अक्षर आकार:

प्रातःस्मरणश्लोकानि

Pratahsmarana Shlokas

प्रातःस्मरणश्लोकानि

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले भवे गौरी प्रभाते करदर्शनम् ॥ १॥ समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ २॥ ब्रह्मा मुरारिस्त्रिपुरान्तको वा भानुश्शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रश्शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३॥ सनत्कुमारस्सनकस्सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । सप्तस्वरास्सप्तरसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ४॥ सप्तार्णवास्सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त । भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५॥ पृथ्वी सगन्धा सरसास्तथाऽऽपः स्पर्शी च वायुर्ज्वलनः स तेजाः । नभस्सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ६॥ महेन्द्रो मलयस्सह्यो देवताऽऽत्मा हिमालयः । ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥ ७॥ गङ्गा सिन्धुश्च कावेरी यमुना च सरस्वती । रेवा महानदी गोदा ब्रह्मपुत्रा पुनातु माम् ॥ ८॥ अयोध्या मधुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारावती चैव संस्मृता मोक्षदायिकाः ॥ ९॥ प्रयागं पाटलीपुत्रं विजयीनगरं पुरीम् । इन्द्रप्रस्थं गयां चैव प्रत्यूषे प्रत्यहं स्मरेत् ॥ १०॥ अरुन्धत्यनसूया च सावित्री जानकी सती । तेजस्विनी च पाञ्चाली वन्दनीया निरन्तरम् ॥ ११॥ लक्ष्मीरहल्या चन्नम्मा मीरा दुर्गावती तथा । कण्णगी च महासाध्वी शारदा च निवेदिता ॥ १२॥ वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च । रामं च वै यः स्मरति प्रभाते तस्यार्थलाभो विजयश्च हस्ते ॥ १३॥ दध्यङ् मनुर्भृगुरसौ हरिपूर्वचन्द्रो भीष्मार्जुनध्रुववसिष्ठशुकादयश्च । प्रह्लादनारदभगीरथविश्वकर्मा वाल्मीकयोऽत्र चिरचिन्त्यशुभाभिधानाः ॥ १४॥ अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीवनः ॥ १५॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ १६॥ पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः ॥ १७॥ बुद्धो जिनेन्द्रो गोरक्षः शङ्करश्च पतञ्जलिः । रामानुजोऽथ चैतन्यः कबीरो गुरुनानकः ॥ १८॥ ज्ञानेश्वरस्तुकारामः समरो मध्यवल्लभः । सरसिस्तुलसीदासः कम्बः साधुकुलोत्तमाः ॥ १९॥ नायनारालवाराश्च तिरुवल्लुवरस्तथा । वितरन्तु सदैवेते दैवीं मे गुणसम्पदम् ॥ २०॥ अगस्त्यः कम्बुकौण्डिन्यो राजेन्द्रश्चोलभूषणः । सर्वे दिग्जयिनः ख्याताः शैलेन्द्रो बप्परावलः ॥ २१॥ चाणक्यश्चन्द्रगुप्तश्च विक्रमश्शालिवाहनः । अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान् ॥ २२॥ हूणजेता यशोवर्मः समुद्रो गुप्तवंशजः । श्रीकृष्णदेवरायश्च प्रदाता हर्षवर्धनः ॥ २३॥ साधुश्शङ्करदेवश्च तथा सायणमाधवौ । प्रतापश्शिवराजश्च । गोविन्दो बसवेश्वरः । २४॥ रामकृष्णो दयानन्दो रवीद्रो राममोहनः । रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः ॥ २५॥ तिलको रमणश्चैव सुधीर्नारायणो गुरुः । महामना मालवीयो महात्मागान्धिरेव च ॥ २६॥ अनुक्ता ये भक्ता हरिचरणसंसक्तहृदया अविज्ञाता वीरा अधिसमरमुद्ध्वस्तरिपवः । महात्मानस्सन्तो भरतभुवि ये सन्ति च परे नमस्तेभ्यो भूयादुषसि सकलेभ्यः प्रतिदिनम् ॥ २७॥ रत्नाकराधौतपदां हिमालयकिरीटिनीम् । ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ॥ २८॥ प्रातःस्मरणमेतद्यो विदित्वाऽऽदरतः पठेत् । स सम्यग्धर्मनिष्ठः स्यात्संस्मृताखण्डभारतः ॥ २९॥ इति प्रातःस्मरणश्लोकानि समाप्ता ।