अक्षर आकार:

श्रीकृष्णकविविरचितं मनोगर्हणम्

Manogarhanam by Shrikrishnakavi

श्रीकृष्णकविविरचितं मनोगर्हणम्

कृच्छ्रेणेयमुपार्जिता सुमनसां विद्यानवद्याप्यसौ वाणी चाधिगता कवीन्द्रहृदयानन्दैकसन्दायिनी । सङ्गीतादिषु च प्रवृत्तिरनधेष्वासादिता केषुचित् जानीमो न वयं कदा खलु मनो जायेत ते निर्वृतिः ॥ १॥ शास्त्रं सम्यगधीतमत्र भवता पञ्चेषुणोदीरितं प्राप्तस्तत्परिशीलनाय सुचिरं वासश्च योषान्तिके । तत्पादाब्जतलाहतिप्रभृतयो मोदाय च प्राभवन् जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ २॥ निर्लज्जं कवितासतीमुपनतां विक्रीय भूमीभुजा- मास्थानेष्वितरत्र चापि नितरामालम्ब्य सेवादिकम् । वाणिज्यं प्रतिपद्य किञ्चिदपि चोपात्तं यथार्हं धनं जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ३॥ पुन्नाम्नो नरकात् पितॄनिह मम त्रातेति पुत्रोऽप्यसौ यागाद्यैरपि कर्मभिः कथमपि प्राप्तश्चिरात्पावनैः । यातः संसृतिधूर्वहत्वमपि च श्रान्तं नितान्तं वपुः जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ४॥ युक्तं ते प्रबलेषु तेषु सुचिरं पञ्चेन्द्रियेष्वग्रतः प्रस्थानं रथिनो बलादनुपसंहार्येषु वाजिष्विव । विश्रान्तिं गतवन्ति तानि तु भवन्मित्राणि किं वा वृथा- धावस्तत्र धरातले न हि मनो जायेत ते निर्वृतिः ॥ ५॥ ॥ इति कृष्णकविकृतं मनोगर्हणम् ॥