अक्षर आकार:

षण्मिथ्याविद्याः

ShaNmithyAvidyAH

षण्मिथ्याविद्याः

उपकाराय या पुंसां न परस्य न चात्मनः । ग्रन्थसञ्चयसम्भारैः किं तया भारविद्यया ॥ १॥ अन्यायः प्रौढवादेन नीयते न्यायतां यया । न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ २॥ अनुष्ठानेन रहिता पाठमात्रेण केवलम् । रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३॥ गोप्यते या बुधस्याग्रे मूर्खस्याग्रे प्रकाश्यते । न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ४॥ परमात्सर्यशूलिन्या व्यथा सञ्जायते यया । सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ५॥ परसूक्तापहारेण स्वसुभाषितवादिना । उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ६॥