वेदान्तसार
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १॥ अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः । गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २॥ वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च ॥ ३॥ अस्य वेदान्तप्रकरणत्वात् तदीयैः एव अनुबन्धैः तद्वत्तासिद्धेः न ते पृथगालोचनीयाः ॥ ४॥ तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ ५॥ अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल- वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ ६॥ काम्यानि - स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि ॥ ७॥ निषिद्धानि - नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि ॥ ८॥ नित्यानि - अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि ॥ ९॥ नैमित्तिकानि - पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि ॥ १०॥ प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि ॥ ११॥ उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि ॥ १२॥ एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं ``तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन” (बृ उ ४.४.२२] इत्यादि श्रुतेः ``तपसा कल्मषं हन्ति” (मनु १२ - १०४] इत्यादि स्मृतेश्च ॥ १३॥ नित्यनैमित्तिकयोः उपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः ``कर्मणा पितृलोकः विद्यया देवलोकः” (बृ उ १-५-१६] इत्यादिश्रुतेः ॥ १४॥ साधनानि - नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग- शमादिषट्कसम्पत्तिमुमुक्षुत्वानि ॥ १५॥ नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ १६॥ ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतयानित्यत्ववदामुष्मिकाणामप्यमृतादि- विषयभोगानामनित्यतया तेभ्यो नितरां विरतिः - इहामुत्रार्थफलभोगविरागः ॥ १७॥ शमादयस्तु - शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ॥ १८॥ शमस्तावत् - श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ॥ १९॥ दमः - बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् ॥ २०॥ निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः ॥ २१॥ तितिक्षा - शीतोष्णादिद्वन्द्वसहिष्णुता ॥ २२॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः - समाधानम् ॥ २३॥ गुरूपदिष्टवेदान्तवाक्येषु विश्वासः - श्रद्धा ॥ २४॥ मुमुक्षुत्वम् - मोक्षेच्छा ॥ २५॥ एवम्भूतः प्रमाताधिकारी ``शान्तो दान्तः” (बृ उ ४.४.२३) इत्यादिश्रुतेः । उक्तञ्च - ``प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥ २६॥” (उपदेशसाहस्री ३२४.१६.७२) विषयः - जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्र एव वेदान्तानां तात्पर्यात् ॥ २७॥ सम्बन्धस्तु - तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः ॥ २८॥ प्रयोजनं तु - तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दावाप्तिश्च ``तरति शोकम् आत्मवित् (छां उ ७.१.३) इत्यादिश्रुतेः” ब्रह्मविद् ब्रह्मैव भवति `` (मुण्ड उ ३.२.९) इत्यादिश्रुतेश्च ॥ २९॥ अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड उ १.२.१२) इत्यादिश्रुतेः ॥ ३०॥ स गुरुः परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति ``तस्मै स विद्वानुपसन्नया सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥” (मुण्ड उ १.२.१३) इत्यादिश्रुतेः ॥ ३१॥२ असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः - अध्यारोपः ॥ ३२॥ वस्तु - सच्चिदानन्दमद्वयं ब्रह्म अज्ञानादिसकलजडसमूहोऽवस्तु ॥ ३३॥ अज्ञानं तु - सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् ``देवात्मशक्तिं स्वगुणैर्निगूढाम्” (श्वेत उ १.३) इत्यादिश्रुतेश्च ॥ ३४॥ इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ॥ ३५॥ तथाहि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः ``अजामेकां” (श्वे उ ४.५) इत्यादिश्रुतेः ॥ ३६॥ इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना ॥ ३७॥ एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । ``यः सर्वज्ञः सर्ववित्” (मुण्ड उ १.१.९) इति श्रुतेः ॥ ३८॥ ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वा- त्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वा- त्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति च उच्यते ॥ ३९॥ यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः ``इन्द्रो मायाभिः पुरुरूप ईयते” (ऋग्वेद ६.४७.१८) इत्यादिश्रुतेः ॥ ४०॥ अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः ॥ ४१॥ इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ॥ ४२॥ एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यत एकाज्ञानावभासकत्वात् ॥ ४३॥ अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् ॥ ४४॥ अस्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्द- प्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्च- लयस्थानमिति च उच्यते ॥ ४५॥ तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभि- रज्ञानवृत्तिभिरानन्दमनुभवतः ``आनन्दभुक् चेतोमुखः प्राज्ञः” (माण्डू उ ५) इति श्रुतेः सुखमहमवाप्सम् न किञ्चिदवेदिषमिथ्युत्थितस्यपरामर्शोपपत्तेश्च ॥ ४६॥ अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशय-जलयोरिव वाभेदः ॥ ४७॥ एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः ``एष सर्वेश्वर (एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्)” (माण्डू उ ६) इत्यादि श्रुतेः ॥ ४८॥ वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयो- र्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो- राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते ``शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते (स आत्मा स विज्ञेयः)” (माण्डू उ ७) इत्यादिश्रुतेः ॥ ४९॥ इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ५०॥ अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ॥ ५१॥ आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य- मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिण- मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् । तदुक्तं - ``घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥” इति (हस्तामलकम् १०) ॥ ५२॥ अनया आवृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसम्भावनापि भवति यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसम्भावना ॥ ५३॥ विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत रज्जौ स्वशक्त्या सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि स्वशक्त्याऽऽकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम् - ``विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत्” इति । (वाक्यसुधा १३) ॥ ५४॥ शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानं च भवति ॥ ५५॥ यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानञ्च भवति ॥ ५६॥ तमःप्रधानविक्षीपशक्तिमदज्ञानोपहितचैतन्यादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते ``एतस्मादात्मन आकाशः सम्भूतः” (तै उ २.१.१) इत्यादिश्रुतेः ॥ ५७॥ तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते ॥ ५८॥ एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते ॥ ५९॥ एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ ६०॥ सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि ॥ ६१॥ अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति ॥ ६२॥ ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि ॥ ६३॥ एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ६४॥ बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः ॥ ६५॥ मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः ॥ ६६॥ अनयोरेव चित्ताहङ्कारयोरन्तर्भावः ॥ ६७॥ अनुसन्धानात्मिकान्तःकरणवृत्तिः चित्तम् ॥ ६८॥ अभिमानात्मिकान्तःकरणवृत्तिः अहङ्कारः ॥ ६९॥ एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ॥ ७०॥ एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् ॥ ७१॥ इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ॥ ७२॥ अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको जीव इत्युच्यते ॥ ७३॥ मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ॥ ७४॥ कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि ॥ ७५॥ एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ७६॥ वायवः प्राणापानव्यानोदानसमानाः ॥ ७७॥ प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती ॥ ७८॥ अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती ॥ ७९॥ व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती ॥ ८०॥ उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः ॥ ८१॥ समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः ॥ ८२॥ समीकरणन्तु परिपाककरणं रसरुधिरशुक्रपुरीषादिकरणमिति यावत् ॥ ८३॥ केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति ॥ ८४॥ तत्र नाग उद्गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकरः ॥ ८५॥ एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् ॥ ८६॥ एतत्प्राणादिपञ्चकमाकाशादिगतरजोंशेभ्योमिलितेभ्य उत्पद्यते ॥ ८७॥ इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम् ॥ ८८॥ एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत्सूक्ष्मशरीरमित्युच्यते ॥ ८९॥ अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ९०॥ एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च ॥ ९१॥ अस्यैषा समष्टिः स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव स्थूलप्रपञ्चलयस्थानमिति चोच्यते ॥ ९२॥ एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजोमयान्तःकरणोपहितत्वात् ॥ ९३॥ अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिति हेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव स्थूलशरीरलयस्थानमिति चोच्यते ॥ ९४॥ एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः ``प्रविविक्तभुक्तैजसः” (माण्डू उ ३) इत्यदिश्रुतेः ॥ ९५॥ अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदव- च्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्चाभेदः ॥ ९६॥ एवं सूक्ष्मशरीरोत्पत्तिः ॥ ९७॥ स्थूलभूतानि तु पञ्चीकृतानि ॥ ९८॥ पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथमिकान्पञ्चभागान्प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु योजनम् ॥ ९९॥ तदुक्तम् - ``द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ॥ स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते ॥” इति ॥ ॥ १००॥ अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणत्वात् ॥ १०१॥ पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च ``वैशेष्यात्तु तद्वादस्तद्वादः” (ब्र सू २.४.२२) इति न्यायेनाकाशादिव्यपदेशः सम्भवति ॥ १०२॥ तदानीमाकाशे शब्दोऽभिव्यज्यते वायौ शब्दस्पर्शावग्नौ शब्दस्पर्शरूपाण्यप्सु शब्दस्पर्शरूपरसाः पृथिव्यां शब्दस्पर्शरूपरसगन्धाश्च ॥ १०३॥ एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जनस्तपःसत्य- मित्येतन्नामकानामुपर्युपरिविद्यमानानामतलवितलसुतलरसातल- तलातलमहातलपातालनामकानामधोऽधोविद्यमानानां लोकानां ब्रह्माण्डस्य तदन्तर्गतचतुर्विधस्थूलशरीराणां तदुचितानामन्नपानादीनां चोत्पत्तिर्भवति ॥ १०४॥ चतुर्विधशरीराणि तु जरायुजाण्डजस्वेदजोद्भिज्जाख्यानि ॥ १०५॥ जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादीनि ॥ १०६॥ अण्डजान्यण्डेभ्यो जातानि पक्षिपन्नगादीनि ॥ १०७॥ स्वेदजानि स्वेदेभ्यो जातानि यूकमशकादीनि ॥ १०८॥ उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥ १०९॥ अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिर्वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ११०॥ एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडित्युच्यते सर्वनराभिमानित्वाद्विविधं राजमानत्वाच्च ॥ १११॥ अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते ॥ ११२॥ एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रविष्टत्वात् ॥ ११३॥ अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते ॥ ११४॥ तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्रचतुर्मुखशङ्कराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरेन्द्रियचतुष्केण क्रमात्सङ्कल्पनिश्चयाहङ्कार्यचैत्तांश्च सर्वानेतान् स्थूलविषयाननुभवतः ``जागरितस्थानो बहिःप्रज्ञः” (माण्डू उ ३) इत्यादिश्रुतेः ॥ ११५॥ अत्राप्यनयोः स्थूलव्यष्टिसमष्ट्योस्तदुपहितविश्ववैश्वानरयोश्च वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्च पूर्ववदभेदः ॥ ११६॥ एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः ॥ ११७॥ एतेषां स्थूलसूक्षमकारणप्रपञ्चानामपि समष्टिरेको महान्प्रपञ्चो भवति यथावान्तरवनानां समष्टिरेकं महद्वनं भवति यथा वावान्तरजलाशयानां समष्टिरेको महान् जलाशयः ॥ ११८॥ एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्यवान्तरवनावच्छिन्नाकाशवदवान्तर जलाशयगतप्रतिबिम्बाकाशवच्चैकमेव ॥ ११९॥ आभ्यां महाप्रपञ्चतदुपहितचैतन्याभ्यां तप्तायपिण्डवदविविक्तं सदनुपहितं चैतन्यं ``सर्वं खल्विदं ब्रह्म” (छान्द उ ३.१४.१) इति (महा) वाक्यस्य वाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति ॥ १२०॥ एवं वस्तुन्यवस्त्वारोपोऽध्यारोपः सामान्येन प्रदर्शितः ॥ १२१॥
३ इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते ॥ १२२॥ अतिप्राकृतस्तु ``आत्मा वै जायते पुत्रः” इत्यादिश्रुतेः स्वस्मिन्निव पुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति वदति ॥ १२३॥ चार्वाकस्तु ``स वा एष पुरुषोऽन्नरसमयः” (तै उ २.१.१) इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्स्थूलोऽहं कृशोऽहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदति ॥ १२४॥ अपरश्चार्वाकः ``ते ह प्राणाः प्रजापतिं पितरमेत्योचुः” (छा उ ५.१.७) इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति ॥ १२५॥ अपरश्चार्वाकः ``अन्योऽन्तर आत्मा प्राणमयः” (तै उ २.२.१) इत्यादिश्रुतेः प्राणाभाव इन्द्रियादिचलनायोगादहमशनायावानहं पिपासावानित्यादि अनुभवाच्च प्राण आत्मेति वदति ॥ १२६॥ अन्यस्तु चार्वाकः ``अन्योऽन्तर आत्मा मनोमयः” (तै उ २.३.१) इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं सङ्कल्पवानहं विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति ॥ १२७॥ बौद्धस्तु ``अन्योऽन्तर आत्मा विज्ञानमयः” (तै उ २.४.१) इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताहं भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदति ॥ १२८॥ प्राभाकरतार्किकौ तु ``अन्योऽन्तर आत्मानन्दमयः” (तै उ २.५.१) इत्यादिश्रुतेर्बुद्ध्यादीनामज्ञाने लयदर्शनादहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमात्मेति वदतः ॥ १२९॥ भाट्टस्तु ``प्रज्ञानघन एवानन्दमयः” (माण्डू उ ५) इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान्मामहं न जानामीत्याद्यनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति ॥ १३०॥ अपरो बौद्धः ``असदेवेदमग्र आसीत्” (छा उ ६.२.१) इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥ १३१॥ एतेषां पुत्रादीनामनात्मत्वमुच्यते ॥ १३२॥ एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानामुत्तरोत्ततरश्रुतियुक्त्यनुभवाभासै- रात्मत्वबाधदर्शनात्पुत्रादीनामनात्मत्वं स्पष्टमेव ॥ १३३॥ किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादिवदनित्यत्वादहं ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवभासानां बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिलमनात्मैव ॥ १३४॥ अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तविद्वदनुभवः ॥ १३५॥ एवमध्यारोपः ॥ १३६॥
४ अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् ॥ १३७॥ तदुक्तम् - ``सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः ॥” इति ॥ १३८॥ तथाहि एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्येतदायतनभूतं ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं भवति ॥ १३९॥ एतानि शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं भवति ॥ १४०॥ एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्ति- व्युत्क्रमेणैतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति ॥ १४१॥ एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधार- भूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥ १४२॥ आभ्यामध्यारोपापवादाभ्यां तत्त्वम्पदार्थशोधनमपि सिद्धं भवति ॥ १४३॥ तथाहि - अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिविशिष्टं चैतन्यमेतदनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवति ॥ १४४॥ एतदुपाध्युपहिताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति ॥ १४५॥ अज्ञानादिव्यष्टिरेतदुपहिताल्पज्ञत्वादिविशिष्टचैतन्यमेत- दनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं त्वम्पदवाच्यार्थो भवति ॥ १४६॥ एतदुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति ॥ १४७॥ अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसिवाक्यं सम्बन्धत्रयेणाखण्डार्थबोधकं भवति ॥ १४८॥ सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्म- लक्षणयोर्लक्ष्यलक्षणभावश्चेति ॥ १४९॥ तदुक्तम् - ``सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥” इति ॥ १५०॥ सामानाधिकरण्यसम्बन्धस्तावद्यथा सोऽयं देवदत्त इत्यस्मिन्वाक्ये तत्कालविशिष्टदेवदत्तवाचकसशब्दस्यैतत्कालविशिष्टदेवदत्त- वाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्यसम्बन्धः । तथा च तत्त्वमसीति वाक्येऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पद- स्यापरोक्षत्वादि विशिष्टचैतन्यवाचकत्वम्पदस्य चैकस्मिंश्चैतन्ये तात्पर्यसम्बन्धः ॥ १५१॥ विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायंशब्दार्थैतत्कालविशिष्टदेवदत्तस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः । तथात्रापि वाक्ये तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः ॥ १५२॥ लक्ष्यलक्षणसम्बन्धस्तु यथा तत्रैव सशब्दायंशब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः । तथात्रापि वाक्ये तत्त्वम्पदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादि- विशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः ॥ १५३॥ इयमेव भागलक्षणेत्युच्यते ॥ १५४॥ अस्मिन्वाक्ये नीलमुत्पलमिति वाक्यवद्वाक्यार्थो न सङ्गच्छते ॥ १५५॥ तत्र तु नीलपदार्थनीलगुणस्योत्पलपदार्थोत्पलद्रव्यस्य च शौक्ल्यपटादिभेदव्यावर्तकतयान्योन्यविशेषणविशेष्य- रूपसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः सङ्गच्छते ॥ १५६॥ अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वाक्यार्थो न सङ्गच्छते ॥ १५७॥ तदुक्तम् - ``संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥” इति (पञ्चदशी ७.७५) ॥ १५८॥ अत्र गङ्गायां घोषः प्रतिवसतीतिवाक्यवज्जहल्लक्षणापि न सङ्गच्छते ॥ १५९॥ तत्र तु गङ्गाघोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्याशेषतो विरुद्धत्वाद्वाक्यार्थमशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणाया युक्तत्वाज्जहल्लक्षणा सङ्गच्छते ॥ १६०॥ अत्र तु परोक्षापरोक्षचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य भागमात्रे विरोधाद्भागान्तरमपि परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा न सङ्गच्छते ॥ १६१॥ न च गङ्गापदं स्वार्थपरित्यागेन तीरपदार्थं यथा लक्षयति तथा तत्पदं त्वम्पदं वा स्वार्थपरित्यागेन त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्छत इति वाच्यम् ॥ १६२॥ तत्र तीरपदाश्रवणेन तदर्थाप्रतीतौ लक्षणया तत्प्रतीत्यपेक्षायामपि तत्त्वम्पदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्षणया पुनरन्यतरपदेनान्यतर- पदार्थप्रतीत्यपेक्षाभावात् ॥ १६३॥ अत्र शोणो धावतीतिवाक्यवदजहल्लक्षणापि न सम्भवति ॥ १६४॥ तत्र शोणगुणगमनलक्षणस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्षणया तद्विरोधपरिहारसम्भवादजहल्लक्षणा सम्भवति ॥ १६५॥ अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तत्सम्बन्धिनो यस्य कस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासम्भवा- दजहल्लक्षणा न सम्भवत्येव ॥ १६६॥ न च तत्पदं त्वम्पदं वा स्वार्थविरुद्धांशपरित्यागेनां- शान्तरसहितं त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् ॥ १६७॥ एकेन पदेन स्वार्थांशपदार्थान्तरोभयलक्षणाया असम्भवात्पदान्तरेण तदर्थप्रतीतौ लक्षणया पुनस्तत्प्रतीत्यपेक्षाभावाच्च ॥ १६८॥ तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधाद्विरुद्धतत्कालैतत्कालविशिष्टांशं परित्यज्याविरुद्धं देवदत्तांशमात्रं लक्षयति तथा तत्त्वमसीतिवाक्यं तदर्थो वा परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य वाक्यार्थस्यांशे विरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वविशिष्टांशं परित्यज्याविरुद्धमखण्डचैतन्यमात्रं लक्षयतीति ॥ १६९॥ अथाधुनाहं ब्रह्मास्मि (बृ उ १.४.१०) इत्यनुभववाक्यार्थो वर्ण्यते ॥ १७०॥ एवमाचार्येणाध्यारोपापवादपुरःसरं तत्त्वम्पदार्थौ शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयं ब्रह्मास्मीत्यखण्डाकाराकारिता चित्तवृत्तिरुदेति ॥ १७१॥ सा तु चित्प्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परम्ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य बाधितत्वात्तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति ॥ १७२॥ तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादित्यप्रभावभासनासमर्था सती तयाभिभूता भवति तथा स्वयम्प्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया तेनाभिभूतं सत् स्वोपाधिभूताखण्डवृत्तेर्बाधितत्वाद्दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति ॥ १७३॥ एवं च सति ``मनसैवानुद्रष्टव्यम्” (बृ उ ४.४.१९) ``यन्मनसा न मनुते” (के उ १.५) इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात् ॥ १७४॥ तदुक्तम् - ``फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥” इति (पञ्चदशी ६.९०) ॥ १७५॥ ``स्वयम्प्रकाशमानत्वान्नाभास उपयुज्यते ।” इति च (पञ्चदशी ६.९२) ॥ १७६॥ जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति ॥ १७७॥ तथाहि । अयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरसनपुरःसरं स्वगतचिदाभासेन जडं घटमपि भासयति ॥ १७८॥ तदुक्तं - ``बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥” इति । (पञ्चदशी ७.९१) ॥ १७९॥ यथा दीपप्रभामण्डलमन्दकारगतं घटपटादिकं विषयीकृत्य तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति ॥ १८०॥
५ एवं भूतस्वस्वरूपचैतन्यसाक्षात्कारपर्यन्तं श्रवणमनन- निदिध्यासनसमाध्यनुष्ठानस्यापेक्षितत्वात्तेऽपि प्रदर्श्यन्ते ॥ १८१॥ श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि तात्पर्यावधारणम् ॥ १८२॥ लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि ॥ १८३॥ तदुक्तम् - ``उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥” ॥ १८४॥ प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठाध्याये प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन ``एकमेवाद्वितीयम्” (६.२.१) इत्यादौ ``ऐतदात्म्यमिदं सर्वम्” (६.८.७) इत्यन्ते च प्रतिपादनम् ॥ १८५॥ प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्मध्ये पौनःपुन्येन प्रतिपादनमभ्यासः । यथा तत्रैवाद्वितीयवस्तुनि मध्ये तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ १८६॥ प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः प्रमाणान्तरा- विषयीकरणमपूर्वता । यथा तत्रैवाद्वितीयवस्तुनो मानान्तराविषयीकरणम् ॥ १८७॥ फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा तत्र ``आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्ये” (६.१४.२) इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते ॥ १८८॥ प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव ``उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्” (६.१.३) इत्यद्वितीयवस्तुप्रशंसनम् ॥ १८९॥ प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रुयमाणा युक्तिरुपपत्तिः । यथा तत्र ``यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (६.१.४) इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ १९०॥ मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ॥ १९१॥ विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् ॥ १९२॥ समाधिर्द्विविधः सविकल्पको निर्विकल्पश्चेति ॥ १९३॥ तत्र सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् ॥ १९४॥ तदा मृण्मयगजादिभानेऽपि मृद्भानवद्द्वैतभानेऽप्यद्वैतं वस्तु भासते ॥ १९५॥ तदुक्तम् - ``दृशिस्वरूपं गगनोपमं परम् सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयम् तदेव चाहं सततं विमुक्तमोम् ॥” इति (उपदेशसाहस्री ७३.१०.१) ॥ १९६॥ निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् ॥ १९७॥ तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीय- वस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते ॥ १९८॥ ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥ १९९॥ अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः ॥ २००॥ तत्र ``अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः” ॥ २०१॥ ``शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” ॥२०२॥ करचरणादिसंस्थानविशेषलक्षणानि पद्मस्वस्तिकादीन्यासनानि ॥ २०३॥ रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणायामाः ॥ २०४॥ इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः ॥ २०५॥ अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा ॥ २०६.। तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् ॥ २०७॥ समाधिस्तूक्तः सविकल्पक एव ॥ २०८॥ एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारो विघ्नाः सम्भवन्ति ॥ २०९॥ लयस्तावदखण्डवस्तनवलम्बनेन चित्तवृत्तेर्निद्रा ॥ २१०॥ अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः ॥ २११॥ लयविक्षेपाभावेऽपि चित्तवृत्तेर्रागादिवासनया स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः ॥ २१२॥ अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा ॥ २१३॥ अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः समाधिरित्युच्यते ॥ २१४॥ यदुक्तम् - ``लये सम्बोधयेच्चितं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इति च (गौडपादकारिका ३.४४-४५) ``यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता” इति च (गीता ६ - १९) ॥ २१५॥
६ अथ जीवन्मुक्तलक्षणमुच्यते ॥ २१६॥ जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ॥ २१७॥ ``भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥” इत्यादिश्रुतेः (मुण्ड उ २.२.८) ॥ २१८॥ अयं तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेणान्ध्यमान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेणाशना- पिपासाशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यते । यथेन्द्रजालमिति ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति ॥ २१९॥ ``सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिश्रुतेः ॥ २२०॥ उक्तञ्च - ``सुषुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः ॥ तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः ॥” इति (उपदेशसाहस्री ५) ॥ २२१॥ अथ ज्ञानात्पूर्वं विद्यमानानामेवाहारविहारादीनामनुवृत्तिव- च्छुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा ॥ २२२॥ तदुक्तम् । - ``बुद्धाद्वैतसतत्त्वस्य यथेष्टाचराणं यदि । शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥ इति (नैष्कर्म्यसिद्धिः ४.६२) ``ब्रह्मवित्तं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥)” इति च (उपदेशसाहस्री ११५) ॥ २२३॥ तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्ट्टत्वादयः सद्गुणाश्चालङ्कारवदनुवर्तन्ते ॥ २२४॥ तदुक्तम् - ``उत्पन्नात्मावबोधस्य ह्यद्वेष्ट्टत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥” इति (नैष्कर्म्यसिद्धिः ४.६९) ॥ २२५॥ किं बहुनायं देहयात्रामात्रार्थमिच्छानिच्छा- परेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्ध- फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात्परमकैवल्य- मानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डब्रह्मावतिष्ठते ॥ २२६॥ ``न तस्य प्राणा उत्क्रामन्ति” (बृ उ ४.४.६) ``अत्रैव समवनीयन्ते” (बृ उ ३.२.११) ``विमुक्तश्च विमुच्यते” (कठ उ ५.१) इत्यादिश्रुतेः ॥ २२७॥ इति सदानन्द योगीन्द्र विरचितो वेदान्तसारनाम ग्रन्थः समाप्तः ।