अक्षर आकार:

कविकण्ठाभरणम्

kavikaNThAbharaNam by Shrikrishnakavi

कविकण्ठाभरणम्

वल्मीकजन्मनि मुनौ कृतसन्निधा (ना) जिह्वाङ्गणात् समवतीर्य पुरा विधातुः । अग्रासनं कविषु या विततार तस्मै सा भारती विजयतां सुचिरं धरण्याम् ॥ १॥ नो कालिदासपदवीमनुधावतीयं वाणी ममेति कवितां न परित्यजामि । नासौ पुरन्दरपुरीगणिकोपमेति को वा जहाति दयितां परिणीय लोके ॥ २॥ कर्णामृतत्वमुपयाति निशम्यमाना वाणीव या मृगदृशामनुभूयमाना । तृष्णां च वर्धयति वक्त्रसुधेव तासां तामामव(न)न्ति कवितां रसिकावतंसाः ॥ ३॥ काठिन्यजन्मसदनं न सदा शिलेव तूस्य राशिरिव नापि सुखेन भेद्या । अन्तर्निगुम्भितरसा कठिनापि मृद्वी या कामिनीस्तनतटीव हि सैव वाणी ॥ ४॥ कान्ता यथा हृदयहारिणमेव कान्तं वाणी स्वयं कवयितारमसौ वृणीते । कृष्टा बलाद्यदि भवेन्न कदापि तेन भुङ्क्तेऽखिलानपि यथारसमात्मभोगान् ॥ ५॥ दुःखानि चाप्ततमबन्धुवियोगजानि वाक्यैः सुधारसमयैः परिमार्ष्टि कान्ता । तस्या वियोगजनितानि (च) दुःसहानि दूरीकरोतु नितरां कवितावधूटी१॥ ६॥ मन्दानिलेन शिशिरेण हि वीज्यमाना बालारुणस्य किरणैः परिचुम्बूयमाना । वाणी पतत्रिनिचयैरपि गीयमाना डोलाविहारमयते हृदये कवीनाम् ॥ ७॥ जिह्वाङ्गणेष्वनृतमेव सदा कवीनां नृत्यं समाकलयतीति हि ये भणन्ति कुर्वन्तु ते ननु निजामचिरेण जिह्वां जह्नूद्भवासलिलसङ्गमतः पवित्राम् ॥ ८॥ गीतेन मञ्जुमुरलीमुखसम्भवेन चित्रेण भावपरिगुम्भनबन्धुरेण । माध्वीरसेन कवनेन च दीयमान- मानन्दसारमवगच्छति तद्रसज्ञः ॥ ९॥ ये केचिदर्थगुरुतामविचिन्त्य वाचां प्रासैकदत्तधिषणाः कवयो लिखन्ति । तेषां कृती रसिकरञ्जकतां न याति भूषाञ्चिता विवसना हरिणेक्षणेव ॥ १०॥ स्यात्सन्ततं कवयितुर्यदि सिच्यमाना वाणी रसैरघरितामरलोकपानैः । प्रासैर्विनापि हृदयङ्गमतामुपैति नारोपितं गुणमभीत्सति रम्यता हि ॥ ११॥ आराममन्दमरुताभिगतश्च सौधः पूर्णेन शीतरुचिना रुचिरा त्रियामा । माधुर्यगर्भकविता रसिका च कान्ता येषां भवन्ति पुरुषा ननु ते हि धन्याः ॥ १२॥ ये केचिदत्र कवयः शतशः पदानां विच्छेदनेन परितोषमवाप्नुवन्ति । एते सरस्वति सरोरुहकोमलानि कृन्तन्ति निष्करुणमेव तवाङ्गकानि ॥ १३॥ का त्वं मृगाक्षि, वचसामधिदेवताहं मातश्चिराय रुदती ननु कुत्र यासि । भोजादिमाश्रयलयात् दिवमुत्पतामि मामैवमम्ब, कथमत्र हि मादृशानाम् ॥ १४॥ बालेन भारति मया मितदृष्टिनापि पादाम्बुजे तव मद समर्पितैषा । कारुण्यवारिनिधिवीचिभिराहता ते जीयाच्चिरं जगति मे कविकण्ठभूषा ॥ १५॥ ॥ इति कृष्णकविविरचितं कविकण्ठाभरणं समाप्तम् ॥