वपि ॥ १६॥ रिपुसङ्घट्टकालेषु तथा चोरसमागमे । त्रिसन्ध्यं जपतो न्यास महापातकनाशनम् ॥ १७॥ विस्फोटकसमुत्पन्न तीव्रज्वरसभुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८॥ कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये । जपमानस्य नश्यन्ति श‍ृणु भक्त्या तदर्जुन ॥ १९॥ आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्वरः । आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः ॥ २०॥ आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजत्तदर्जुन ॥ २१॥ आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् । आदित्यं ये प्रपश्यन्ति मां पश्यन्ति न संशयः ॥ २२॥ त्रिसन्ध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः । न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३॥ एतत्ते कथितं पार्थ आदित्यहृदयं मया । श‍ृणवन्मुक्तश्च पापेभ्यः सूर्यलोके महीयते ॥ २४॥ नमो भगवते तुभ्यमादित्याय नमो नमः । आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥ २५॥ सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः । रविर्विश्वो महातेजाः सुवर्णः सुप्रबोधकः ॥ २६॥ हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः । मार्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान् ॥ २७॥ तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः । शुद्धो विरोचनः केशी सहस्रांशुर्महाप्रभुः ॥ २८॥ विवस्वान्पूषणो मृत्युर्मिहिरो जामदग्न्यजित् । धर्मरश्मिःपतङ्गश्च शरण्यो मित्रहा तपः ॥ २९॥ दुर्विज्ञेयगतिः शूरस्तेजोरश्मिर्महायशाः । शम्भुश्चित्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३०॥ अंशुमानुत्तमो देव ऋग्यजुःसाम एव च । हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥ ३१॥ अग्निगर्भोऽद्रितेः पुत्रः शम्भुस्तिमिरनाशनः । पूषा विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान् ॥ ३२॥ आतपी मण्डली भास्वांस्तपनः सर्वतापनः । कृतविश्वो महातेजः सर्वरत्नमयोद्भवः ॥ ३३॥ अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ । चन्द्रश्चन्द्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३४॥ अङ्गारको गदोऽगस्ती रक्ताङ्गश्चाङ्गवर्धनः । बुधो बुद्धासनो बुद्धिर्बुद्धात्मबुद्धिवर्धनः ॥ ३५॥ बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः । शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः ॥ ३६॥ शनिमान् शनिरूपस्त्वं शनैर्गच्छसि सर्वदा । अनादिरादिरादित्यस्तेजोराशिर्महातपाः ॥ ३७॥ अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्यमः । भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीतिमान् ॥ ३८॥ धूम्रकेतुर्महाकेतुः सर्वकेतुरनुत्तमः । तिमिरावरणः शम्भुः स्त्रष्टा मार्तण्डएव च ॥ ३९॥ नमः पूर्वाय गिरये पश्चिमाय नमो नमः । नमोत्तराय गिरये दक्षिणाय नमो नमः ॥ ४०॥ नमो नमः सहस्रांशो ह्यादित्याय नमो नमः । नमःपद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१॥ नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे । ज्योतिषे च नमस्तुभ्यं ज्ञानाकार्य नमो नमः ॥ ४२॥ प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः । नमस्ते होतृपतये पृथिवीपतये नमः ॥ ४३॥ नमोङ्कार वषट्कार सर्वयज्ञ नमोऽस्तु ते । ऋग्वेदाय यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४॥ नमो हाटकवर्णाय भास्कराय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ४५॥ दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः । नमस्ते शुचये नित्यं नमः कुरुकुलात्मनम् ॥ ४६॥ नमस्त्रैलोक्यनाथाय भूतानां पतये नमः । नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७॥ त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः । त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८॥ योजनानां सहस्रे द्वे शते द्वे द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९॥ नवयोजनलक्षाणि सहस्रद्विशतानि च । यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते ॥ ५०॥ अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः । पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१॥ नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे । नमो दिव्याय व्योमाय सर्वतन्त्रमयाय च ॥ ५२॥ नमो वेदान्तवैद्याय सर्वकर्मादिसाक्षिणे । नमो हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३॥ अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा । चैत्रमासे तु वेदाङ्गो भानुर्वैशाखतापनः ॥ ५४॥ ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः । गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा ॥ ५५॥ इषे सुवर्णरेताश्च कार्तिके च दिवाकरः । मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६॥ पुरुषस्त्वधिके मासि मासाधिक्ये तु कल्पयेत् । इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७॥ उग्ररूपा महात्मानस्तपन्ते विश्वरूपिणः । धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८॥ सर्वपापहरं चैवमादित्यं सम्प्रपूजयेत् । एकधा दशधा चैव शतधा च सहस्रधा ॥ ५९॥ तपन्ते विश्वरूपेण सृजन्ति संहरन्ति च । एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥ ६०॥ महेन्द्रश्चैव कालश्च यमो वरुण एव च । नक्षत्रग्रहताराणामधिपो विश्वतापनः ॥ ६१॥ वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयं प्रभुः । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥ ६२॥ एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥ ६३॥ एष पातालसप्तस्था दैत्यदानवराक्षसाः । एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४॥ एष एव प्रजा नित्यं संवर्धयति रश्मिभिः । एष यज्ञः स्वधा स्वहा ह्रीः श्रीश्च पुरुषोत्तमः ॥ ६५॥ एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः । ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ६७॥ दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः । कीर्तनीयो विवस्वांश्च मार्तण्डो भास्करो रविः ॥ ६८॥ लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः । लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९॥ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७०॥ आयुरारोग्यमैश्वर्यं नरा नार्यश्च मन्दिरे । यस्य प्रसादात्सन्तुष्टिरादित्यहृदयं जपेत् ॥ ७१॥ इत्येनैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः । प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥ ७२॥ पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः । एकसन्ध्यं द्विसन्ध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३॥ त्रिसन्ध्यं जपमानस्तु पश्येश्च परमं पदम् । यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥ ७४॥ यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते । दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥ ७५॥ सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६॥ ये चान्ये दुष्टगेगाश्च ज्वरातीसारकादयः । जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥ ७७॥ संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् । अशीर्षां पश्यतिच्छायामहोरात्रं धनञ्जय ॥ ७८॥ यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः । प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः ॥ ७९॥ सुवर्णचक्षुर्भवति न चान्धस्तु प्रजायते । पुत्रवान् धनसम्पन्नो जायते चारुजः सुखी ॥ ८०॥ सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत । आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१॥ श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ॥ ८२॥ एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि । आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥ ८३॥ भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः । गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४॥ पातकानि च सर्वाणि दहत्येव न संशयः । य इदं श‍ृणुयान्नित्य जपेद्वाऽपि समाहितः ॥ ८५॥ सर्वपापविशुद्धात्मा सूर्यलोके महीयते । अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६॥ कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥ ८७॥ उदयाचलमारूढं भास्करं प्रणतः स्थितः । जपते मानवो भक्त्या श‍ृणुयाद्वापि भक्तितः ॥ ८८॥ स याति परमं स्थानं यत्र देवो दिवाकरः । अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥ ८९॥ तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥ ९०॥ एतन्मन्त्रं समाहूय सर्वसिद्धिकरं परम् । ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा । ॐ ह्रीं मालीढं स्वाहा । इति मन्त्रः । त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः । जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत ॥ ९१॥ राक्षससेनाभिभूतस्य विकारान् श‍ृणु पाण्डव । गीयते नृत्यते नग्न आस्फोटयति धावति ॥ ९२॥ शिवारुतं च कुरुते हसते क्रन्दते पुनः । एवं सम्पीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥ ९३॥ किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः । पीडितस्य न सन्देहो ज्वरौ भवति दारुणः ॥ ९४॥ यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभङ्करम् । तदा सलिलमादाय जपेन्मन्त्रमिमं बुधः ॥ ९५॥ नमो भगवते तुभ्यमादित्याय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ९६॥ स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥ ९७॥ अतस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे । उपलिप्ते शुचौ देशे नियतो वाग्यताः शुचिः ॥ ९८॥ वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छचि । त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९॥ अष्टपत्रंलिखेत्पद्मं लिप्तगोमयमण्डले । पूर्वपत्रे लिखेत् सूर्यमाग्नेय्यां तु रविं न्यसेत् ॥ १००॥ याम्यायां च विवस्वन्तं नैऋर्त्यां तु भगं न्यसेत् । प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१॥ आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च । मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२॥ अतः परतरं नास्ति सिद्धिकामस्य पाण्डव । महातेजः समुद्यतं प्रणमेत्स कृताञ्जलिः ॥ १०३॥ सकेसराणि पद्मानि करवीराणि चार्जुन । तिलतण्द्गुलयुक्तानि कुशगन्धोदकानि च ॥ १०४॥ रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥ १०५॥ मन्त्रपूतं गुडाकेशः चार्घ्यं दद्याद्गभस्तये । सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६॥ स्वागतो भव । सुप्रतिष्ठितो भव । सन्निधौ भव । सन्निहितो भव । सम्मुखो भव । इति पञ्चमुद्राः । स्फुटयित्वाऽर्हयेत्सूर्यं भुक्ति मुक्तिं लभेन्नरः ॥ १०७॥ ॐ श्रीं विद्या किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा । ॐ श्रीं ह्रीं ह्रूं हंसः सूर्याय नमः स्वाहा । ॐ श्रीं ह्रां ह्रीं ह्रूं ह्रः सूर्यमूर्तये स्वाहा । ॐ श्रीं ह्रीं खं खः लोकाय सूर्यमूर्तये स्वाहा । ॐ ह्रूं मार्तण्डाय स्वाहा । नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे । त्वमेव चार्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥ १०८॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥ ११०॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे । ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११॥ सर्वदेवाधिदेवाय आधिव्याधिविनाशिने । इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२॥ नमः सूर्याय शान्ताय सर्वरोगविनाशिने । ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर ॥ ११३॥ ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा । ॐ सर्वात्मने सूर्यायनमः स्वाहा । ॐ अक्षय्यतेजसेनमः स्वाहा । सर्वसङ्कटदारिद्रयं शत्रुं नाशय नाशय । सर्वलोकेषु विश्वात्मन्सर्वात्मन्सर्वदर्शक ॥ ११४॥ नमो भगवते सूर्य कुष्ठरोगान्विखण्डय । आयुरारोग्यमैश्वर्यं देहि देव नमोऽस्तु ते ॥ ११५॥ नमो भगवते तुभ्यमादित्याय नमो नमः । ॐ अक्षय्यतेजसे नमः । ॐ सूर्याय नमः । ॐ विश्वमूर्तये नमः । आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥ ११६॥ एतदिच्छाम्यहं श्रोतुं पुरूषो वै दिवाकरः । उदये ब्राह्मणो रूपं मध्याह्ने तु महेश्वरः ॥ ११७॥ अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः । नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे ॥ ११८॥ ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते । श्रीसूर्यनारायणाय साङ्गाय सपरिवाराय इदमर्घ्यं समर्पयामि ॥ ११९॥ हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः । कृतघ्नाय सत्याय तस्मै सूयार्त्मने नमः ॥ १२०॥ जयोऽजयश्च विजयो जितप्राणो जितश्रमः । मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१॥ हरितहयरथं दिवाकरं कनकमयाम्बुजरेणुपिञ्जरम् । प्रतिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥ १२२॥ न तं व्यालाः प्रबाधन्ते न व्याधिभ्योभयं भवेत् । न नागेभ्यो भयं चैव नच भूतभयं क्वचित् ॥ १२३॥ अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४॥ सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् । एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६॥ इदमादित्यहृदयं योऽधीते सतनं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १२७॥ नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः । प्रत्यक्षो भगवन्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥ १२८॥ नवतिर्योजनं लक्षं सहस्राणि शतानि च । यावद्घटीप्रमाणेन तावच्चरति भास्करः ॥ १२९॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वाञ्शान्तात्मा स्तौति यो रविम् ॥ १३०॥ योऽधीते सूर्यहृदयं सकलं सफलं भवेत् । अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१॥ ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२॥ अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय । सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥ १३३॥ विवस्वते ज्ञानमृदन्तरात्मने जगत्प्रदीपाय गजद्धितैषिणे । स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १३४॥ सुरैरनेकैः परिषेविताय हिरण्यगर्भाय हिरण्मयाय । महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५॥ आदित्यश्चार्चितो देव आदित्यः परमं पदम् । आदित्यो मातृको भूत्वा आदित्यो वाङ्मय जगत् ॥ १३६॥ आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः । नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७॥ त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः । त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८॥ नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमथाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ १३९॥ यस्योदयेनेह जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये । ब्रह्मेन्द्रनारायणरुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥ १४०॥ नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने । सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥ १४१॥ यत्मण्डलं दीतिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२॥ यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतम्भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३॥ यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४॥ यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५॥ यन्मण्डलं व्याधि विनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् । प्रकाशितं येन च भूर्भुवःस्वः पुनातु मां तत्सवितुवरेण्यम् ॥ १४६॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः । यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८॥ यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहारं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९॥ यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाम्प्रलयप्रगल्भम् । यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५०॥ यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१॥ यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः । यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२॥ यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथातुगम्यम् । तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३॥ मण्डलाष्टमिदं पुण्यं यः पठेत्सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४॥ ध्येयः सदासवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १५५॥ सशङ्खचक्रं रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् । भजामि बुद्धया तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं बिभुव ॥ १५७॥ वेदवेदाङ्गशरीरं दिव्यदीप्तिकरं परम् । रक्षोश्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९॥ आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६०॥ पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ १६१॥ नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमुर्तिर्द्वादशं सूर्य एव च ॥ १६२॥ द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३॥ दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥ १६४॥ यः पठेत्मातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥ १५॥ अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे । अग्र आयाहि पीतस्त्वं नमस्ते ज्योतिषां पते ॥ १६६॥ शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पञ्चमायोपवेदाय नमस्तुभ्यं नमोनमः ॥ १६७॥ पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८॥ आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने । जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ १६९॥ (नमो धर्मनिधानाय नमः सुकृतसाक्षिणे । नमः प्रत्यक्षदेवाय भास्कराय नमोनमः ॥ अपरः शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष दिवाकर ॥ पौरोहित्यं रजनिचरणं ग्रामणीत्वं निः योगो माठापत्यं वितथवचनं साक्षिवादः परान्नम् । ब्रह्मद्वेष खलजनरतिः प्राणिषु निर्दयत्वं माभूदेतन्मम दिनपते जन्मजन्मान्तरेऽपि ॥ उदयंस्तु महाभानुस्तेजसा चाभयङ्करः । सहस्ररश्मिदीप्तश्चत्वादित्यः प्रीयतां मम ॥) उदयगिरिमुपेतं भास्करं पद्महस्तं निखिलभुवननेत्रं रत्नंरत्नोपमेयम् । तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥ १७०॥ इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयस्तोत्रं सम्पूर्णम् ॥