अक्षर आकार:

यक्षप्रश्नाः

YakSha's Questions Yaxaprashna

यक्षप्रश्नाः

YakSha's Questions अध्यायः ३१३ वैशंपायन उवाच । स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् । युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥ १॥ विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् । भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ॥ २॥ स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः ॥ ३॥ धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् । ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर ॥ ४॥ सुयोधनस्य भेत्स्यामि गदया सक्थिनि रणे । व्यर्थं तदद्य मे सर्वं त्वयि नीरे निपातिते ॥ ५॥ महात्मनि महाबाहो कुरूणां कीर्तिवर्धने । मनुष्यसंभवा वाचो विधर्मिण्यः प्रति श्रुताः ॥ ६॥ भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा । देवाश्चापि यदाऽवोचन्सूतके त्वां धनञ्जय ॥ ७॥ सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै । उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः ॥ ८॥ विप्रनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा । नास्य जेता रणे कश्चिदजेता नैष कस्यचित् ॥ ९॥ सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः । अयं ममांशां संहत्य शेते भूमौ धनञ्जयः ॥ १०॥ आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम । रणे प्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ ॥ ११॥ रणे प्रगल्भौ कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ । यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ ॥ १२॥ अश्मसारमयं नूनं हृदयं मम दुर्हृदः । यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते ॥ १३॥ शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः । अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः ॥ १४॥ अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः । असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः ॥ १५॥ सानूनिवाद्रेः संसुप्तान् दृष्ट्वा भ्रातॄन्महामतिः । सुखं प्रसुप्तां प्रस्विन्नः खिन्नः कष्टां दशां गतः ॥ १६॥ एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः । शोकसागर मध्यस्थो दध्यौ कारणमाकुलः ॥ १७॥ इतिकर्तव्यतां चेति देशकालविभागवित् । नाभिपेदे महाबाहुश्चिन्तयानो महामतिः ॥ १८॥ अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः । एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः ॥ १९॥ बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ २०॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् । भूतं महदिदं मन्ये भ्रातरो येन मे हताः ॥ २१॥ एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् । स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् ॥ २२॥ गान्धारराजरचितं सततं जिह्मबुद्धिना । यस्य कार्यमकार्यं वा सममेव भवत्युत ॥ २३॥ कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः । अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः ॥ २४॥ भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत् । तस्यासीन्न विषेणेदमुदकं दूषितं यथा ॥ २५॥ मृतानामपि चैतेषां विकृतं नैव जायते । मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥ २६॥ एकैकशश्चौघबलानिमान्पुरुषसत्तमान् । कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ २७॥ एतेन व्यवसायेन तत्तोयं व्यवगाढवान् । गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ २८॥ यक्ष उवाच । अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः । त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ २९॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३०॥ युधिष्ठिर उवाच । रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् । पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ ३१॥ हिमवान्पारियात्रश्च विन्ध्यो मलय एव च । चत्वारः पर्वताः केन पातिता भूरितेजसः ॥ ३२॥ अतीव ते महत्कर्म कृतं च बलिनां वर । यान्न देवा न गन्धर्वा नासुराश्च राक्षसाः ॥ ३३॥ विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् । न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ॥३४॥ कौतूहलं महज्जातं साध्वसं चागतं मम । येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः ॥ ३५॥ पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति । यक्ष उवाच । यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ॥ ३६॥ मयैते निहताः सर्वे भ्रातरस्ते महौजसः । वैशंपायन उवाच । ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ॥ ३७॥ यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः । विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ॥ ३८॥ ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् । वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ॥ ३९॥ मेघगंभीरनादेन तर्जयन्तं महास्वनम् । यक्ष उवाच । इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत् ॥४०॥ बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया । न पेयमुदकं राजन्प्राणानिह परीप्सता ॥ ४१॥ पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ४२॥ युधिष्ठिर उवाच । न चाह्ं कामये यक्ष तव पूर्वपरिग्रहम् । कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ ४३॥ यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ । यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ ४४॥ यक्ष उवाच । किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ ४५॥ युधिष्ठिर उवाच । ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः । धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ ४६॥ यक्ष उवाच । केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् । केनस्विद्द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ ४७॥ युधिष्ठिर उवाच । श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ ४८॥ यक्ष उवाच । किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ४९॥ युधिष्ठिर उवाच । स्वाध्याय एषां देवत्वं तप एषां सतामिव । मरणं मानुषो भावः परिवादोऽसतामिव ॥ ५०॥ यक्ष उवाच । किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ५१॥ युधिष्ठिर उवच । इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव । भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ५२॥ यक्ष उवाच । किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ ५३॥ युधिष्ठिर उवाच । प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः । ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ ५४॥ यक्ष उवाच । किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् । किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् ॥ ५५॥ युधिष्ठिर उवाच । वर्षमावततां श्रेष्ठं बीजं निवपतां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ ५६॥ यक्ष उवाच । इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ५७॥ युधिष्ठिर उवाच । देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ५८॥ यक्ष उवाच । किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् । किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ ५९॥ युधिष्ठिर उवाच । माता गुरुतरा भूमेः खात् पितोच्चरस्तथा । मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ ६०॥ यक्ष उवाच । किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चोपति । कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥ ६१॥ युधिष्ठिर उवाच । मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ ६२॥ यक्ष उवाच । किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः । आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥ ६३॥ युधिष्ठिर उवाच । सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ ६४॥ यक्ष उवाच । कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् । अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत् ॥ ६५॥ युधिष्ठिर उवाच । अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् । सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ ६६॥ यक्ष उवाच । किंस्विदेको विचरते जातः को जायते पुनः । किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ ६७॥ युधिष्ठिर उवाच । सूर्य एको विचरते चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ६८॥ यक्ष उवाच । किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः । किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ ६९॥ युधिष्ठिर उवाच । दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ७०॥ यक्ष उवाच । किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा । उपजीवनं किंस्विदस्य किंस्विदस्य परायणम् ॥ ७१॥ युधिष्ठिर उवाच । पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ७२॥ यक्ष उवाच । धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् । लाभानामुत्तमं किंस्यात् सुखानां स्यात्किमुत्तमम् ॥ ७३॥ युधिष्ठिर उवाच । धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ ७४॥ यक्ष उवाच । कश्च धर्मः परो लोके कश्च धर्मः सदा फलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ७५॥ युधिष्ठिर उवाच । आनृशंस्यं परो धर्मस्त्रयी धर्मः सदा फलः । मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ ७६॥ यक्ष उवाच । किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ७७॥ युधिष्ठिर उवाच । मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ७८॥ यक्ष उवाच । किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके । किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ ७९॥ युधिष्ठिर उवाच । धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके । भृत्येषु भरणार्थं वै भयार्थं चैव राजसु ॥ ८०॥ यक्ष उवाच । केन स्विदावृतो लोकः केन स्विन्न प्रकाशते । केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ८१॥ युधिष्ठिर उवाच । अज्ञानेनावृतो लोकस्तमसा न प्रकाशते । लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥ ८२॥ यक्ष उवाच । मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत् ॥ ८३॥ युधिष्ठिर उवाच । मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ८४॥ यक्ष उवाच । का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ८५॥ युधिष्ठिर उवाच । सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ८६॥ यक्ष उवाच । तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः । क्षमा च का परा प्तोक्ता का च हृईः परिकीर्तिता ॥ ८७॥ युधिष्ठिर उवाच । तपः स्वधर्मवर्तित्वं मनसो दमनं दमः । क्षमा द्वन्द्वसहिष्णुत्वं हृईरकार्यनिवर्तनम् ॥ ८८॥ यक्ष उवाच । किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः । दया च का परा प्रोक्ता किञ्चार्जवमुदाहृतम् ॥ ८९॥ युधिष्ठिर उवाच । ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता । दया सर्वसुखैषित्वमार्जवं समचित्तता ॥ ९०॥ यक्ष उवाच । कः शत्रुर्दुर्जयः पुंसां कश्च व्यादिरनन्तकः । कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥ ९१॥ युधिष्ठिर उवाच । क्रोधः सुदुर्जयः शत्रुर्लोभो व्यादिरनन्तकः । सर्वभूतहितः साधुरसादुर्निर्दयः स्मृतः ॥ ९२॥ यक्ष उवाच । को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः । किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ९३॥ युधिष्ठिर उवाच । मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता । धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ ९४॥ यक्ष उवाच । किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् । स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ ९५॥ युधिष्ठिर उवाच । स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः । स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ ९६॥ यक्ष उवाच । कः पण्डितः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते । को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः ॥ ९७॥ युधिष्ठिर उवाच । धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ ९८॥ यक्ष उवाच । कोऽहङ्कार इति प्रोक्तः कश्च दंभः प्रकीर्तितः । किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ ९९॥ युधिष्ठिर उवाच । महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः । दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ १००॥ यक्ष उवाच । धर्मश्चार्थश्च कामश्च परस्परविरोधिनः । एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः ॥ १०१॥ युधिष्ठिर उवाच । यदा धर्मश्च भार्या च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः ॥ १०२॥ यक्ष उवाच । अक्षयो नरकः केन प्राप्यते भरतर्षभ । एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ १०३॥ युधिष्ठिर उवाच । ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् । पश्चान्नस्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् ॥ १०४॥ वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु । देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् ॥ १०५॥ विद्यमाने धने लोभाद्दानभोगविवर्जितः । पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् ॥ १०६॥ यक्ष उवाच । राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा । ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम् ॥ १०७॥ युधिष्ठिर उवाच । श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् । कारणं हि द्विजत्वे च वृत्तमेव न संशयः ॥ १०८॥ वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः । अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥ १०९॥ पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥ ११०॥ चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते । योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः ॥ १११॥ यक्ष उवाच । प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते । बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय ॥ ११२॥ युधिष्ठिर उवाच । प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽधिकं जयति । बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभते ॥ ११३॥ यक्ष उवाच । को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका । वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ ११४॥ युधिष्ठिर उवाच । पञ्चमेऽहनि षष्ठे वा शकं पचति स्वे गृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ११५॥ अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ ११६॥ तर्कोऽप्रतिष्ठः श्रुतयो विभिन्न नैको ऋषिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ ११७॥ अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ ११८॥ यक्ष उवाच । व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप । पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः ॥ ११९॥ युधिष्ठिर उवाच । दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ १२०॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वै सर्वधनी नरः ॥ १२१॥ यक्ष उवाच । व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः । तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु ॥ १२२॥ युधिष्ठिर उवाच । श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः । व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ १२३॥ यक्ष उवाच । प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् । स कस्मान्नकुलो राजन्सापत्नं जीवमिच्छसि ॥ १२४॥ यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् । तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ १२५॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव । अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ १२६॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपासते । अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ १२७॥ युधिष्ठिर उवाच । धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ १२८॥ आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् । आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ १२९॥ धर्मशीलः सदा राजा इति मां मानवा विदुः । स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ १३०॥ कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम । उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥ १३१॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ १३२॥ यक्ष उवाच । तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् । तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ १३३॥ इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने त्रयोदशाधिकत्रिशततमोऽध्ययः ॥ ॥ इति॥ These verses form Ch. 297 of Prof. Tokunaga's files, and Ch. 313 of Pt. Kinjavadekar's edition. Following verses do not appear in the former: 4-20; 34; 66-67; 79-82;86-118; 128; 131 .