श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली
अथ प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥ श्रीमद्रमाधवोपज्ञं नत्वाचार्यपरम्पराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १.१॥ मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात्त्रिधा भवेत् ॥ १.२॥ प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये तद्विविधं जडम् ॥ १.३॥ प्रकृति काल इत्याद्या चतुर्विंशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्तितः ॥ १.४॥ अजडं तु पराक् प्रत्यगिति भेदाद्विधा मतम् । पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ १.५॥ प्रत्यग्जीवेश्वरभिदाशाली जीवः पुनस्त्रिधा । बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ १.६॥ बुभुक्षुश्च मुमुक्षुश्च बुबुक्षुश्च पुनर्द्विधा । अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ १.७॥ अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा । मुमुक्षुरपि कैवल्यमोक्षयोगाद्विधा मतः ॥ १.८॥ भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा । द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ १.९॥ दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः । ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ १.१०॥ पर एकश्चतुर्धा तु व्यूहः स्याद्वासुदेवकः । सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ १.११॥ मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः । अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ १.१२॥ अर्चावतारः श्रीरङ्गवेङ्कटाद्र्यादिषु स्थितः । केशवादि तु तत्त्वज्ञैर्व्यूहान्तरमुदाहृतम् ॥ १.१३॥ सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा । गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ १.१४॥ प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् । यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ १.१५॥ सा संशयान्यथाज्ञानविपरीतधियो न हि । एकधर्मिकनानार्थविषया धीस्तु संशयः ॥ १.१६॥ धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् । सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ १.१७॥ साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् । सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ १.१८॥ ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते । द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ १.१९॥ एतदिन्द्रियसापेक्षमनपेक्षञ्च दृश्यते । अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ १.२०॥ योगजं तु स्वतः सिद्धमन्यत्स्वामिप्रसादजम् । अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ १.२१॥ नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते । स्मृति प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ १.२२॥ सदृशादृष्टचिन्ताद्यैः संस्कारोद्बोधने सति । स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ १.२३॥ पुण्यपूरुषनिष्ठापि प्रतिभात्रैव सम्मता । यथार्थं सर्वविज्ञानमिति यामुनभाषितम् ॥ १.२४॥ भूतले तु घटाभावो भूतलात्मैव नेतरः । मृद्घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ १.२५॥ स्वासाधारनधर्मो हि भेदशब्देन कीर्त्यते । शब्दस्वाभाव्यजा क्वापि प्रतियोगित्वधीः कृता ॥ १.२६॥ अन्तःकरणचैतन्यं तद्वृत्त्या विषयेण च । चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ १.२७॥ इत्यादिवचनं सर्वं परोक्तं नात्र सम्मतम् । सामान्यं समवायश्च विशेषो नात्र सम्मतः ॥ १.२८॥ सङ्ख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् । सूत्रकारविरुद्धं यत्तत्सर्वं परिहास्यते ॥ १.२९॥ ॥ इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥अथानुमाननिरूपणं नाम द्वितीयं प्रकरणम् । अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् । तच्च लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता ॥ २.१॥ साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते । व्याप्यास्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ २.२॥ तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता । भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत ॥ २.३॥ तत्सपक्षे सपक्षस्तु पूर्वं निश्चितसाध्यकः । सन्दिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ २.४॥ अन्वयी व्यतिरेकी च किञ्च हेतुर्द्विलक्षणः । व्यभिचारी विरुद्धश्चासिद्धः सत्प्रतिपक्षकः ॥ २.५॥ बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः । एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ २.६॥ न्यायजन्यः परामर्शः परार्थानुमितेः कृते । न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च च ॥ २.७॥ प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् । व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ २.८॥ व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । उपसंहारवचनं भवेन्निगमनं पुनः ॥ २.९॥ ॥ इति वेदान्तकारिकावल्यामनुमाननिरूपणं नाम द्वितीयं प्रकरणम् ॥
अथ शब्दनिरूपणं नाम तृतीयं प्रकरणम् । अनाप्तानुक्तवाक्यं यत्तच्छाब्दकरणं स्मृतम् । वेदस्यापौरुषेयत्वात्तत्र लक्षणसङ्गतिः ॥ ३.१॥ सिद्धे व्युत्पत्तिसद्भावाद्वेदो निष्पन्नबोधकः । तत्कार्यपरताहानेरप्रामाण्यं न शङ्क्यताम् ॥ ३.२॥ कर्मब्रह्माभिधायित्वात्स च भागद्वयात्मकः । पूर्वभागः कर्मपर उत्तरो ब्रह्मगोचरः ॥ ३.३॥ तदैक्यात्पूर्वपरयोर्व्याख्येया ह्येकशास्त्रता । अध्यायभेदवद्भेदे शास्त्रैक्यं न विरुध्यते ॥ ३.४॥ विध्यर्थवादमन्त्रात्मा त्रिविधः स प्रतीयते । अनुष्ठेयार्थगमको मन्त्रः स्यादर्थवादगीः ॥ ३.५॥ प्रवृत्त्युत्तम्भिका या स्याद्विधिर्वाक्यं प्रवर्तकम् । स त्रिधापूर्वनियमपरिसङ्ख्याविभेदतः ॥ ३.६॥ नित्या नैमित्तिकाः काम्या इति ते बहुधा मताः । तेषां स्वरूपलक्ष्माणि मन्तव्यानि नयान्तरे ॥ ३.७॥ छन्दः कल्पश्च शिक्षा च निरुक्तं ज्यौतिषं तथा । व्याकृतिश्चेति वेदस्य षडङ्गानि प्रचक्षते ॥ ३.८॥ अनुष्टुबादिकं छन्दः कल्पः श्रौतादिबोधकः । वर्णनिर्णायिका शिक्षा निरुक्तं स्वार्थबोधकम् ॥ ३.९॥ अनुष्ठानादिकालस्य निर्णये ज्यौतिषं भवेत् । सौशब्द्याय व्याकरणमिति साङ्गे प्रमाणता ॥ ३.१०॥ एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् । एतद्विरुद्धं यत्किञ्चिन्नाश्नुवीत प्रमाणताम् ॥ ३.११॥ आकाङ्क्षादिकमेतच्च शाब्दबोधैककारणम् । तद्विचारोऽत्र सङ्क्षिप्तो ग्रन्थविस्तरभीरुणा ॥ ३.१२॥ मुख्यौपचारिकत्वाभ्यां स शब्दो द्विविधो मतः । अभिधा मुख्यवृत्तिः स्याद्वृत्तिरन्यौपचारिकी ॥ ३.१३॥ शरीरवाचकाः शब्दाः शरीरिकृतवृत्तयः । सर्वशब्दैकवाच्यत्वं हरेरिति गदिष्यते ॥ ३.१४॥ ॥ इति वेदान्तकारिकावल्यां शब्दनिरूपणं नाम तृतीयं प्रकरणम् ॥ (प्रमाणनिरूपणं समाप्तम्)
अथ प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् । यत्प्रमाविषयं तत्स्यात्प्रमेयमिति तद्विधा । द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ ४.१॥ अवस्थान्तरयोगित्वमुपादानत्वमुच्यते । गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ ४.२॥ अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते । जडं प्रकृतिकालौ द्वौ सा सत्त्वादिगुणत्रया ॥ ४.३॥ प्रकृतिः सा क्षराविद्यामायाशब्दैर्निगद्यते । कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशनात् ॥ ४.४॥ अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः । अहङ्कारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ ४.५॥ वैकारिकस्तैजसश्च भूतादिरिति भेदतः । नामान्तराणि सन्त्वेवमहङ्कारात्मना सताम् ॥ ४.६॥ तेषु वैकारिकात्सात्त्विकाहङ्कारादुपस्कृतात् । एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ ४.७॥ ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् । तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ ४.८॥ मनः स्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् । शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ ४.९॥ रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् । गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ ४.१०॥ एषां विषयसम्बन्धः संयोगादिः प्रकीर्तितः । उच्चारणादिकर्मैकशक्तं कर्मेन्द्रियं मतम् ॥ ४.११॥ पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः । वर्णोच्चारणहेतुर्वाक् पाणिः शिल्पादिकारणम् ॥ ४.१२॥ सञ्चारकारणं पादः पायुर्मलनिवृत्तिकृत् । उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ ४.१३॥ राजसाहङ्क्रियायुक्ततामसाहङ्कृतेः पुनः । जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ ४.१४॥ भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषवत् । द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ ४.१५॥ तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन सम्मतम् । भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ ४.१६॥ स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि । गन्धतन्मात्रमेतेभ्यओ खानिलज्योतिरब्भुवः ॥ ४.१७॥ पञ्चभूतानि तन्मात्रस्वरूपं तु निरूप्यते । तामसाहङ्कृतिखयोर्मध्यावस्थायुगादिमम् ॥ ४.१८॥ शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा । खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ ४.१९॥ द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् । स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ ४.२०॥ मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते । रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ ४.२१॥ मध्यावस्थायुतं तेजःपयसोर्द्रव्यमुच्यते । रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ ४.२२॥ मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते । गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ ४.२३॥ आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते । रूपशब्दस्पर्शवत्स्यात्तृतीयञ्च तुरीयकम् ॥ ४.२४॥ रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् । तन्मात्रपञ्चकं भूतपञ्चकञ्चैवमीरितम् ॥ ४.२५॥ एवं प्रकृतिरव्यक्तमहदादिक्रमाद्भिदाम् । चतुर्विंशासङ्ख्यानां प्रापिता सुनिरूपिता ॥ ४.२६॥ भूतानि भगवान् सृष्ट्वा द्वेधैकैकं विभक्तवान् । एकमेकं विधायांशञ्चतुर्धान्यं विभक्तवान् ॥ ४.२७॥ चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः । चतुर्थांशयुतस्वांशैः पञ्चभूतान्यजीजनत् ॥ ४.२८॥ अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः । पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ ४.२९॥ पञ्चीकरणमेतादृगुपलक्षयति श्रुतिः । भूतैर्महदहङ्कृत्योः सप्तीकृतिरुपस्कृता ॥ ४.३०॥ भूतपञ्चकमव्यक्तमेते महदहङ्कृती । उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ ४.३१॥ भिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि । चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ ४.३२॥ शरीरं द्विविधं नित्यमनित्यमिति भेदतः । भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ ४.३३॥ अनित्यमपि तद्वेधा कर्माकर्मकृतत्वतः । अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ ४.३४॥ तच्च कर्मकृतं द्वेधा स्वेच्छासहकृतं तथा । कर्ममात्रकृतञ्चेति सौभर्यादेर्यथादिमम् ॥ ४.३५॥ द्वितीयमस्मदादीनां सामान्येन पुनर्द्विधा । स्थावरं जङ्गमञ्चेति शिलादि स्थावरं मतम् ॥ ४.३६॥ जङ्गमञ्च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् । योनिजं देवमानुष्यतिर्यगादिविभागवत् ॥ ४.३७॥ उद्भिज्जस्वेदजाण्डोत्थनारक्याख्यमयोनिजम् । एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ ४.३८॥ अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा । व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसम्मता ॥ ४.३९॥ अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते । विजातीयान्तरावस्था चेत्तत्त्वान्तरमीर्यते ॥ ४.४०॥ इत्थमव्यक्तमहदहङ्कारेन्द्रियनामकैः । तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ ४.४१॥ भोग्यभोगोपकरणभोगस्थानानि चेशितुः । जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ ४.४२॥ विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् । भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ ४.४३॥ एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् । कपित्थफलकाकारमण्डं नाम निगद्यते ॥ ४.४४॥ जम्बूद्वीपमिदं सर्वं लवणोदधिनावृतम् । प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ ४.४५॥ ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् । कुशद्वीपं ततः सर्पिः समुद्रेण प्रवेष्टितम् ॥ ४.४६॥ क्रौञ्चद्वीपं ततः पश्चाद्दध्यर्णवसमावृतम् । शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ ४.४७॥ पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् । सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ ४.४८॥ अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च । ततोऽण्डमेकमेवं स्याद्भूमेरूर्ध्वमधोऽपि च ॥ ४.४९॥ अण्डान्येतादृशानि स्युरनन्तानि महाहरेः । जलबुद्बुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ ४.५०॥ ॥ इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् ॥
अथ कालनिरूपणं नाम पञ्चमं प्रकरणम् । गुणत्रयविहीनो यः स जडः काल उच्यते । अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ ५.१॥ आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः । निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ ५.२॥ अखण्डकाल एवायं नित्य इत्यवगम्यते । कालः स्वकार्यं प्रति तु स्यादुपादानकारणम् ॥ ५.३॥ कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् । लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ ५.४॥ एष नित्यविभूतौ तु न कालमवलम्बते । क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ ५.५॥ नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः । एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ ५.६॥ ॥ इति वेदान्तकारिकावल्यां कालनिरूपणं नाम पञ्चमं प्रकरणम् ॥
अथ नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् । शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च । अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकशता ॥ ६.१॥ पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् । परस्मै भासमानत्वं पराक्त्वमनुगद्यते ॥ ६.२॥ सत्त्वैकमूर्तिको देशः शुद्धसत्त्वमचेतनम् परिच्छिन्नमघो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ ६.३॥ स्वयम्प्रकाशरूपेयं पञ्चोपनिषदात्मिका । विष्णोर्नित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ ६.४॥ सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि । भोग्यभोगोपकरणभोगस्थानमयी मता ॥ ६.५॥ भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् । भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ ६.६॥ देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः । मुक्तानां तु शरीरादिस्तत्सङ्कल्पकृतो मतः ॥ ६.७॥ श्रीपतेर्व्यूहविभवार्चावतारतया सतः । अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ ६.८॥ प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि । तच्च प्रकटनं तस्य सङ्कल्पाधीनमीर्यते ॥ ६.९॥ प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् । रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ ६.१०॥ औज्ज्वल्यादिगुणे ये तु दिव्यमङ्गलविग्रहे । हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ ६.११॥ मुक्तानामशरीरत्ववचनं यत्तु दृश्यते । तत्कर्मकृतशारीरसम्बन्धाभावगोचरम् ॥ ६.१२॥ निरूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् । पुराणोक्तक्रमादस्मादाद्यवेदान्तदेशिकाः ॥ ६.१३॥ त्रिपाद्विभूतिवैकुण्ठपरव्योमादिशब्दिता । विभूतिरियमीशस्य महती सुमहीयते ॥ ६.१४॥ द्वादशावरणोपेतमनेकशतगोपुरम् । वैकुण्ठं नाम नगरमेतस्यां प्रविजृम्भते ॥ ६.१५॥ आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः । तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ ६.१६॥ अनन्तस्तत्र च फणामणितेजोविराजितः । तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ ६.१७॥ तत्र चामरवद्धस्तैर्विमलादिभिरर्चितम् । पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ ६.१८॥ तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः । अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ ६.१९॥ ॥ इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् ॥
अथ धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् । धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः । तद्धर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ ७.१॥ बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् । सङ्कोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ ७.२॥ सङ्कोच इन्द्रियद्वारा ज्ञानं सङ्कोच्यते यदि । विकास इन्द्रियद्वारा ज्ञानप्रसरणाद्भवेत् ॥ ७.३॥ स्वप्रकाशं स्वतो मानमेतदित्यत्र सम्मतम् । स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ ७.४॥ तमोविशेषसान्निध्याज्ज्ञानं स्वापे तिरोहितम् । द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ ७.५॥ धीभेदाः सुखदुःखेच्छाद्वेषयत्ना न ते पृथक् । द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ ७.६॥ स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः । ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ ७.७॥ गद्यत्रये महाचार्यैरयमर्थ उदीरितः । तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ ७.८॥ भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः । अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ ७.९॥ कर्मयोगज्ञानयोगौ भक्तिसाधनमूचिरे । फलाभिसन्धिरहितं कर्माराधनमीशितुः ॥ ७.१०॥ विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः । साक्षादितरथा वापि भक्तौ कारणतानयोः ॥ ७.११॥ भक्तियोगोऽमष्टाङ्गोऽविच्छिन्ना स्मृतिसन्ततिः । विवेकादिभिरूत्पाद्या दर्शनाकारतां गता ॥ ७.१२॥ तत्तच्छरीरावसानसमये परिणामिनी । सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ ७.१३॥ फलभक्तिस्तु भगवदनुग्रहकृता भवेत् । अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ ७.१४॥ अन्तरादित्यविद्यादिभेदात्सा बहुधा मता । सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ ७.१५॥ न्यासविद्या प्रपत्तिः स्यादङ्गपञ्चयोगिनी । आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ॥ ७.१६॥ रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ ७.१७॥ गुरूपसदनादेषा विज्ञातव्या मनीषिभिः । इयमुत्तरपूर्वाघाश्लेषनाशकृदुच्यते ॥ ७.१८॥ अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् । अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ ७.१९॥ ॥ इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् ॥
अथ जीवनिरूपणं नामाष्टमं प्रकरणम् । अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते । स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ ८.१॥ जीवस्यानेकविषयानुभवोऽणोरपि स्फुटः । यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ ८.२॥ पूर्वानुभूतविषयप्रतिसन्धानयोगतः । नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दतः ॥ ८.३॥ प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया । तस्य स्वयप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ ८.४॥ देशान्तरफलादीनामुपलब्धिरणोरपि । कर्मजन्याददृष्टाख्यविज्ञानादिति सञ्जगुः ॥ ८.५॥ बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः । ब्रह्मादिकीटपर्यन्ता बद्धाः संसारयोगिनः ॥ ८.६॥ त्रैवर्गिकार्थनिष्णाता बुभुक्षव उदाहृताः । अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ ८.७॥ ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः । धर्मस्त्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ ८.८॥ रुद्राद्याराधनपरा अन्यदेवपरा मताः । आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ ८.९॥ मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते । प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ ८.१०॥ कैवल्यमर्चिर्मार्गेण गत्वापि परमं पदम् । रमणत्यक्तपत्नीवत् क्वचित्कोणेऽवतिष्ठते ॥ ८.११॥ कैवल्यमेतत्केषाञ्चिदार्याणामेव सम्मतम् । अस्मदार्यास्तु कैवल्यं न मन्यन्त इति स्थितम् ॥ ८.१२॥ भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसम्प्राप्त्यपेक्षिणः । अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ ८.१३॥ साध्यसाधनभक्तिभ्यां भक्ताः स्युर्द्विविधा मताः । पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ ८.१४॥ मुमुक्षवः प्रपन्नाश्चाकिञ्चन्यादिकयोगिनः । त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ ८.१५॥ धर्मार्थकामान् स्वाम्यर्थं येऽन्वतिष्ठंस्त आदिमाः । सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ ८.१६॥ भगवद्भोगसम्प्राप्स्यै महाचार्यं समाश्रिताः । असामर्थ्येन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ ८.१७॥ सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे । एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ ८.१८॥ परमैकान्तिनस्त्वैच्छन् भगवत्प्रीतिमेव ये । प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ ८.१९॥ दृप्त आर्तस्त्य संसारे वह्नाविव समुत्तपन् । प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ ८.२०॥ सत्सङ्गादिति सुश्लोकद्वयोक्तगतिमान्नरः । आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभाक् ॥ ८.२१॥ मुक्तस्य भोगमात्रे तु साम्यं श्रुतिषु चोदितम् । स्वेच्छया सर्वलोकेषु सञ्चारोऽस्य न रुध्यते ॥ ८.२२॥ स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते । अनावर्तनशास्त्रं तु कर्मावर्तनिषेधकृत् ॥ ८.२३॥ नित्यासङ्कुचितज्ञाना नित्यं भगवदाज्ञया । तत्कैङ्कर्यरता नित्या अनन्तगरुडादयः ॥ ८.२४॥ एतेषामवतारादिरिच्छयैव हरेरिव । आधिकारिकतामीषामीश्वरेण निरूपिता ॥ ८.२५॥ ॥ इति वेदान्तकारिकावल्यां जीवनिरूपणं नामाष्टमं प्रकरणम् ॥
अथेश्वरनिरूपणं नाम नवमं प्रकरणम् । स्वेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् । स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ ९.१॥ सङ्कल्पयुक्त एवैष निमित्तं कारणं मतम् । कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ ९.२॥ कार्यरूपेण वैविध्ययोग्युपादानमुच्यते । परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ ९.३॥ कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् । एकविज्ञानसहितसर्वविज्ञानवादतः ॥ ९.४॥ उपादानत्वमेवोक्तं मृदादाविव चेश्वरे । तदैक्षतेति सङ्कल्पान्निमित्तत्वं कुलालवत् ॥ ९.५॥ सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् । सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ ९.६॥ तत्र च्छागपशुन्यायान्नारायणपरा मताः । नामरूपविभागानर्हत्वावस्थासमन्वितम् ॥ ९.७॥ सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् । नामरूपविभागात्प्राङ् न हि भेदोऽवसीयते ॥ ९.८॥ मृद्घटादावपि ततस्तदेकमिति गीयते । नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ ९.९॥ तदेवान्तःप्रवेशेन नामरूपविभागकृत् । यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ ९.१०॥ देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते । यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ ९.११॥ विशिष्टमेव मुख्यार्थं वदन्ति निरुपाधिकम् । तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ ९.१२॥ विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते । अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ ९.१३॥ शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे । विशिष्टमेव श्रीमन्तमभिधास्यन्ति तत्त्वतः ॥ ९.१४॥ सर्वं ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः । सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ ९.१५॥ स्वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः । विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ ९.१६॥ कारणात्सूक्ष्मचिदचिद्युक्तात्स्थूलैतदाहितम् । कार्यं नान्यदिति व्यक्तमारम्भणनयादिषु ॥ ९.१७॥ निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः । तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ ९.१८॥ ॥ इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नाम नवमं प्रकरणम् ॥
अथाद्रव्यनिरूपणं नाम दशमं प्रकरणम् । द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते । शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ १०.१॥ रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते । रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ १०.२॥ अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् । रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ १०.३॥ प्रमादमोहादिहेतुस्त्रैगुण्यस्य निरूपणम् । लये समानि चैतानि विषमाण्युदयादिषु ॥ १०.४॥ श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा । तालुभेर्यादिजत्वेन भूतपञ्चकवर्त्यसौ ॥ १०.५॥ स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये । शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ १०.६॥ चक्षुरिन्द्रियनिर्ग्राह्यं रूपमेतच्चतुर्विधम् । श्वेतरक्ते पीतकृष्णे इति भेदाद्विधादिमम् ॥ १०.७॥ भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् । पृथिवीजलयोश्चैतदभास्वरमुदाहृतम् ॥ १०.८॥ रसनेन्द्रियनिर्ग्राह्यो रसः षोढा स कीर्तितः । घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ १०.९॥ पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः । पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ १०.१०॥ शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते । पञ्चीकरणरीत्या तु सर्वे सर्वत्र सङ्गताः ॥ १०.११॥ संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते । कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ १०.१२॥ मेषहस्तादिसंयोगः कार्योऽकार्यो विभोर्विभोः । विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ १०.१३॥ तस्मात्कालस्येश्वरेण संयोगोऽपि सुसम्मतः । संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ १०.१४॥ सर्वहेतुषु हेतुत्वनिर्वोढ्री शक्तिरिष्यते । मणिमन्त्रादिकेष्वेषा प्रसिद्धा सा त्वतीन्द्रिया ॥ १०.१५॥ बुद्ध्यादयोऽष्टौ विज्ञाने भावना चान्तराविशन् । द्रवत्वस्नेहसङ्ख्यानपरिमाणानि वेगकः ॥ १०.१६॥ द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् । स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ १०.१७॥ संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् । गुरुत्वस्यापि शक्तित्वान्नाधिक्यं क्वापि विद्यते ॥ १०.१८॥ कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः । पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ १०.१९॥ प्राचीनग्रन्थपदवीमनुसृत्य यथामति । विशिष्टाद्वैतसिद्धान्तफक्किकेत्थं निदर्शिता ॥ १०.२०॥ अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा । श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ॥ १०.२१॥ निरमायि रमायत्तपरमाद्भुततेजसः । मुदमाधातुकामेन मयेयं कारिकावली ॥ १०.२२॥ भक्तिप्रपत्त्योरधिदेवताभ्या- मिवाब्जनाभस्य पदाम्बुजाभ्याम् । समर्पयेऽस्मन्मतकारिकावलीं तदङ्गुलीसङ्ख्यनिरूपणाढ्याम् ॥ १०.२३॥ यः श्रीमच्छठमर्षणान्वयपयः सिन्धोः सुधांशुर्महा- नण्णार्यः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः । तस्यासौ तनयः समार्जितनयः श्रीवेङ्कटार्यः सुधीः श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम् ॥ १०.२४॥ ॥ इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं नाम दशमं प्रकरणम् ॥ (प्रमेयनिरूपणं समाप्तम्) ॥ इति श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली समाप्ता ॥ This is considered a primer on Ramanuja's Vedantic Philosophy.