अक्षर आकार:

आदित्यद्वादशनामस्तोत्रम्

AdityadvAdashanAmastotram

आदित्यद्वादशनामस्तोत्रम्

एकचक्रो रथो यस्य दिव्यः कनकभूषणः । स मे भवतु सुप्रीतः पञ्चहस्तो दिवाकरः ॥ १॥ आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ २॥ पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ ३॥ नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ४॥ द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति ॥ ५॥ इति आदित्यद्वादशनामस्तोत्रं समाप्तम् ॥