अक्षर आकार:

आदित्याष्टकम्

AdityAShTakam

आदित्याष्टकम्

उदयाद्रिमस्तकमहामणिं लसत्- कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥ दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३॥ श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४॥ शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५॥ श्रुतितत्त्वगम्यमखिलाक्षिगोचरं जगदेकदीपमुदयास्तरागिणम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ६॥ श्रितभक्तवत्सलमशेषकल्मष- क्षयहेतुमक्षयफलप्रदायिनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७॥ अहमन्वहं सतुरगक्षताटवी शतकोटिहालकमहामहीधनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ८॥ इति सौरमष्टकमहर्मुखे रविं प्रणिपत्य यः पठति भक्तितो नरः । स विमुच्यते सकलरोगकल्मषैः सवितुस्समीपमपि सम्यगाप्नुयात् ९॥ इति आदित्याष्टकं समाप्तम् ॥