अक्षर आकार:

सन्न्यासि स्वागतम्

Verses to welcome a sannyAsi or svAmI

सन्न्यासि स्वागतम्

The following verses are from the mahAnArAyaNopaniShad. They are recited while welcoming sanyasis. They are to be seen in the chapter titled Dahara Vidya (12-3) as verses No: 4 to 7. न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशुः । परेण नाकं निहितं गुहायां विभ्राज-देतद्यतयो विशन्ति ॥ १२-३-४॥ वेदन्तविज्ञान-सुनिश्चितार्थाः सन्यास-योगाद्यतय-श्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ १२-३-५॥ दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्। तत्रापि दह्रं गगनं विशोक-स्तस्मिन् यदन्तस्त-दुपासितव्यम् ॥ १२-३-६॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः ॥ १२-३-७॥ ॥ ॐ॥