अक्षर आकार:

तंत्राख्यायिका

tantrAkhyAyikA

तंत्राख्यायिका

1, 2 : Affe und Keil अस्ति कश्चिद्वणिजकः । नगरसमीपे तेन देवताऽऽयतनं क्रियते । तत्र ये कर्मकारास्स्थपत्यादयः ! मध्याह्नवेलायां आहारनिमित्तं भोजनमण्डपं अनुप्रविष्टाः । अकस्माच्चनुषङ्गिकं देवगृहे वानरयूथं आगतं । अथ तत्रएकस्य शिल्पिनो अर्धस्फोटितकाष्ठस्तम्भो अर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावस्तब्धो अवतिष्ठते । तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य स्वेच्छया तरुशिखरप्रासादश‍ृङ्गदारुनिचयेषु प्रक्रीडितुं आरब्धः । एकस्तु तत्रासन्नविनाशश्चापलादुपविश्य स्तम्भे यन्त्रचारं उद्दिश्यैदं आह । केनायं अस्थाने कीलको निखातः । इति पाणिभ्यां एव सङ्गृह्यौत्पाटितुं आरब्धः । स्थानाच्चलिते कीले यद्वृत्तं ! तदनाख्येयं ! एवं एव भवता ज्ञातं इति । 1,2 Schakal und Trommel अस्ति कश्चिद्गोमायुर् आहारविच्छेदात् क्षुत्क्षामकण्ठ इतश्च इतः परिभ्रमन्नुभयसैनस्यायोधनभूमिं अपश्यत् । तत्र च महान्तं शब्दं अश‍ृणोत् । तद्भयसंक्षुभितहृदयः किं इदं ! विनष्टो अस्मि ! कस्यायं शब्दः ! क्व वा कीदृशो वाएष शब्द इति ! चिन्तयता दृष्टा गिरिशिखराकारा भेरी । तां च दृष्ट्वाचिन्तयत् । किं अयं शब्दो अस्यास्स्वाभाविकः ! उत परप्रेरित इति । अथ सा यदा वायुप्रेरितैर् वृक्षाग्रैस्स्पृश्यते ! तदा शब्दं करोति ! अन्यदा न ! इति तूष्णीं आस्ते । स तु तस्यास्सारासारतां ज्ञातुं संनिकर्षं उपश्लिष्टः । स्वयं च कौतुकादुभयोर् मुखयोर् अताडयत् ! अचिन्तयच्च। गम्यं चएतद्भक्स्यं च मम । इत्यवधार्यएकदंष्ट्रया क्षुधाविष्टः पाटितवान् । परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्गं अवाप्तवान् । प्रतिबद्धाश्च पुनर् अप्यचिन्तयत् । नूनं अस्या अन्तर् भक्ष्यं भविष्यतीति । इत्यध्यवस्य भेर्या मुखं विदार्यान्तः प्रविष्टः । तस्मिन्नपि न किञ्चिदासादितवान् । प्रतिनिवर्तितुं अशक्तो अन्तर्लीनार्धकायो विहस्याब्रवीत् । पूर्वं एव मया ज्ञातं इति । 1,3 Drei selbstverschuldete Unf„ll अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम । तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषौपचय् आन् महत्य्- अर्थमात्रा संवृत्ता । स च न कस्यचिदपि विश्वासं याति । अथ कदाचिदाषाढभूतिर् नाम परवित्तापहृत् कथं इयं अर्थमात्रास्य मया परिहर्तव्यैति वितर्क्यावलगनरूपेण उपगम्य तत्कालेन च विश्वासं अनयत् । अथ कदाचिदसौ परिव्राजकस्- तीर्थयात्राप्रसङ्गे तेन आषाढभूतिना सह गन्तुं आरब्धः । तत्र च कस्मिंश्चिद्वनौद्देशे नदीतीरे मात्रान्तिक आषाढभूतिं अवस्थाप्यएकान्तं उदकग्रहणार्थं गतः । अपश्यच्च महन् मेषयुद्धं । अनवरतयुद्धशक्तिसम्पन्नयोश्च तयोश् श‍ृङ्गपञ्जरान्तरौद्भूतसृग् बहु भूमौ निपतितं दृष्ट्वा आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस्- तज्जिघृक्षुस्- सम्पीडितौद्घातात् सद्यः पञ्चत्वं अगमत् । अथ परिव्राड् विस्मयाविष्टो अब्रवीत् । जम्बुको हुडुयुद्धेनैति । कृतशौचश्चागतस्तं उद्देशं आषाढभूमिं अपि गृहीतार्थमात्रासारं अपक्रान्तं नापश्यद्- देवशर्मा । केवलं त्व् अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्- चकाद्य् अपश्यत् ! अचिन्तयच्च । क्वासावाषाढभूतिः । नूनं अहं तेन मुषितः । इत्युक्तवान् । वयं चाषाढभूतिनैति । अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद्- ग्रामं अस्तं गच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायं अपश्यत् ! आवासकं च प्रार्थितवान् । तेनापि तस्यात्मीयगृहएकदेशे स्थानं निर्दिश्य भार्या अभिहिता । यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं क्र्त्वा आगच्छामि ! तावदप्रमत्तया गृहे त्वया भाव्यं । इत्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुं आरब्धा । अभिमुखश्चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिर् अवस्रस्तवासास्समायातः । तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पं अपनीय पूर्वप्रकृतं एव वेषं आस्थाय पादशौचशयनाद्यारम्भं अकरोत् । कौलिकस्तु गृहं प्रविश्य निद्रावशं अगमत् । सुप्तप्रतिबुद्धश्चासौ तां आक्रोष्टुं आरब्धः । पुंश्चलि ! त्वद्गतं अपचारं सुहृदो मे वर्णयन्ति । भवतु । पुष्टं निग्रहं करिष्यामीति । असावपि निर्मर्यादा प्रतिवचनं दातुं आरब्धा । पुनर् अपि चासौ प्रतिबुद्धस्तां मध्यस्तूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः । दूतिकाएतां पुनर् गमनाय प्रचोदितवती । सा तूत्पन्नप्रतिभा दूतिकां आत्मीयदर्शनसंविधानेन बद्ध्वा कामुकसकाशं ययौ । असावपि प्रतिबुद्धस्तथाएव तां आक्रोष्टुं आरब्धः । दूतिका तु शङ्कितहृदयानुचितवाक्यौदाहरणभीता न किञ्चिद्- उक्तवती । तन्त्रवायस्तु शाठ्यादियं न किञ्चिन् ममौत्तरं प्रयच्छति इत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत् । तिष्ठएवंलक्षणा । कस्त्वां अधुना वार्त्तां पृच्छति । इत्युक्त्वा निद्रावशं उपागमत् । आगता च सा तन्त्रवायी दूतिकां अपृच्छत् । का ते वार्त्ता । किं अयं प्रतिबुद्धो अभिहितवान् । कथय कथयैति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षं आह । शिवास्ते सर्वा वार्त्ताः । मुञ्च । गच्छामीति । तथा त्वनुष्ठिते नासिकां आदायापक्रान्ता । तन्त्रवाय्य्- अप्य्कृतकबद्धं आत्मानं तथाएवाकरोत् । कौलिकस्तु यथापूर्वं एव प्रतिबुद्धस्तां आक्रोशत् । असावपि दुष्टा बहु धृष्टरं आह । धिग्घतो असि । को मां निरागसं विरूपयितुं समर्थः । श‍ृण्वन्तु मे लोकपालाः । यथाहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं मुखं अस्त्व् इति । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्यौल्कां अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमना बन्धवादवमुच्य पीडितं च परिष्वज्य शय्यां आरोपितवान् । परिव्राजकस्त्वादित एवारभ्य यथावृत्तं अर्थं अभिज्ञातवान् । दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् । किं अधुना कर्तव्यं इति । अथ तस्या भर्ता नापितो राजकुलात् प्रत्यूषस्य् आगत्य तां भार्यां आह । समर्पय ! भद्रे ! क्षुरभाण्डं । राजकुले कर्म कर्तव्यं इति । सा च दुष्टाभ्यन्तरस्थाएव क्षुरं एव प्राहिणोत् । स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो नापितस्तं एव तस्याः क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवं उच्छैः कृत्वा पाणिना नासापुटं प्रमृज्य असृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् । परित्रायध्वं ! परित्रायध्वं । अनेनाहं अदृष्टदोषा विरूपितैति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा विरूपां कीलपार्ष्णिलगुडैर् अतीव हतं पश्चाद्बाहुबन्धश् च तया सह धर्मस्थानं उपनीतो नापितः । पृच्छ्यमानश्चाधिकृतैः किं इदं महद्- विशसनं स्वदारेषु त्वया कृतं इति यदा बहुश उच्यमानो नौत्तरं प्रयच्छति ! तदा धर्माधिकृताश्शूले अवतंस्यतां इत्य् आज्ञापितवन्तः । निष्पापं च परिव्राट् च्छूलस्थानं नीयमानं नापितं दृष्ट्वा सत्त्वानुकम्पया चौपलब्धतत्त्वार्थो अधिकरणं उपगम्य धर्मस्थानाधिकृतान् अब्रवीत् । नार्हथएनं अदोषकर्तारं नापितं शूले समारोपयितुं । यत्कारणं ! इदं आश्चर्यत्रयं श्रूयतां । जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका तन्त्रवायेन त्रयो अनर्थास्स्वयं कृतः ॥५५॥ समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति । Eन्चोदेद् प्रूफ़्रेअद् ब्य् ळर्स् ंअर्तिन् Fओस्से ल्म्फ़ोस्से अत् ओन्लिनेंओ