अक्षर आकार:

उपदेशसारभाष्यम् २ अथवा तत्त्वबोधिनी

Upadeshasara Bhashyam 2 Tattvabodhini

उपदेशसारभाष्यम् २ अथवा तत्त्वबोधिनी

महर्षीरमणस्य उपदेशसारस्य श्रीजगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या सार्वज्ञ्यं सकलाधिपत्यममितं वेदेषु यस्य श्रुतं यज्जिज्ञास्यतमं मुमुक्षुनिवहैः सर्वज्ञता यत्ज्ञता । यज्जीवादि नियामकं जगदिदं यद्वीक्षणात् उद्गतं यस्य ज्ञानबलक्रियाश्च सहजास्तन्नौमि(णु-स्तुतौ) पूर्णं महः ॥ अन्तर्दृष्टीनपगतमहामोहगाढान्धकारान् आत्मारामानमलहृदयानात्मविद्योपदेष्टॄन् । आबालत्वादरुण-करुणाजाललीलावकृष्टान् अंहोहत्यै रमणभगवत्पादसंज्ञान् नमामः ॥ रमणभगवद्वक्त्राम्भोजाद्बहिस्स्वयमुद्गतः श्रुतिगत-महातात्पर्यार्थ-प्रबोध-सुधाकरः । अधिगत-महा-मोहव्याधेः जपेन विनाशकः जयति सकल-श्रेयोदाता निबन्धमहानिधिः ॥ इह खलु जगति सर्वेपि जन्तवो दुखान्ताय यतन्ते । परन्तु न जानन्ति तदन्तैकान्तकारणं भ्रमन्तस्तत्तत्साधनेषु रमन्त विविधविषयकान्तारेषु । लोकावगतसाधनैश्च नात्यन्तं दुःखान्तो भविष्यति । न खलु व्याधिभीतःऔषधं सेवमानः व्याधिना पुनः न पीड्यते । समूलोन्मूलनं हि पुनरप्ररोहाय भवति । अतश्च दुःखस्य किं मूलं इति प्रमाणतोऽवगत्यतन्निरासप्रयतनमेव साधीयो भवति । न खलु तदुभयं विना शास्त्रप्रमाणं पुरुषबुद्ध्या शक्यं अधिगन्तुम् । तथा च तदर्थं ``शास्त्रं किमाहेति'' शास्त्रमेव सद्गुरुमुखाच्छ्रोतव्यम् । शास्त्रं च ज्ञानमन्तरा दुःखमूलसमुन्मूलनं अशक्य सम्पादनं इति समुद्घोषयति । तथा च श्रुतिः ``यदा चर्मवदाकाशं वेष्टयिष्यन्तिमानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ '' इत्यादि । एवं च दुःखस्य मूलं अज्ञानं एव इति निर्णीतं भवति अज्ञानं हि अदुःखमात्मानं दुःखा करोति । विषयसंसर्गजनितं सुखमपि दुःखकरमेव विवेकिनःदुःखसम्भिन्नत्वात् । अत एव ईश्वरगीतासु स्मर्यते । ``ये हि संस्पर्जा भोगाः दुःखयोनयः एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ '' (५.२) इति तथान्यत्रापि ``यावतः कुरुते जन्तुस्सम्बन्धान् मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः इति । अज्ञानं हि सर्वसुखदुःखाद्यनर्थजालनिदानमिति श्रुतिस्मृतीहासन्यायप्रसिद्धं अज्ञानं च न स्वरूपतोऽनर्थकरमिव भाति । सुषुप्तौ स्वरूपतः सत्त्वे अपि अनर्थकरत्वादर्शनात् तथापि अध्यास द्वारा तस्य अनर्थकरत्वं नापलपितुं शक्यते प्रत्यगात्मनि अनात्माऽध्यासो हि सर्वानर्थहेतुः । एवं अनात्मनि देहादौ आत्मसंसर्गाध्यासोपि । अन्यस्यान्यात्मता अवभासः एव अध्यासः इति प्राञ्च आचार्याः आचक्षते । स(अध्यासः) च परीक्षक-पामरसाधारण्येन सर्वलोकप्रसिद्ध एव । ``पश्वादिभिश्चाविशेषात्'' अत एव ``आत्मख्यातिरसत्ख्यातिः अख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनीयख्यातिः एत्येवं ख्यातिपञ्चकम् ॥ इति ख्यातिः पञ्चधा व्यवह्रीयते । एतेषां परीक्षकाणां अन्यथाख्यातित्वादिप्रकारविवादेपि परस्य परात्मतावभासलक्षणे अध्यासे न विवादः । तेन च अध्यासस्य अनिर्वचनीयता अवश्यम्भाविनी । देहेन्द्रियादौ आत्मानं आत्मधर्मांश्चाध्यस्य खलु सर्वलोकःसुखदुःखादिकं अनुभवति । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । इत्यादि स्मृतेः । तथा च आत्मनः न सुखदुःखमोहात्मकत्वं पारमार्थिकं भवितुं अर्हति । अन्यथा तत् सत्यत्वे च अनिर्मोक्षप्रसङ्गात् । आत्मा कर्त्रादिरूपश्चेत् मा काङ्क्षीः तर्हि मुक्तताम् । न हि स्वभावो भावानां व्यावर्तेत् औष्ण्यवत् रवेः ॥ इति वार्तिकवचनात् । अज्ञानपरिकल्पितेन सुखित्वादिना दोषेण आत्मनो न दुष्टत्वं पारमार्थिकं भवति आत्मनो असङ्गत्वेन ज्ञेयसम्बन्धासम्भवात् । सर्वेषां हि देहादिषु अनात्मसु आत्मभावो निश्चितोऽज्ञानविजृम्भितः । तत्रैवं सति कर्तृत्वभोक्तृत्वादिरूपः संसारः सर्वोऽपि दृगात्मनि अविद्यया अध्यारोपित एवेति । विद्यया सहकार्येण अविद्यायाः नाशः श्रुतिस्मृतिभ्यः अवगम्यते । श्रुतयः तावत् । इह चेद् अवेदीदथ सत्यमस्ति न चेदिहावेदीन्महति विनष्टिः । तमेवं विद्वानमृतं इह भवति इत्याद्याः सहस्रशः । एवं च ईश्वरस्य एव सतः जीवस्य अज्ञान-उपाधिकृत भेदतः संसारीत्वमिव भवति । वक्ष्यति च भगवान श्रीरमणः ॥ विग्रहेन्द्रिय प्राणधीतमः नाहमेक सत् तज्जडं ह्यसत्... इत्यादिना जीवेश्वर भेदस्य औपाधिकत्वम् । वेषहानतः स्वात्मदर्शनं । ईशदर्शनं स्वात्मरूपतः इति । सहेतुकस्य संसारस्य अत्यन्त उपरमश्च स्वात्म-अभिन्नपरमेश्वर ज्ञानात् एव भवति इति च । अतश्च भगवान् श्री रमणाचार्यः स्वप्रयोजन अभावेऽपि भूतानुजिघृक्षया समस्तशास्त्रार्थसारसङ्ग्रहभूतं दुर्विज्ञेयार्थम् त्रिंशत् श्लोकपरिमितं उपदेशसाराख्यं इमं ग्रन्थं संसारव्यावृत्सुनां मुमुक्षूणां उपकाराय उपदिदेश । एतस्य च परं निःश्रेयसमेव संसारोपरमरूपं प्रयोजनं स्वाभिन्नं ब्रह्मैवाभिधेयभूतम् । अतः विशिष्टाभिधेयप्रयोजनसम्बन्धवत् इदं शास्त्रं मीमांसनीयम् । एतदर्थे विज्ञाते समस्तपुरुषार्थ सिद्धिः स्यात् इति । विवेकतः तदर्थं तत्त्वबोधनार्थं यथाप्रतिभानं यत्नः क्रियते । तत्र वर्णाश्रमांश्च उद्दिश्य विहितः सर्वोऽपि धर्मः दृष्टादृष्टाभ्युदयार्थोऽपि सन् ईश्वरार्पण बुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य एव ज्ञानप्राप्ति अर्हता सम्पादनद्वारा ज्ञानोत्पत्तिहेतुत्वेन निःश्रेयसनिदानत्वमपि परम्परया तस्य भवति इति अभिसन्ध्यादौ श्रीरमणभगवान ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं कर्मयोगं उपदिशति स्म । ``ब्रह्मण्याधाय कर्माणि ... योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये इति भगवद्गीतावचनात् । अत्रैवं सति दृष्टानुश्रविकविषयसुखकामनया क्रियमाणानां श्रौतानां स्मार्तानां लौकिकानां वा कृष्यादिनां कर्मणां अतिफल्गुफलत्वेन आयासबहुलत्वेन च अनादर्तव्यत्वं व्यवस्थापयितु कामः भगवानादौ फलदातारं ईश्वरं अनङ्गीकुर्वतां साङ्ख्य-पूर्वमीमांसक-चार्वाकादिनां मतं असङ्गतं इति निरूपयितुं प्रथमं श्लोकं प्रवर्तयति - कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ १॥ कर्तुरिति । कर्माध्यक्षस्य सर्वभूताधिवासिनः साक्षिणः चेतयितुः सर्वकर्तुः ईश्वरस्य आज्ञया (अनुज्ञया) अनुग्रहेण फलं ईष्टानिष्टमिश्रलक्षणं प्राप्यते लभ्यते इत्यर्थः प्रत्यगात्मा स्वयं प्रकाशःसन् निरवयवोऽपि अनिर्वचनीय-अविद्यापरिकल्पित-बुद्धि-मनः-सूक्ष्म-स्थूलशरीर- इन्द्रियादि-अवच्छेदेन अनवच्छिन्नोऽपि अवच्छिन्निव अकर्ताऽपि कर्तेव । अभोक्ता अपि भोक्ता इव । अविषयोऽपि अस्मद्-प्रत्ययो विषयो जीवभावं आपन्नः अवभासते । अहं प्रत्यये भासमानस्य चिदात्मनः असङ्गस्य बुद्धि-इन्द्रियादेः कार्यकरण सङ्घातस्य च क्रियाशक्तिः भोक्तृशक्तिः वा न सम्भवति । जडत्वेन क्रियाकरणभोगशक्ति नैव सम्भवितुं अर्हतः । अतश्च कार्यकरणसङ्घात सङ्कलितं चैतन्यमेव क्रियाकरणभोगशक्तिमत् अहङ्काररूपं जीव इति जन्तुः इति क्षेत्रज्ञ इति च आख्यायते । वस्तुतः तु जीवः चिदात्मनः न भिद्यते तथा च श्रुतिः ``अनेन जीवेन आत्मना अनुप्रविश्य इत्याद्याः । तस्मात् चिदात्माभिन्नस्यापि जीवस्य अहङ्कारादि-उपाधिसम्बन्धवशात् एव कर्तृत्व कारयितृत्व भोक्तृत्वादि व्यवहारः । अहम्प्रत्यय आलम्बनत्वं च अभ्युपगम्यते इति व्यवहाराख्य भेदावस्थायां इयं चिन्ता भगवता महर्षिणा प्रथमं प्रस्तूयते इति अवगन्तव्यं अन्यथा ``ईशजीवयोः वेषधीभिदा । सत्स्वभावतो वस्तु केवलम्'' । इत्यादि उपरितन श्लोकानां असाङ्गत्यापत्तेः अस्मिन्नर्थे च परः सहस्रश्रुतिस्मृतिवचनानि सन्ति । ``आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । सधीः स्वप्नोभूत्वा'' ``ध्यायतीव लेलायतीव'' ``तत्रैव सति कर्तारं आत्मानं केवलं तु यः'' पश्यत्यकृतबुद्धित्वात् न पश्यति दुर्मतिः'' इत्याद्याः यत् एतत् औपाधिकं कर्तृत्वभोक्तृत्वादिकं जीवानां ईश्वर अपेक्षं एव इति । ``एषह्येव साधु कर्म कारयति तं, यमेभ्यः लोकेभ्यः उन्निनीषते । to wish to lead or bring or carry to or into) एषह्येव असाधु कर्म कारयति तं, यमेभ्यः लोकेभ्यः अधो निनीषते । '' ``अज्ञः जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ``समाने वृक्षे पुरुषो निमग्नोऽअनीशया शोचति मुह्यमानः । '' इत्याद्यैः श्रुतिस्मृतिवचनैरवगम्यते ॥ ननु ईश्वरः द्वेषपक्षपातरहितः श्रूयते । स च कथं जीवान् साध्वसाधुने कर्मणि प्रवर्तयितुं अर्हति । स्वतन्त्रस्सन् ईश्वरः करुणाकरः धर्ममार्ग एव जीवान् प्रवर्तयेत । न अधर्ममार्गे । ततश्च तत् प्रेरिताः सर्वेपि जीवाः धर्ममात्रानुष्ठायिनस्सन्तः सुखिनः एव भवेयुः, य दुःखिनः । तथा च सुखित्वदुःखित्वादि कृतं जगद्वैचित्र्यं अनुभूयमानं अनुपपन्नं स्यात् । जीवानां स्वान्त्र्ये अभ्युपगते तु रागादिदोषेण स्वयं धर्माधर्मयोः उभयोरपि प्रवर्तमानत्वेन सुखित्वदुःखित्वादि कृतं जगद्वैचित्र्यं उपपन्नं स्यात् । तस्मात् स्वतन्त्राः सन्तः जीवाः पुण्यापुण्येषु प्रवर्तन्ते निवर्तन्ते च इत्येव वक्तव्यम् । एवं च विधिनिषेधबोधकशास्त्राणां अर्थवत्त्वं स्यात् । इतरथा अस्वतन्त्राः जीवाः ईश्वरेण एव धर्माधर्मयोः प्रवर्त्यन्ते निवर्त्यन्ते च इति विधिनिषेधशास्त्रानर्थक्यं दुर्वारम् । विधिप्रतिषेध शास्त्राणां बहुनां आनर्थक्य परिहाराय ``एषह्येव साधु कर्म कारयति'' इत्यादिवाक्यानि ईश्वरप्रशंसापरतया नेयानि इति चेत् । न । यद्यपि ईशवरो रागद्वेषरहित एव । तथापि पूर्वपूर्व-जीवकर्मापेक्षया पुण्यापुण्ययोः उभयोः जीवान् प्रवर्तयन्निवर्तयन् अद्वेष पक्षपाताभ्यां विषमो निर्घृणो वा भवति । न खलु जीवीय कर्मणां आदिः अस्ति । अनादित्वात् संसारस्य । अतो जीवकृत धर्माधर्मापेक्षतया कारयितृत्वं ईश्वरस्य न युक्तं । नापि विधिनिषेध शास्त्रानर्थक्यम् । जीवकृत धर्माधर्मानुसारेण जीवानां धर्माधर्मयोः रागद्वेषावपि ईश्वरः जनयति । ``पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन'' इत्यादि श्रुतेः । एवं च इष्टानिष्टप्राप्ति परिहारार्थिनां विधिनिषेधशास्त्रं अर्थवदेव भवति । यदि विधिनिषेधयोः फलं ईश्वरेण जीवीयधर्माधर्मनिरपेक्षेण विधिनिषेधस्थानीयेन कृतं इति अङ्गीक्रियते, तदा एव विधिनिषेधशास्त्रान् आनर्थक्यं स्यात् । तस्मात् विधिप्रतिषेधशास्त्राविरोधात् ``एषह्येव'' इति वाक्यानि न प्रशंसापराणि इति बोध्यम् । तस्मात् ईश्वराधीनमेव जीवानां औपाधिकं अपि कर्तृत्वभोक्तृत्वादिकं न स्वाधीनं इति सिद्धम् । इष्टानिष्टव्यामिश्रलक्षणसुखदुःखानुभवः एव भोगः । स एव फलशब्दवाच्यो भवति । धर्माधर्मकारयितुं ईश्वरस्यैव धर्माधर्मफलप्रदत्वमपि स्वीक्रियते । तथा च अयं अर्थः गीतायां अपि निरुक्तः यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तः तस्याराधनमीहते । लभते व ततः कामान् मयैव विहितान् हि तान् ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । इत्यादिना । एतेन निरीश्वरवादः निराकृतः वेदितव्यः । धर्माधर्मयोः कारयितृत्वेन फलप्रदत्वेन च सर्वज्ञस्य सर्वजीवबुद्धिकर्मफल विभागसाक्षिणः सर्वेश्वरस्य सिद्धत्वात् । न खलु कर्तेव कारयितृनिरपेक्षं कर्मफलं जनयितुं शक्नोति । कर्मकर्तुजीवस्य देशकालनिमित्तविशेष अनभिज्ञत्वात् । लौकिकस्य कृषिसेवादेः फलं आत्मसेव्यादि अधीनं हि दृश्यते । अतः कर्मफलसिद्धिः ईश्वरात् एव इति । तदर्थं ईश्वरः कश्चन अङ्गीकार्यः । श्रुतिस्मृति इत्यादि प्रमाणानि च सर्वज्ञं ईश्वरं विचित्रप्रपञ्चसृष्ट्यादिकर्तारं अवगमयन्ति । न खलु ईश्वरः नास्ति इति प्रतिषेधवचनं किंश्ञ्चित् उपलभ्यते । प्रत्युत ईश्वरनास्तित्ववादिनां ``असन्नेव स भवति'' इत्यादि श्रुतिभिः निन्दा एव क्रियते । ननु कालकर्मादि एव जीवानां कर्मफलप्रदत्वम अस्तु । किं ईश्वर कल्पना इति अतः आह । कर्म किं इति । कर्म परं किं फलप्रदाने स्वतन्त्रं भवितुं अर्हति किं इत्यर्थः । कुत इत्याह कर्म तत्जडं इति । यस्मात् तत् कर्म अचेतनं तस्मात् कर्मफलदाने न स्वतन्त्रं इत्यर्थः । कर्तृतन्त्रं हि कर्म । क्रियात्मकत्वात् । न हि कर्ता करणं क्रिया च फलप्रदं लोके दृश्यते । तत्र कर्तुः देश काल नियत निमित्त क्रम-अनभिज्ञत्वात् स्वस्वकर्मफलप्रदत्वं न शक्यं वक्तुं इति प्राक् निरूपितम् । एवं करणस्यापि । न खलु हलादिकं कृष्यादिसाधनं व्रीह्यादि फलप्रदं इति युज्यते । अचेतनत्वात् । चेतन अनधिष्ठितस्य अचेतनस्य स्वतः कार्येषु प्रवृत्तिः तु न भवति । रथादिषु अदर्शनात् । एवं कर्मणः अपि फलप्राप्तिः न सम्भवति । ``स्वर्गकामो यजेत'' इत्यादि शास्त्रात् कर्मणः फलसिद्धिः न ईश्वरात् । तद् अस्तित्वे प्रमाण-अभावात् अनुपयोगात् च इति चेत् । न । लोकदृष्टिन्यायविरोधात् । लोके हि सेवादिभिः भक्तिश्रद्धापुरःसरं आराधितेन प्रसन्नेन सेव्येन प्रभुणा तत् तत् सेवानुरूपं आराध्यकार्यफलं प्रदीयते इति दृष्टम् । तदिदं कर्म अपूर्वं वा चेतन-अनधिष्ठितं अचेतनं फलं ददाति एत्येतत् दृष्टविरुद्धं वर्तते । यथा आशुतरविनाशिनः कर्मण फलजनकत्वं दृष्टन्यायविरुद्धं इत्येव अपूर्वं कल्प्यते तथा देवताप्रसादं अन्तरा कर्मणः फलजनकत्वं न सम्भवति इति दृष्टन्यायानुगुण्येन देवताप्रसादात् फलसिद्धेः उपपत्तेः कृतं अपूर्व कल्पनेन । न खलु शुभाशुभकर्मानुसारेण तत्कर्तॄणां फलदात्रीदेवता द्वेषपक्षपातिनी भवति । न हि भवति भूपतिनीतिमार्गस्थं अनुगृह्णन् अनीतिमार्गस्थं निगृह्णंश्च दुष्टो रक्तो वा । तस्मात् दृष्टन्यायाविरोधेन सेव्य इव ईश्वरः त्रिविधकर्मफलं जीवानां प्रसूते नापूर्वं कर्म वा इत्येव बोध्यम् । असंसारिणः फलदातुः एकस्य ईश्वरस्य सिद्धौ ``विरजो विमृत्युः'' ``सत्यकाम सङ्कल्पः'' ``एष सर्वेश्वरः पुण्यं कर्म कारयति'' इत्यादि वेदान्तवाक्यानि परश्शतं सन्ति । स्मृतयश्च परस्सहस्रं विद्यन्ते । न एते अर्थवादाः शक्यं वक्तुम् । अवाधितार्थबोधजनकत्वात् । वेदान्तेषु श्रूयमाणं ईश्वरस्य जगज्जन्मादिकारणत्वं जीवकृतधर्माधर्मापेक्षमेव इति इदं एव फलप्रदत्वं दृढयति । कर्तुः परमेश्वरस्य आज्ञया अनुग्रहहेतुकेन ज्ञानेन फलं मोक्षफलं प्राप्यते सिद्ध्यति इति अर्थान्तं अपि अत्र विवक्षितम् । एतेन धर्माधर्मफलानुभवरूपबन्धहेतोरपि ईश्वरस्य मोक्षप्रदत्वं न स्यात् इति शङ्का परास्ता । ननु किमर्थं एवं सुखदुःखफलप्रदानेन बन्धं, ज्ञानप्रदानेन मोक्षं च प्राणिनां परमेश्वरो विदधाति । ``प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्'' इति न्यायेन बन्धसृष्टेः अनारम्भस्य एव उचितत्त्वात् इति चेत् परमेश्वरस्य जगत्सर्जनं बन्धमोक्षप्रदत्वं च अनाद्यविद्याशक्तिनिबन्धं भवति । अतः न पारमार्थिकं भवितुं अर्हति येन प्रयोजनमनुयोक्तुं युज्यते । आविद्यकस्य अस्य जगत्सृष्टिबन्धमोक्षकारित्वादिस्वभावस्य प्रयोजनापेक्षाया लोके अपि अदृष्टत्वात् । न खलु ऐन्द्रजालिकसृष्टेषु नानाविचित्रवस्तुषु प्रयोजनं चिन्तयन्ति लौकिकाः । जगत्सर्जनफलप्रदत्वादेः व्यावहारिकत्वं अभ्युपेति एव अत्र श्रीरमणभगवता तस्य ईश्वराधीनत्वं उपवर्ण्यते । तस्य मायिकत्वं अभ्युपगमेपि विविधविचित्रप्रपञ्चं विरचयतः निग्रह-अनुग्रहमुखेन फलविशेषादिकं ददतो वा परमेश्वरस्य अविद्याशक्ति सम्बलितस्य स्वभाव इति लीला इति वा स्वीकर्तव्या इति न कश्चित् दोषः । न हि स्वभावः पर्यनुयोक्तुं शक्यते । ननु माभूत् कर्मणः फलप्रदातृत्वम् । कर्मसापेक्षस्य जगदीश्वरस्य एव तत् भवतु । तथाऽपि दृष्टादृष्टाभ्युदयार्थानि श्रौतस्मार्तादिकर्माणि न परितित्याजयिषितानि । निषिधानि च नानुतिष्ठासितव्यानि । सर्वेषु फलार्थित्वस्वभावत्वात् । अनुकूलर्वन्दनीयः हि फलं भवति । इष्टस्वरूपत्वात् सुखस्य । तत्तद्-दृष्टादृष्टसुखरूपफलविशेषानुरागहेतौ इष्टसाधनज्ञाने सति कथं इहामूत्रार्थफलभोगविरागः सम्भवितुं अर्हति । न च दृष्टादृष्टसुखे दुःखसम्भिन्नत्व अवगमात् तत्रापि वैराग्यं जायेत इति वाच्यम् । तर्हि दुःखसम्भिन्नत्वेऽपि सुखस्य दुःखपरिहारार्थं यत्नः आस्थेयः । तथा च अवर्जनीयतया आगतं अपि दुखं परिहृत्य सुखमात्रं उपादेयम् । यथा धान्यार्थी पलालानि परिहृत्य सुखमात्रं उपादत्ते तद्वत् तस्मात् दुःखानुषङ्गभयात् ऐहिकं आमुष्मिकं च सुखं धर्मफलभूतं न परित्यक्तुं उचितम् । किञ्च स्रक्चन्दनादिसम्पर्कजनितस्य सुखस्य दुःखाक्रान्तत्वात्, क्षयिष्णुत्वात् च परित्याज्यत्वे अपि आमुष्मिकस्य स्वर्गादिसुखस्य न परित्याज्यत्वम् । तस्य दुःखासम्भिन्नत्वात् अविनाशित्वाच्च । श्रूयते हि श्रुतिस्मृतिषु - ``अपाम सोमममृता अभूम अग्नम ज्योतिरविदाम देवान्'' ``अक्षय्यं ह वै चातुर्मास्य याजिनस्सुकृतं भवति'' । यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलषोपनीतं च स्वर्गं नित्यसुखास्पदम् ॥ इति । न च कृतकत्वहेतुकं आमुष्मिकसुखस्यानित्यत्वानुमानं सम्भवति । नरशिरः कपालशुचित्वानुमानवत् तन्नित्यत्वावेदकागमबाधितविषयत्वात् इत्येवं प्राप्ते आह - कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ २॥ कृति इति । फलं कर्मफलम् । अतः एव अशाश्वतम् । फल्गुतया लयं अदर्शनं गच्छति इति फलशब्दनिष्पत्तेः । यत्र यत्र फलत्वं तत्र तत्र अनित्यत्वम इति व्याप्तेः । न च मोक्षे व्यभिचारः । तत्र फलत्वस्य अभावात् । तस्य नित्यसिद्धत्व अभ्युपगमात् । अज्ञाननिवृत्ति-उपलक्षित आत्मचैतन्यस्य एव मोक्षपदार्थत्वात् । ``निवृत्तिः आत्म-मोहस्य ज्ञातत्वेन उपलक्षित'' इति सिद्धान्तात् । अज्ञाननिवृतौ तु फलत्वं अनित्यत्वं उभयं अस्ति एव इति न तत्र व्यभिचारः । पक्षसमत्वात् । यत् कृतकं तत् अनित्यमिति व्याप्त्या कर्मसाध्यस्य फलस्य नित्यत्व असम्भवात् । न हि मोक्षः कर्मभिः साधनैः साध्यते येन तस्य आप्यनित्यत्वं आपाद्येत । स्वयमेव आत्मनः ब्रह्मरूपत्वात् । तत्ज्ञानेन अज्ञानादिनिवृतौ स्वात्मस्वरूपावस्थानं हि मोक्षः । तथा च आत्मस्वभावसिद्धस्य साधनैः सिसाधयिषितत्वं सम्भवति । ननु कर्मसाधितस्यापि स्वर्गादिसुखस्य नित्यत्वं आगमादिप्रमासिद्धमित्युक्तं इति चेत् । सत्यम् । यत् कृतकं तद् अनित्यं इति न्यायसहितेन ``तद्यथेह कर्मचितो लोकः क्षीयते एवं एव अमुत्र पुण्यचितो लोकः क्षीयते'' ``अथ यदल्पं तन्मर्त्यम्'' इत्यादि आगमेन ``अपामसोमम्'' इत्यादि आगमस्य बाधितत्वात् । ``अन्तवन्तु फलं तेषां तद्भवत्यल्पमेधसां ``आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन'' । ``क्षीणे पुण्ये मर्त्यलोकं विशन्ति'' । ``इमं लोकं हीनतरं वा विशन्ति'' इत्याद्या श्रुतिस्मृतयः सहस्रशः । ततश्च ``अक्षय्यादिवाक्यानां आपेक्षिकं अमृतत्वमेव लक्षणामर्यादया अर्थः स्वीकार्यः । अतः एव ``आभूत सम्प्लवं स्थानं अमृतत्वं हि भाष्यते'' इति पौराणिक आभणकं श्रूयते । स्वर्गाद्यामुष्मिकसुखेपि क्षयिष्णुताकृतदुःखं अनिर्वार्यम इति ``यन्नदुःखेन सम्भिन्नम्'' इति वचनं अपि सातिशयत्वप्रतिपादकं इति एव उपेयम् । दृष्टदुःखं अनेककारणसन्निपातजनितं वर्तते इति न शक्यते पुरुषप्रयत्नेन परिहर्तुम् । न हि मधुविष-सम्पृक्त यत् विभज्य मधुमात्रं गृहीतुं शक्यते । पलालपरित्यागेन धान्यमात्रग्रहणं सम्भवति । अपि च कृतिमहोदधौ, कर्ममहासमुद्रे, पतनकारणं निमज्जनकारकम् । सुखभोगार्थं कर्म कुर्वन्ति । कर्मार्थं पुनः भुञ्जते इत्येवं कर्मपरम्पराऽनादिरनन्ता बन्धरूपिणी भवति इति भावः । उक्तं च विद्यारण्यश्रीचरणैः ``कुर्वते कर्म भोगार्थं कर्म कर्तुं च भुञ्जते । नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते'' ॥ इत्यादि । अग्निष्टोमादिकर्मभिः स्वर्गप्राप्तिप्रतिबन्धककल्मषरहिताः यजमानाः स्वर्गलोकं काम्यकर्मफलं अनुभूय तद्भोगजनके पुण्ये क्षीणे तद्देहनाशात् तत्र मरणं अनुभूय पुनर्देहग्रहणार्थं मर्त्यलोकं सम्पतन्ति । ते च पुनः गर्भवासादिश्रमान् अनुभूय दुस्तरे अगाधेऽप्लवे जन्ममृत्युतरङ्गान्विते कर्मरूपसंसारमहासमुद्रे पुनरुद्धरणं अविदन्तः निपतन्ति । अविद्याकाममूलकर्मजालस्य उपरमः नास्ति अविद्याविषयं, कर्म अत्यल्पफलत्वादिदोषविशिष्टं बन्धरूपं सकामानाम् । ``कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र'' । ``इति नु कामयमानः'' ``तदेव सक्तः सहकर्मणा इति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणः तस्य यत् किञ्च इह करोति अयम् । तस्माल्लोकात् पुनःएति अस्मै लोकाय कर्मणे'' । इत्यादि श्रुतेः । न तु निष्कामानाम् । अतः फलकामनायाः संसारगतिरेव स्यात् । न परगतिः । तद् एतद् आह गतिनिरोधकं इति । गतिरत्र ज्ञानम् । तन्निरोधकं तत्प्रतिबन्धकम् । ज्ञानोत्पत्तिप्रतिबन्धकं इत्यर्थः । कामपूर्वकप्रवृत्तेः ज्ञानप्रतिकूलत्वात् । कर्महेतूनां कामानां ज्ञानाभावे निवृत्ति असम्भवात् उत्तरोत्तरं कामाभिवृद्धिरेव स्यात् न कर्मक्षयः । नापि ज्ञानं न वा मोक्ष इति भावः । यद्वा गतिः उत्तरमार्गप्राप्तिः तन्निरोधकं तत्प्रतिबन्धकम् । उपासनारहितानां सकामेन पुंसा कृतानां श्रौतस्मार्तादिकर्मणां दक्षिणमार्गप्रतिपत्यर्थत्वेन उत्तरमार्गं अप्राप्य हिरण्यगर्भलोकप्राप्तिप्रतिकूलत्वात् । तस्मात् उपासनासहितः कर्मानुष्ठानेन उत्तरमार्गप्रतिपत्तये एव प्रयत्नः कर्तव्यः इत्यपि तात्पर्यम् । ``न तत्र दक्षिणा यन्ति नाऽविद्वांसः तपस्विनः । अष्टाशीतिसहस्राणां ऋषीणां ऊर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थाः तेऽमृतत्वं हि भेजिरे । ये प्रजामीषिरेऽधीराः ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे । '' इत्यादिस्मृतेः । इयं हिरण्यगर्भपदप्राप्तिः अपि संसारगतिः एव । स्थावरादिसंसारगत्यपेक्षयाऽसौ सात्विकी उत्तमा च भवति इति मनुः प्रपञ्चयति- ``ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्विकीमेतां गतिं आहुर्मनीषिणः'' । अथवा गतिः दक्षिणमार्गः तन्निरोधकं तत्प्रापकम् । केवलकाम्यकर्मानुष्ठातॄणां सोमादिलोकप्राप्तेः सर्वशास्त्रसम्मतत्वात् । तस्मात् स्थावरान्ताधोगतिप्रापकात् अशास्त्रीयमार्गात् निवृत्य सकामकर्म वाऽनुष्ठातव्यं इति भावः ॥ २॥ ननु सकामकर्माणि पुनरावृत्तिकराणि भवन्ति इति श्रूयते श्रुतिषु । अतः न अनुष्ठातव्यानि । प्रक्षालनात् हि इति न्यायेन कर्मणां सर्वेषां अननुष्ठानं एव श्रेयः इति प्रतिभाति । अतिफल्गुफलत्वात् आयासबहुलत्वाच्च तत्त्वज्ञानप्राप्तिमात्रादेव च निश्रेयससिद्धेः इति प्राप्त आह - ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्ति साधकम् ॥ ३॥ ईश्वरे इति । नेच्छया,अकामनया,कर्मफलं अनपेक्ष्य इत्यर्थः । ननु दृष्टादृष्टानि कर्मफलानि न अपेक्ष्यन्ते चेत् किमर्थं कर्माणि कर्तव्यानि इत्यतः आह - ईश्वरार्पितं इति । ईश्वराय भगवते सर्वकर्मफलदात्रेऽर्पितं समर्पितम् । स्वभावतः शास्त्रतश्च प्राप्तं सर्वं अपि कर्म परमेश्वरप्रीतिप्रसादलाभार्थं कृतं इति भावः । ननु परमेश्वरप्रीतिप्रसादाय वा किमर्थं तानि कर्माणि अनुष्ठेयानि इति आशङ्क्य आह - चित्तशोधकं इति । चित्तस्य मनसश्शुद्धिजनकं इत्यर्थः । ज्ञाननिष्ठायोग्यताप्राप्त्यर्थं कर्माणि अनुष्ठेयानि एव इति भावः । ननु चित्तशोधनं अपि कर्मफलं एव इति वाच्यम् । तथा च तत्र तृष्णा दुर्वारा । तस्मात् तेषां अपि बन्धकत्वं एव इति आशङ्कायां आह । मुक्तिसाधकं इति । मुक्तिं प्रति साधकं बहिरङ्ग-उपायः इत्यर्थः । फलकामनया कर्म क्रियते यदि तत् कर्म फलदं भवेत् । कर्मफलतृष्णां विहाय परमेश्वरार्पणबुद्ध्या क्रियमाणस्य कर्मणश्चित्तशोधनं न फलम् । एवं तस्य स्वभावः तस्य फलत्वे स्वीकृते अपि चित्तशोधनरूपफलतृष्णापि न कार्या एव । ईदृशं कर्म एव ज्ञानप्राप्तिद्वारा मोक्षकारणं इति भावः । इदम एव च गीतायां अपि उक्तम् । ``सिद्ध्यसिद्ध्योम्स्समो भूत्वा समत्वं योग उच्यते । कर्मजं बुद्धियुकाहि फलं त्यक्त्वा मनीषिणः । जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्यनामयम्''। इत्यादिना । तथा च सकामकर्मानुष्ठानमेवात्यल्प फलं बन्धरूपं भवति । न तु निष्कामकर्मानुष्ठानम् । तच्च तन्निवर्तक-पुरुषसंस्कारार्थं भवति । तच्च महाफलम् । आदर्शनिर्मार्जनवद् आत्मज्ञानप्रतिबन्ध निर्मार्जनाय उपयुज्यते । ``ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः । यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमञ्जसा ॥ ``आत्मयाजी तु करोति । इदं मे अनेन अङ्गं संस्क्रियते इति'' ``महायज्ञैश्च यज्ञैश्च ब्राह्म्यीयं क्रियते तनुः'' । ``यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्'' इत्यादिश्रुतिस्मृतिभ्यः । कर्मपरित्यागश्च श्रुतिस्मृतिप्रमाणप्रसिद्धः । तस्य निरर्थकत्वात् । अतः एव श्रुतयः । ``कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः'' क्रियापथश्चैव पुरस्तात् संन्यासाश्चोत्तरेण । ``नान्यः पन्था विद्यते अयनाय'' इत्याद्याः । उपायभूतानि एव कर्माणि निष्कामकृतानि ज्ञानस्य । अमृतत्वप्राप्तिश्च ज्ञानादेव । ``विद्यया विन्दतेऽमृतं'' इति श्रुतेः । तस्मात् उत्पन्नात्मज्ञानस्य पुंस एव कर्मपरित्यागः युज्यते । न तु अनुत्पन्नात्मज्ञानस्य । न हि नौकया सागरतीरं गतः पुमान् नौकां (न)विमुञ्चति इति एतत् चित्रं(आश्चर्यम्) भवेत् । एवं च वर्णाश्रमकर्मणां सर्वेषां अनात्मज्ञविषयकत्वं व्याख्यातम् । एतेन फलाभिसन्धिं अन्तरा मोक्षार्थिभिः चित्तशोधकानि कर्माणि अवश्यं अनुष्ठेयानि इति भावः ॥ ३॥ स्यात् एतत् । परमेश्वरार्पणबुद्ध्यानुष्ठीयमानस्य कर्मयोगस्य चित्तशोधकत्वं बन्धनाशकत्वं चायुक्तम् । कर्मणां वैदिकानां आनन्त्येन तेषां सर्वेषां पुरुषायुषेणापि अनुष्ठातुं अशक्यत्वात् इति आशङ्क्य आह - कायवाङ्मनःकार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥ कायेन, वाचा मनसा च क्रियमाणं धर्म्यं कार्यं उत्तमम् । श्रेष्ठम् । न परित्याज्यम् । तच्च क्रमात् पूजनं जपः चिन्तनं भवति इति । न अशेषकर्मानुष्ठानासम्भव-आशङ्का सम्भवति । कायिकवाचिकमानसिकानि पूजाजपध्यानानि ज्ञानोत्पत्तिप्रतिबन्धकपापापकर्षणेन ज्ञानोत्पत्तियोग्यता आधानेन च शोधकानि भवन्ति । अतः एतत् त्रयं मुमुक्षुभिः अवश्यं अनुष्ठेयं इति भावः । अत्र कार्यपदेन अकार्यव्यवश्छेदो बोध्यः । [कायश्च वाक् च कायवाचौ इति प्रथमं विग्रहं कृत्वा ततः समस्तस्य कायवाक्पदस्य मनः पदेन द्वन्द्वसमासः । न तु केवल वाक्पदस्य मनः पदेन द्वन्द्वः तेन च अचतुरेत्यादि सूत्रनिपातितं अकारान्तत्वं नास्ति इति बोध्यम् । शरीरवाङ्मनोभिः यत्कर्म प्रारभते नरः इति श्रीभगवद्गीतायां प्रयोगदर्शनात् । ] अत्र इदं नोध्यम् । धर्मो वा अधर्मो वा कर्मसामान्यं कायं वाचं मनश्च इति त्रीणि आयतनानि आश्रित्य एव उपपद्यमानं दृश्यते । तत्र कायिकस्य एव कर्मणः वाचिकस्य मानसिकस्यापि धर्मत्वम्-अधर्मत्वं च यथाशास्त्रं सम्भवत न केनचित् परिहर्तुं शक्यते । धर्माधर्मयोः उभयोः अपि कायिक अपेक्षया मानसस्य च ज्यायः त्वं उपदिशन्ति धर्मतत्त्वविदो महर्षयः । किन्तु धर्माधर्मयोः उभयोः अधर्मं अधोगतिप्रापकं परित्यज्य शास्त्रचोदितो धर्म एव मुमुक्षुभिः कर्तव्यः । अत्र च क्रमात् उत्तमं इति कायिकपूजन अपेक्षया वाचिको जपः उत्कृष्टः ततः च मानसचिन्तनं उत्कृष्टं इति भगवता कथितम् । एतत् त्रयं प्रतिदिनं ज्ञान-इप्सुभिः कर्तव्यम् । नित्यकर्मत्वात् । यस्य अनुष्ठाने चित्तशुद्धि अतिरिक्तं पुत्रपश्वादिफलादिकं नास्ति, यस्याननुष्ठाने पातित्यं ,ज्ञान-अधिकारित्वं च भवति इति श्रूयते तदेव नित्यं कर्म भवति । ततश्च पूजनं इति एतत् स्नानसन्ध्ययोः उपलक्षकम् । अकृतस्नानसन्ध्यस्य पुरुषस्य अन्यत्र पूजनादौ अवाससः पुरुषस्य अलङ्कारः इव निरर्थकत्वेन अधिकार-असम्भवात् । सनियमस्नानं हि बाह्याभ्यन्तरशोधकत्वेन प्रत्यक्षफलम् । एवं सन्ध्या-कर्म अपि । ``सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्व कर्मसु । ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुर्वाप्नुवन् । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्'' इत्यादि स्मृतेः । जपश्च गायत्र्यादिवैदिकमहामन्त्रादीनां कर्तव्यः । वेदानुवचनं च ब्रह्मयज्ञभूतो जप एव । ``जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः । कुर्याद् अन्यत् न वा कुर्यात् मैत्रो ब्राह्मणः उच्यते । जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः प्रवर्तते । यज्ञानां जपयज्ञोऽस्मि'' इत्यादिस्मृतिः । चिन्तनं उपासनं तच्च शास्त्रीयं किञ्चिद्वस्तु उपादाय तद्विलक्षणप्रत्यय-अनन्तरित समानचित्तवृत्तिसन्तानकरणमेव । उपासनं च सत्त्वशुद्धिकरत्वेन वस्तुतत्त्व-अवभासकत्वेन च आत्मज्ञान उपकारकम् । एवं स्नानसन्ध्यादीनि नित्यकर्माणि अनुष्ठेयानि इति भावः ॥ ४॥ तत्र पूजनजपध्यानानां उत्तरोत्तरं उत्कृष्टानां स्वरूपं उपदेष्टुकामः क्रमप्राप्तं पूजनस्वरूपं प्रथमं उपदिशति । जगत-ईशधी-युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥ जगतः सर्वप्रपञ्चस्य ईशभावनासहितं सेवनं परिचरणं यत् तदेव अष्टमूर्तिभृत्ः पृथिवी-अप्-तेजो-वायु-आकाश- सूर्य-चन्द्र-यजमानाख्य अष्टतनोः देवस्य परमेश्वरस्य पूजनम् । भवति इति शेषः । एवं च प्रपञ्चः सर्वोऽपि परमेश्वरस्वरूपः एव । अहमपि शिवः एव इति सततविभावनं एव परमेश्वरपूजनं भवति । ``सर्वं खल्विदं ब्रह्म । '' ``आत्मैवेदं सर्वम्'' इत्यादि श्रुतेः । इदं उपासकानां, अत्र पक्षे ईशधीपदं ईश्वरभावनापरं अवगन्तव्यं । अथ ज्ञानिनाम् । स्वात्मनः परमेश्वरत्वज्ञानात् बाधिते अस्मिन् जगति च परमेश्वरत्व अकारकं यत् ज्ञानं आविर्भवति तत् ज्ञानेन युक्तं समब्रह्मात्मतासम्यग्दर्शनं यत् तदेव अष्टमूर्तेः देवस्य पूजन भवति । न अन्यद् आवाहनादि विसर्जनान्तं षोडशोपचारविधानपूर्वकं पूजनं सम्भवति । ज्ञानिनां स्वात्मज्ञानं एव देवपूजनं इति भावः । सर्वदेवात्मकत्वात् । अष्टमूर्तिः पुर्यष्टकम् । तत् बिभर्ति इति अष्टमूर्तिभृत् जीवः स एव देवः स्वयम्प्रकाशात्मा परमेश्वरः तस्य पूजनं ज्ञानं साक्षात्कार इति यावत् । अथ कर्मिणां अभिधीयते । जगतः ईशधीयुक्तं ईश्वरभावनान्वितं सेवनं परिचरणं यस्मिन् तत् । तादृशं अष्टमूर्तिभृतः देवस्य महेश्वरस्य पूजनं ध्यानावाहनादिषोडशोपचारविधानेन पूजाकरणं पूजनम् । भवति इति वाक्यशेषः । ``आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् । पञ्चदेवान्स्मरेन्नित्यं पूजयेत्पापनाशनम् ॥ '' इत्यादिस्मृति-उकतं महेश्वरपञ्चायतन महापूजाविधानं सूचयितुं जगतः ईशधीयुक्तत्वं उक्तम् । अयं भावः । शिवार्चनापद्धतौ हि आदित्यस्य स्फटिकशिलायां महेश्वरस्य वाणे च आवाहनादिकं कर्तव्यं इत्युक्तम् । आदित्यादिपञ्चदेवानां मध्ये प्राधान्यं एकस्य देवस्य अन्येषां च चतुर्णां अप्राधान्यम् । शैवाः शिवं, वैष्णवाः विष्णुम्, शाक्ताः शक्तिरूपिणीं अम्बिकाम्, सौराः सूर्यः, गाणपताः गणपतिं च प्रधानं मन्यन्ते । पूर्वजन्मवासना अनुसारिणी वासना एव अत्र नियामिका बोध्या । एषु पञ्चसु च यस्य यस्य प्राधान्यं तस्य तस्य मध्यस्थानं अन्येषां अङ्गदेवानां आग्नेय्यादिस्थानं च शास्त्रविहितम् । अङ्गदेवताचतुष्टयविशिष्टं प्रधानदेवताराधनं एव पञ्चायतनपूजा इति व्यवह्रियते । अङ्गाङ्गीभावभावनापूर्वकपूजाविधाने अस्मिन् अङ्गदेवताराधनस्य अङ्गि देवताप्रसादात् अतिशयसिद्ध्यर्थं उपयोगः । राजप्रसादसिद्ध्यर्थं तत् अमात्य-तत्प्रणयित-परिचारक आराधन् विनियोगः इव अत्र अपि बोध्यम् । न हि राजपूजन तत् अमात्यादिकं अप्रसाद्य फलाय पर्याप्तं भवितुं अर्हति । एवं एव इन्द्रादिदेवपूजात्मको यज्ञादिः अपि तत् देवता अप्रसादयन् न फलाय कल्पते । तच्च यथा प्रधानयागजन्य परमापूर्वे जनयितव्ये प्रयाजादि अङ्गजन्यपण्डापूर्वाणां उपयोगः भवति एवं इह अपि । अमात्यादिप्रसादं अन्तरा राजप्रसादः यथा दुर्घटः तथा अङ्गदेवताप्रसादं विना न प्रधानदेवताप्रसादश्च भवति । सर्वेश्वरः सर्वकारणभूतः एकः एवेश्वरः । ``एकोदेव'' इति श्रुतेः । स एव पूज्यः । आदित्यादयः अङ्गदेवताः । ``अङ्गानि अन्यादेवता'' इति श्रुतेः । अमात्यादिद्वेषे यथा राजप्रसादो न भवति तथा अङ्गदेवताद्वेषे प्रधानदेवताप्रसादोपि न स्यात् । साङ्गस्य परमेश्वरस्य आराधनात् मोक्षपर्यन्तं फलम् ,विरोधात् च नरकपर्यन्तं अहितं स्यात् । इदमेव पञ्चायतनदेवतापूजारहस्यम् । एतदर्थमेव जगतः ईशस्वरूपत्वविभावनं अभिहितम्,पञ्चदेवायतनानां पञ्चानां अपि पञ्चभूतात्मकत्वात् । अतः एव अष्टमूर्तिभृत्वं देवस्य विशेषणं दत्तम् । अष्टमूर्तिभृत् शिवः इति प्रसिद्धः । तस्य पूजनं इति अनेन शिवस्य प्रधानदेवतात्व-अवगमात् शिवपञ्चायतनदेवतापूजनं एव अत्र विवक्षितं इति विशेषणानां स्वारस्यात् अवगम्यते । ``यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गप्राः । पूर्णेन्दुवदना नार्यश्शिवपूजाविधेः फलम् ॥ '' इति वचनबलात् अष्टमूर्तेः भगवतो महेश्वरस्याराधनादेवाष्टैश्वर्यसिद्धिः । एतं कर्मिणां उपासकानां च ज्ञानिनां त्रयाणां ईश्वर-पूजनं अभिहितं अधिकारानुगुण्येन इति बोध्यम् । न चैव अर्थत्रयपरत्वे अस्य श्लोकस्य वर्ण्यमाने कायिकत्वं असङ्गतं इति वाच्यम् । सेवनपदार्थस्य कायिकत्वेन अर्थत्रयसाधारणत्वात् । न च अत्र अष्ट मूर्तयः यस्य इति बहुव्रीह्याश्रयणेन एव विवक्षितार्थलाभे, कर्मधारयसमासाश्रयणेन अष्टमूर्तिपदं विगृह्य, ततः तत् बिभर्ति इति वा तस्य भृत् इति वा समासाश्रयणेन व्याख्याने क्लेशाधिक्यात् भृत्पदं अनर्थकं इति वाच्यम् । अमूर्तेरीश्वरस्य अष्टमूर्तित्वं अवास्तवं इति तत्क्प्रकाशकत्वेन तत्पदसार्थक्यात् । अमूर्तेः असंसर्गिणः परमेश्वरस्य मूर्तिमत्वं तात्त्विकं न भवति ``असङ्गो न हि सज्जते'' इति श्रुतेः । अपितु अभिमानिकं एव इति । अतः एव महाकविः अपि आह ``अष्टाभिः यस्य कृत्स्नं जगदपि तनुभिः बिभ्रतो न अभिमानः'' इति । तस्मात् साधु उक्तं अष्टमूर्तिभृत् देवपूजनं इति ॥ ५॥ अथ वाचिकं त्रिप्रकारं जपं उपदिशति - उत्तमस्तवादुच्चमन्दतः । चित्तजं जप ध्यानमुत्तमम् ॥ ६॥ उत्तम इति । उच्चं उच्चैस्स्वरेण मन्दं मन्दस्वरेण च । प्रकारार्था तसिः । उत्तमस्य उत्कृष्टतमस्य ऊर्द्ध्वतमस्य उत्गततमस्कस्य वा सर्वाभिष्टदेवस्य परमेश्वरस्य स्तवात् , वैदिकात् आर्षात् अन्यस्मात् चित्तजं मनसि जायमानम् । मनसा आवर्त्यमानं इत्यर्थः । जपध्यानं मननात्मको जपः उत्तमः श्रेष्ठः भवति । जपो द्विविधः'' उच्चैरुपांशुश्चेति । मानसिकोपि मननध्यान भेदात् द्विविधः । अन्यश्रुतिगोचरत्वं उच्चैष्ट्वम् । स्वश्रुतिमात्रगोचरत्वं उपांशुत्वं । श्रुति-स्मृति-इतिहास-कल्प-सूत्र-पुराण-सहस्रनामादिपारायणं अपि वाचिकजप अन्तर्गतं भवति । स्वश्रुतेः अगोचरपर अवाग्रूपः ,विच्छिद्य क्रियमाण मानसः भवति । उच्चस्वरेण जप-अपेक्षया उपांशुजपस्सहस्रगुणः । उपांशुजप-अपेक्षया मानसस्सहस्रगुणः, उच्चजपः अधमः । मन्दजपो मध्यमः । मानसं मननं उत्तमं कदाचित् क्रियमाणं अपि । निरन्तर-चिन्तनात्मकं ध्यानं च अनन्तरं वक्ष्यति । अतः अत्र ध्यानपदं मननार्थकं बोध्यम् । न चैवं मानसत्वात् मननस्य वाचिकत्व असाम्प्रतं इति शङ्क्यम् । मननस्य मध्यमारूपत्वसंप्रतिपत्तेः । ननु मानसयोः मनन ध्यानयोः को भेदः इति चेत् । मननं मन्त्राणां आवृत्तिरूपम् । ध्यानं मन्त्रविषयप्रत्ययावृत्तिरूपं इति गृहाण । वर्णपदवाक्यविषयाणां मानसवृत्तीनां एव मन्त्रत्वम् । स्पष्टं च इदं आकरे । अतः एव आहुः भगवत्पादाः ``मनोवृत्तिरूपत्वे मन्त्राणां मनोवृत्तिः एव आवर्त्यते इति मानसो जपः उपपद्यते । अन्यथा अविषयत्वात् मन्त्राः न आवर्तयितुं शक्यन्ते घटादिवत् इति मानसः जपो न उपपद्यते'' इति ॥ ६॥ अथ इदानीं तृतीयं चिन्तनं ध्यान-अपर-पर्याययं आह आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ ७॥ आज्यधारयेति । आज्यधारया धृतधारया, स्रोतसा, प्रवाहेण समं सदृशं सरलचिन्तनं निरन्तरसंसरणं विरलतः विच्छिद्य विच्छिद्य कृतात् चिन्तनात् पूर्वोक्तमननात् परं श्रेष्ठम् । चिन्तन-स्मरण ध्यान-निदिध्यासनोपासनादि पदाभिधेयं इदं एव । चिन्तनपदं एव अन्तर्णीतावृत्तिगुणं मानसव्यापारं अर्थं अभिधत्ते । तेन च सत्कारदीर्घकालनैरन्तर्येण ध्येयविषयप्रत्ययावृत्तिः अवगम्यते । सगुणस्य निर्गुणस्य वा तत् चिन्तनं तत् तत् साक्षात्काराय कल्पत इति ``यस्य स्याद् अद्धा न विचिकित्सा अस्ति'' ``देवो भूत्वा देवान् अप्येति'' इति शास्त्रात् दृष्टफलत्वं अवघातवत् अधिगम्यते । अतः यावत् फलोदयं आवर्तनं उपासनस्य अभ्युगमनीयम् । निर्विशेषब्रह्म-आत्मसाक्षात्कारफलेषु, ``मानसन्तु किं मार्गणे कृते'' इत्यादिना उपरि-उपदिश्यमानेषु विचारेषु च सततचिन्तनं आवश्यकं एव । स्वात्मस्वरूप-अवस्थानलक्षणायाः मुक्तेः प्रत्यक्षफलत्वेन श्रुति-स्मृति-अनुभवसिद्धत्वात् । एवमेव सविशेषब्रह्मसाक्षात्कारफलेषु च दृष्टफलत्वात् आवर्तनं आवश्यकं । तत् च सततं विधेयं इति एव अत्र विवक्षितं बोध्यम् । एतत् सर्वं अभिप्रेत्य एव चिन्तनीयं विहाय चिन्तनक्रममात्रं उपदिष्टम् । तत्र सुखावबोधार्थं आज्यधारानदीप्रवाह दृष्टान्तद्वयं उपात्तम् । आज्यं हि देवपितृमनुष्यपूज्यं परमपवित्रं च इति श्रुतिस्मृतिप्रसिद्धम् । चिन्तनस्य उत्कृष्टवस्तुविषयकत्वेन पावित्र्यं सूचयितुं तैलादीन् विहाय आज्यधारा औपम्यं कथितम् । आज्यधारायाः पुरुषप्रयत्न-निष्पाद्यत्वेन सातत्य असम्भवात् वैरल्यशङ्कायां स्रोतोनिदर्शनान्तरं निर्दिष्टम् । स्रोतसः धारावाहिकत्वं स्वभावसिद्धम् । न पुरुषप्रयत्ननिष्पाद्यं इति एतत् सर्वविदितम् । एवं ध्यानस्य नैरन्तर्यं नैसर्गिकं भवितव्यं इत्याशयः । ऋजुकुटिल नानापथजुषां अपि स्रोतसां यथा प्रवाहविच्छेदो न भवति एवं नानाकुटुम्बकार्यव्याकुलीभूतं अपि ध्यानं अविच्छिन्नं भवितव्यं इति अपि । विरलचिन्तनस्य सरलचिन्तन अपेक्षया अवरत्वे अपि न त्याज्यत्वम् । सरल चिन्तनद्वारत्वात् ॥ ७॥ एवं सामान्यतः ध्यानस्वरूपं अभिधाय तद्विशेषान् वक्तुं उपक्रमते । भेदभावनात्सोहमित्यसौ । भावनाऽभिदा पावनी मता ॥ ८॥ भेदेति । भेदभावनात् । भेदेन भावनात् ध्यानात् अन्यो अहं अन्यो असौ इति । तस्मात् भेदभावनात् सोहं इति ब्रह्मैवाहमस्मीति असौ अभिदा भेदशून्या भावना ध्यानं पावनी परिशुद्धिकरी मता सर्वशास्त्र-अनुभव-सम्मता । त्वं वा अहं अस्मि भगवो देवता अहं वै तत्त्वमसि भगवो देवते'' ``तद्योऽहं सोऽसौ सोऽहं'' ``अहं ब्रह्मास्मी''त्येवमादिश्रुतिभिः अभेदध्यानस्य एव उक्तेः । ``अथ यः अन्यां देवतां उपास्ते अन्यः असौ अन्यः अहं अस्मि इति न स वेद यथा पशुः'' ``मृत्योस्समृत्युमाप्नोति यः इह नानेव पश्यति'' ``उदरमन्तरं कुरुते । अथ तस्य भयं भवति'' इत्यादि श्रुतिभिः भेदः भावनाया अपवादात् च । उपासनेषु अहङ्ग्रह उपासनं एव श्रेष्ठम् । ब्रह्मात्मनोः अभेदस्य तात्विकत्वात् । उपाधिकृतविरुद्धधर्माध्यासेन बिम्बप्रतिबिम्बवत् जीवब्रह्मभेदस्य अतात्त्विकत्वात् । आत्माभिन्न परमात्मध्यानस्य एव अभयामृतत्व हेतुत्वम् । मृतिभयहेतोः अन्यस्य अभावात् । न हि स्वेन एव स्वस्य मृतिभयादिकं सम्भवितुं अर्हति । मृतिभयहेतोः अपि भेदभावनस्य न अत्यन्तं परित्याज्यत्वं भवितुं अर्हति । अभेदभावनहेतुत्वात् । अन्यथा शास्त्रविहितानां प्रतीकसम्पदादिभेदोपासनानां आनर्थक्यप्रसङ्गात् । न हि प्रतीकादिषु अपि अहङ्ग्रहः सम्भवति । स्वभिन्नत्वात् । तथा विधानाभावात् च । न च प्रतीकानां ब्रह्मरूपत्वात् अहङ्ग्रहोयुक्त इति शङ्क्यम् । प्रतीकं हि ब्रह्मविकारं भवति । तत्र विकाररूपं ब्रह्मदृष्ट्या यदि तिरस्क्रियते तदा प्रतीकता अपगच्छति । तथा च तेषां प्रतीकत्वविलयेन ब्रह्मत्व आपतौ सत्यां आलम्बन अभावात् अहङ्ग्रहो न सघटेत । वस्तुवृत्तं विकाररूपं अनुपमृद्यैव प्रतीकोपास्तिविधानात् । तस्मात् प्रतीकोपासनानि भेदोपासनानि भवन्ति । तानि च नानाविधानि भवन्ति । अभ्युदयार्थानि कानिचित् क्रम्मुक्त्यर्थानि दहरादि उपासनानि कर्म समृद्धि अर्थानि उद्गीथादि उपासनानि । एतेषु अहङ्ग्रहोपासनं सविशेषनिर्विशेषोभयविषयकं इति प्राक् उक्तम् । उपासनानां च चितैकाग्र्यद्वारा ज्ञानं एव मुख्यं फलं इति मन्तव्य । तदुक्तं ``निर्विशेषं परम्ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः इति ॥ ८॥ अथ अभेदोपासने विशेषं आह - भावशून्यसद्भावसुस्थितिः । भावनाबलात् भक्तिरुत्तमा ॥ ९॥ भावेति । भावनाबलात् अभेदानुसन्धानसंस्कारप्राबल्यात् ध्यातुः या भावशून्या सङ्कल्पविकल्परहिताः सद्भावे सद्रूपे परमात्मनि सुस्थितिः तत् आत्मतास्थितिः उत्तमा भक्तिः भवति । न अन्या इति भावः । ध्याता यादृशः ध्यानवान् भवति सः तादृश ध्यानसंस्कारप्रकर्षात् तद् देवतात्मत्वं जीवदशायां देहपाते अपि प्राप्नोति । ``तं यथा यथा उपासते तदेव भवति'' । ``यथा क्रतुः अस्मिन्लोके पुरुषो भवति तथा इतः प्रेत्य भवति'' इत्यादिश्रुतेः । भावनाप्रचयश्च भक्तिश्रद्धापुरस्सरं क्रियमाणया भावनया एव जायेत इति सद्भावात्मता प्राप्तेः उत्तमभक्तिरूपता अभिहिता । एषा एव परभक्तिरिति भावः । `` मा भव ग्राह्य भावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव । सशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा भक्तिः परमा मता'' इत्यादि वचनात् । अथवा, भावनाबलात् अभेदध्यानबलात् , भावशून्यः प्रपञ्चातीतः यः सद्रूपः भावः तस्मिन् सुस्थितिः उत्तमा भक्तिः इति । एतेन शून्यवादो निराकृतः । ध्यानस्य भक्तिरूपत्व अभिधानात् अभेदो व्याख्यातः ॥ ९॥ अथ इदानीं प्रकरणार्थं उपसंहरन् पूर्वोक्तध्यानाभ्यासपरिपाक-जनित निजात्मसिद्धिलाभं महीकरोति हृत्स्थले मनस्स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ १०॥ हृत्स्थले इति । हृत्स्थले-हृदयस्थाने । अनेन मूलाधारादि-स्थानव्यवच्छेदः कृतः । तेषां मन आयतनत्व-अभावात् हृदयमात्रप्रतिष्ठितत्वात् मनसः । तस्मिन् हृदये मनस्स्वस्थता मनसस्थितिः मनसः स्वस्मिन् आत्मनि स्थितता निष्ठता वा क्रिया निष्कामकर्मानुष्ठानरूपा च भवति । निश्चितं प्रत्यक्षानुमानशब्दप्रमाणनिर्णीतं इति भावः । अत्र इदं अनुसन्धेयम् । मनो हि इदानीं न स्वस्थानभूते हृदये तिष्ठति । किन्तु बहिर्विषयेषु । विषयेभ्यः प्रत्याहृत्य मनसः स्वस्थाने स्थापनं कर्तव्यम् । एतदर्थमेव सर्वाणि शास्त्राणि प्रवृत्तानि । पूर्वोक्तपूजनजपध्यानानां च अत्र एव उपयोगः । रजस्तमोदोषेण बहिर्विक्षिप्यते मनः । तादृक दोष-अपनयनार्थं कर्माणि प्रवृत्तानि । बहिर्विक्षेपरहितस्य एकाग्रतासम्पादनार्थं उपासनायोगौ प्रवृतौ । कर्मभक्ति योगादिभिः स्वस्थानस्थापिते मनसि तत्रस्थ आत्मावबोधश्च अयत्ननिष्पाद्यः एव । मनसः हृत्स्थलस्थितिः एव हि आत्मविज्ञानं उच्यते न अन्यत् । बहिर्विषयात् उपरताः स्वहृदयस्थानसंस्थिताः सम्यग्दर्शिनः बहवः । श्रुतिस्मृतिसंवादाश्च भूयांसः । तस्मात् मनसो हृदयस्थापनं एव दुर्घटं अपि सम्पादनीयम् । हृदयस्थस्य मनसो मनस्त्वं अपगच्छति । मनस्वस्थताक्रिया इति एकं वा पदम् । मनसः स्वात्मनिस्थतेः क्रिया करणं भक्तियोगबोधरूपं भवति इत्यर्थः बोध्यः ॥ १०॥ विषयप्रवणैकस्वभावस्य मनसो हृदयस्थानस्थापना-उपायं आह- वायुरोधनात् लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ ११॥ वायुरोधनात् इति । वायोः प्राणस्य रोधनात् निग्रहात् जालपक्षिवत् जालेन बद्धः श्येनादिपक्षिवत् मनो लीयते निगृह्यते । इदं वायुनिरोधनं मनोनिरोधनसाधनं एव । न पुनः नाशसाधनम् । एकतत्त्वाभ्यासस्य एव तन्नाशकत्वात् इति भावः तदुक्तं- चित्तं प्राणेन सम्बद्धं सर्वजीवेषु संस्थितम् । रज्ज्वा यद्वत् सुसम्बद्धः पक्षी तद्वदिदं मनः ॥ तर्कैर्जल्पैस्शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः । न मनो जीयते प्राणवायुरोधनात् विना विधे ॥ इत्यादि अत्र इदं योगशास्त्रतत्त्वं अवगन्तव्यम् । प्राणवायुरोधनं नाम प्राणायामः । स च त्रिविधः । रेचकः पूरकः कुम्भक इति । शरीर-अन्तर्गतस्य वायोः बहिः उच्छ्वासेन निस्सरणे रेचकः । बहिष्ठस्य वायोरन्तर्निश्वासेन प्रवेशने पूरकः । उच्छ्वासनिश्वासनिरोधेन निश्चलतया अवस्थापने कुम्भकः । कुम्भको द्विविधः । आन्तर्कुम्भको बाह्यकुम्भकश्चेति । तत्र पूरक-अनन्तरं क्रियमाणः स्वासप्रश्वासप्रतिरोधः अन्तःकुम्भकः । रेचक-अनन्तरं क्रियमाणः तु बाह्यकुम्भकः । एवं त्रिविधेन प्राणायामेन अभ्यस्यमानेन प्राणः दीर्घसूक्ष्मो भवति । यथा च तूलपिण्डो घनीभूतः प्रसार्यमाणः विरल-अवयवतया दीर्घः सूक्ष्मश्च भवति तद्वत् । श्वासः हृदयात् निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपरिमितदेशे परिसमाप्यते । तत एव च परावृत्य हृदयदेशपर्यन्तं अन्तः प्रविशति इति स्वाभाविकी प्राणापानयोः गतिः । प्राणायाम-अभ्यासेन तु क्रमेण क्रियमाणेन नाभेः मूलाधारात् वा नासाग्रमुखे चतुर्विंशति-अङ्गुलपर्यन्ते,त्रिंशदङ्गुल-परिमिते वा देशे परिसमाप्येत । एवं रेचकपूरककुम्भकभेदेन त्रिविधात् प्राणायामात् अन्योऽपि चतुर्थः कश्चित् प्राणायामः विद्यते । सः अपि कुम्भकाख्यः एव । अयं तृतीयकुम्भकाभ्यासपाटवात् धारणाख्यभूमिकानिष्पादकतया उपयुज्यते । सः अयं चतुर्विधः प्राणायामः एव अत्र मनोनिग्रहोपायतया श्रीरमणेन कथितः । श्येनादीनां जालान्तः पातित्वे सुनिग्रहत्वं इव प्राणान्तः पातित्वेन मनसो अपि प्राणरोधेन सुनिग्रहत्वं भवति इति स्फुटयितुं जालपक्षिवत् इति निदर्शन-उदाहरणम् । उपक्रमस्थं ``लीयते'' इति पदं उपसंहारस्थरोधपदानुसारेण निग्रहपरं इति बोध्यम् ॥ ११॥ प्राणनिरोधस्य मनोनिरोधहेतुत्वं विशदयितुं आरभते । चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ १२॥ चित्तेति । चिता-चैतन्येन, क्रियया चलनादिक्रियया च युताः समन्विताः चित्तवायवः चित्तानि प्राणाश्च शक्तिमूलका सर्वेश्वरशक्तिबीजसम्भूता शाखयोर्द्वयी परमात्मशक्तेः उत्पन्नौ मनः प्राणौ शाखाद्वयौ भवतः । मनसः ज्ञानशक्तिप्राधान्येन प्राणस्य क्रियाशाखात्वम् । एतादृशविभागद्वयस्य अनादिमायाशक्तिः एव मूलं न परमात्मा । तस्य स्वतो मनःप्राणशून्यत्वेन असङ्गत्वेन च प्राणमनो विभागजनकत्व असम्भवात् । ज्ञानक्रियाशक्ति-अधिष्ठितात् सृष्टिस्थितिसंहारशक्तिज्ञानवत्तया उपचितात् ब्रह्मणः मनः प्राणानां सृष्टिः श्रूयते । हृदयं एव प्राणमनसोः उत्पत्तिस्थानं भवति । हृदि एव च आत्मज्योतिः प्रकाशते । ``हृदि अन्तर्ज्योतिः पुरुषः'' ``आत्मनः एष प्राणो जायते'' ``एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च'' ``दश इमे पुरुषे प्राणाः'' इत्यादि श्रुतिभ्यः । हृदि अन्तस्थं आत्मज्योतिश्च सूक्ष्मस्थूलतारतम्यक्रमेण परम्परया हृदयादिकं कार्यकरणसङ्घातं च चैतन्यज्योतिः शूरितं करोति । (शूरीकृ/ शूरी- प्. -करोति, to turn into a hero) तत्र चित्तं अतिस्वच्छद्रव्यं आदर्शवत् आत्मनः अतिसमीपवर्तित्वेन प्रथमं आत्मचैतन्यव्याप्तिमद् भवति । एतेन एव चित्तं आत्मा इति बहवः प्रतिपन्नाः । चित्तं एव अन्तःकरणं भवति । तच्च नास्ति इति वक्तुं न पार्यते । कर्मेन्द्रिय-बुद्धीन्द्रियासम्भावितया कामसङ्कल्पविक्रियायाः अभ्यूहितुं शक्यत्वात् । अन्तः करणस्य कस्यचिद् अभावे श्रोत्रादिबाह्यकरण विषयसम्बन्धे सत्यपि पुरोवस्थितविषयं पुरुषो न गृहीतुं शक्नोति । ``अन्यत्रमना अभूवन् अश्रौषं इति व्यवहारदर्शनात् । तस्मात् यस्य असन्निधानात् शब्दादिग्रहणसमर्थस्य अपि श्रोत्रेन्द्रियादेः स्वस्वविषयसम्बन्धे सत्यपि शब्दादिविज्ञानं न जायते, यस्य सन्निधानात् च भवति, तादृशं श्रोत्रादि-इन्द्रियव्यतिरिक्तं चित्तं नाम अन्तःकरणं श्रोत्रादि-इन्द्रियसम्बन्धि इति स्वीकार्यम् । तच्च एकं अपि वृत्तिभेदात् अनेकं भवति । मननात् मनः इति,अभिमानात् अहङ्कारः इति, निश्चयात् बुद्धिरिति, स्मरणात् चित्तं इति च आख्यायते । तत् स्वतः तु एकं एव । तात्त्विकभेदे प्रमाणाभावात् । एवं च अहङ्कारादिषु आत्मचैतन्यावभासनं आनन्तर्यात् आपतति । ततश्च इन्द्रियादिषु ततः शरीरे । एवं प्राणादिकेषु अपि तदा आत्मज्योतिषो व्याप्तिः अस्ति । अन्यथा जाग्रदादिषु प्राणस्फूर्तेः असम्भवात् स्वतः प्राणस्य जडत्वात् । एवं च ज्ञानेन्द्रियपञ्चकं भूतपञ्चकं अन्तः करणचतुष्टयं प्राणादिपञ्चकं अविद्याकामकर्मादिकं सर्वं अपि पारम्पर्येण चैतन्यज्योतिषा अवभास्यते । इमं एव आशयं आह भगवद्गीता यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ इति रूपादिविषयपञ्चकव्यवस्थानुगुण्येन चक्षुरादीनि ज्ञानेन्द्रियाणि पञ्च सिद्ध्यन्ति । तथा वचनादिकार्यपञ्चकव्यवस्थानुगुण्येन वागादि-इन्द्रियाणि पञ्च सिद्ध्यन्ति । एवं सामान्यकरणभूतं चित्तं अपि । एवं प्राणविभागेपि चैतन्यस्य सम्बन्धः वर्तते । परन्तु स्वापे प्राणे जाग्रति सत्यपि चैतन्य-अननुभवात् अप्राधान्यं बोध्यम् । संहतत्वात् अचेतनत्वात् भौतिकत्वात् च चक्षुरादिवत् आत्मोपभोगकरणं एव प्राणः । स च अध्यात्मं पञ्चव्यूहो भवति । व्यूहश्च कार्यवशात् एव भवति । तत्र हृदयजन्या मुखनासिकाभ्यां सञ्चरमाणा वृत्तिः प्रणयनात् प्राणः । मूत्रपुरीषादि-अपनयनात् अपानः , वीर्यवत्कर्मकरणहेतुः प्राणापानसन्धिस्थः व्यायमनात् व्यान उच्यते । उदान ऊर्ध्वगमनादिहेतुः आपादतलमस्तकव्याप्तः ऊर्द्ध्ववृत्तिः । भुक्तपीतान्नस्य समं नयनात् अन्नपक्ता समानः । एतेषां वृत्तिभेदानां सामान्यभूता चेष्टा अभिधेया वृत्तिः दशेन्द्रियवृत्ति-अपेक्षया भिन्नः प्राणाख्या भवति । यथा मनसः चक्षुरादि-इन्द्रियजन्यपञ्च वृत्तयो भवन्ति तथा प्राणस्य अपि पञ्चवृत्तयो भवन्ति । चक्षुरादि-इन्द्रियेषु मनसः इव प्राणस्य अपि सम्बन्धो वर्तते । अतः एव श्रुतिषु एकादशप्राणाः इति प्राणपदेन मन-आदिनां अपि व्यवहारः दृश्यते । प्राणनिरोधस्य मनोनिरोधहेतुत्वं सम्भवति इति भावः । वृत्तिभेदापेक्षया पुरुषभेदापेक्षया वा चित्तवायव इति बहुवचनम् । शक्तिः एव मूलकं यस्याः इति विग्रहे समासात् उत्पन्नस्य टापः सुपः परत्वात् ``प्रत्ययस्थात् कात् पूर्वस्य अत इदाप्यसुपः'' (७-३-४४) इति इत्वस्य अप्रवृत्तिः । बहुपरिव्राजकाः इति वत् ॥ १२॥ एवं अविद्याशक्तिशाखाद्वयभूतयोः प्राणमनसोः प्राणरोधेन मनोरोधनसम्भवेपि पुनः उद्भवः स्यात् इति आह- लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ १३॥ लयेति । उभययोः चित्तवाय्वोः रोधने निग्रहे सति लयविनाशने फलभूते सम्भवतः । प्राणनिरोधेन मनोलयो भवति । मनोवृत्तिनिरोधे मनोविनाशो भवति । तत्र प्राणरोधेन लयगतं मनः पुनः उद्भवति । मृतं न भवति । सकलमनोवृत्तीनां वासनामात्रशेषतया निरोधः एव लयः । मनसो वासनानाशः एव नाशः । सर्ववृत्तिनिरोधरूप-आयामसंप्रज्ञातसमाधौ वासनाया अविनाशेन पुनरपि मनसो व्युत्थानं सम्भवति । अध्यात्मविद्याधिगमेनैव मनोगता वासना विनश्यति । तदानीं मनोमृतं न पुनरुद्भवितुं अर्हति । भर्जितबीजवत् पुनः उद्भवशक्तेः ज्ञानाग्निना दग्धत्वात् । चित्तवृत्तिनिरोधात्मक-योगमार्गस्य अपि साक्षात्कारसाधनत्वं विचारमार्गस्य एव सम्भवति इति वासिष्ठादौ प्रपञ्चितम् - द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ असाध्यः कस्यचिद्योगः कस्यचित्-तत्त्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमःशिवः ॥ इत्यादिना । एतयोर्द्वयोः प्रथमं प्रपञ्चसत्यत्वादिनो हैरण्यगर्भाद्याः संप्रतिपेदिरे तन्मते चित्तवृत्तिनिरोधः एव चित्तरहितसाक्ष्यात्मसाक्षात्कारं प्रति हेतुः । असंप्रज्ञातसमाधौ सर्ववृत्तिनिरोधरूपायां या चितिशक्तिप्रतिष्ठा सा एव कैवल्यम् । औपनिषदाः तु श्रीभगवत्पादमतानुसारिणः द्वितीयं विचारमार्गं प्रतिपेदिरे । सर्वाधिष्ठानसाक्षिचैतन्यसाक्षात्कारे विचारेण जनिते तादृक्चैतन्य अध्यस्तस्य चित्तस्य सर्वस्य दृश्यस्य प्रपञ्चस्य वा प्रतिभासाभावः साक्षात्कारवशात् अनायासेन एव सिद्ध्यति । साक्षात्कारेण एव चित्तादिदृश्यप्रतिभास-अभावस्य सिद्धत्वेन तेषां चित्तवृत्तिनिरोधरूपयोग-अपेक्षा नास्ति । गुरुशास्त्रमुखात् स्वस्वरूपविचारणेन एव चित्तगताः कामक्रोधादयः दोषाः सर्वेऽपि विनश्यति । अतः तदर्थं अपि तेषां न योगापेक्षा विद्यते । अतः एव तैत्तिरीयोपनिषदि ``तपसा ब्रह्म विजिज्ञासस्व'' इति वरुणेन पुत्रस्य भृगोः पुनः पुनः विचाराख्यं तपः एव ब्रह्मसाक्षात्काराय उपदिष्टं इत्युक्तम् ॥ १३॥ उभयरोधनप्रयुक्तयोः लयविनाशयोः पुनः अनुद्भवहेतुं विशदीकर्तुं आरभते । प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ १४॥ प्राणबन्धनात् इति । प्राणबन्धनात् प्राणनियमात् लीनं लयगतं मानसं एकचिन्तनात् एकवस्तुध्यानात् अदः नाशं एति । नश्यति इत्यर्थः । प्राणनिरोधेन मनसो लयमात्रं भवति न तु विनाशः । स तु एकतत्वचिन्तनात् एव भवति । तथाहि - चित्तं रजस्तमोवशात् प्रतिक्षणं परिणामि द्रव्यम् । ``प्रतिक्षणपरिणामिनो हि भावाः ऋते चितिशक्तेः'' इति न्यायात् । प्रदीपज्वालासन्तानवत् कामसङ्कल्पादि वृत्तिरूपेण निरन्तरं परिणममानस्य चित्तस्य वृत्तिरूपपरिणामत्यागेन निरोधाकारपरिणामः एव मनसो लयः इत्युच्यते । मनसो वृत्तिरूपः परिणामश्च प्राणस्पन्दाधीनः एव भवति । ``प्राणबन्धनं हि सोऽस्य मनः'' इत्यादिश्रुतेः । अतः प्राणस्पन्दनिरोधात् चित्तस्पन्दो निगृहितो भवेत् । किन्तु पुनः प्राणे चलति चित्तं अपि निरोधावस्थां विहाय स्पन्दितुं आरभते । प्राणनिरोधस्य असार्वदिकत्वात् । अतः प्राणनिरोधः मनसो धारणादि-उपरितनभूमिकासु योग्यतासम्पादकः एव भवति । इदं एव प्राणायाम-प्रतिष्ठाफलतया भगवान् पतञ्जलिः अपि ``ततः क्षीयते प्रकाशावरणम्'' । धारणासु च योग्यता मनसः इत्यादिना प्रतिपादयामास । प्राणपरिस्पन्दाधीनचित्तपरिस्पन्दात् एव चितिशक्तेः परिस्पन्दो जायते । तेनैव च संसृतिरनुभूयते । मूलप्रकृतिभागभूतैः सत्वरजस्तमोगुणैः सम्पन्नस्य चित्तस्य संसर्गात् एव चित्तसंसरणम् । स्वतः चित्तः कूटस्थनित्यत्वेन अपरिणामित्वात् । चित्तात् विविक्तं चित्ज्ञानं एव पुरुषार्थः इति साङ्ख्यपाताञ्जलाः अभिमन्वते । चित्तचितिशक्त्योः किल संयोगः एव संसारनिदानम् । तस्य च अविवेकाख्या अविद्या एव हेतुः भवति । सा च तयोः विवेकाख्यात्या निवर्त्यते । तन्निवृतौ तद् हेतुकः सम्योगो अपि निवर्तते । तन्निवृतौ च तद् हेतुकः संसारः अपि निवर्तते । तदुक्तं पञ्चशिखाचार्यैः - ``तत् संयोगहेतुविवर्जनात् स्यात् अयं आत्यन्तिको दुःखप्रतीकारः'' इति । एवं च चेतनस्य अपरिणामित्वात् न साक्षात् बन्धमोक्षौ सम्भवतः । गृहीतचित्प्रतिबिम्बस्य चित्तस्य एव बन्धमोक्षौ । यथा योधेषु वर्तमानौ जयपराजयौ राजनि उपचर्येते, तथा चित्ते वर्तमानौ बन्धमोक्षौ चेतने अतिदिश्येते । चेतनस्य भोगापवर्गौ च साधयितुं प्रकृतिरेव प्रकृत्या प्रवर्तते इति एवं साङ्ख्यानां सिद्धान्तः । तस्मात् चित्ताख्यं त्रिगुणात्मकं प्राणस्पन्दनिरोधात् निगृहीतं अपि वासनावशात् पुनः उद्गच्छेत् । तस्य पुनः अनुद्भवार्थं एकचिन्तनं एव निदानम् । अयं भावः । प्राणायामः दृढाभ्यासेन निरुद्धं चित्तं प्रत्याहार-धारणा-ध्यान-समाधियोग्यं भवेत् । तच्च पञ्चावस्थं भवति । क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धं चेति । तत्र विषयेषु आसक्तं क्षिप्तम् । कदाचिद् विषयासक्तम्, कदाचिद् ध्यानासक्तं विक्षिप्तम् । निद्रा-तन्द्रादिग्रस्तं मूढम् । एकाग्रं तु एकविषयकधारावाहिकवृत्तिसमर्थम् । निरुद्धं सर्ववृत्ति उपरमावस्थम् । एतेषु विक्षिप्तभूमौ ध्यानं कदाचित् वर्तमानं अपि प्रवातमध्यस्थप्रदीपवत् विनश्येत् । एकाग्रावस्थायां संप्रज्ञातसमाधिसिद्धिः । ध्येयाकारवृत्तिमात्रं अस्यां अवस्थायां प्रतिभासते । तस्या अपि निरोधे असंप्रज्ञातसमाधिसिद्धिः । अस्यां भूमौ आत्मसाक्षात्कार-उदयो भवेत् । एक-चिन्तनं इत्येनेन संप्रज्ञात-असंप्रज्ञातसमाधिद्वयं विवक्षितम् । अतः मनोनाशसाधनं समाधिद्वयं सम्पादनीयं इति भावः । तादृशसमाधिलाभं प्रति एकतत्त्वाभ्यास वैराग्ययोःएव मुख्यहेतुत्वं तैर्थिकाः समानन्ति । एवं प्राणस्पन्न्दनिरोधस्य अपि लम्बिकायोगादिकं साधनं उपदिशन्ति । सर्ववृत्तिनिरोधावस्थायाः असंप्रज्ञातसमाधेः अपि वासनाक्षयार्थं पुनः पुनः अभ्यासः कर्तव्यः । एवं अभ्यासपरिपाकेन एकवस्तुज्ञानं जायते । ततश्व आत्यन्तिक-चित्तनाशः । प्राणबन्धनक्रमोपदेशात् हठनिग्रहो अनभिमतः इति विज्ञायते । मनस्थानस्य हृदयस्य चक्षुरादिगोलकवत् हठेन ग्रहीतुं अशक्यत्वात् । क्रमनिग्रहक्रमश्च वासिष्ठादौ विस्तरशः वर्णितः । ``अध्यात्मविद्याधिगमस्साधुसङ्गम एव च । वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ॥ एताः ताः युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ '' इत्यादिना । यथा दुर्दान्तः मत्तङ्गजो विनाङ्कुशेन नियन्तुं न शक्यते, तथा दुर्निग्रहं चित्तं सद्गुरूपदिष्ट-सद्युक्तिं विना नियन्तुं न शक्यते । तत्र अध्यात्मतत्त्वसाक्षात्कारः प्रथमः उपायः । यस्तु विद्यादिमदेन साधुसङ्गं न कर्तुं अभिलषति, तस्य प्राणस्पन्दनिरोधः उपायः । प्राणस्पन्दनस्य चित्तस्पन्दं प्रति हेतुत्वं पूर्वमुक्तम् । अतः तन्निरोधे चित्तशान्तिसम्भवात् । तदुक्तं - ``द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ ``चित्तं प्राणपरिस्पन्दमाहुः आगमभूषणाः । तस्मिन्संरोधिते नूनं उपशान्तं भवेन्मनः ॥ '' इति । एतावता प्राणनिरोधार्थं अभ्यासः एव कारणम् । मनोवासनानाशार्थं वैराग्यं इति उक्तं भवति । यथाहि तीव्रवेगोपेतं नदीप्रवाहं मृद्-दार्वादिसेतुबन्धेन निरुध्य कूल्य (belonging to a bank)-अप्रणयनेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरवत् कुरुते तथा वैराग्येण चित्तनद्या-विषयप्रवाहं निरुध्य एकवस्तुचिन्तनेन शान्तेन प्रशान्तवाहिता सम्पाद्यते इति क्रमनिग्रहः सुकरः इति महर्षेः हृदयम् । अमुं आशयं योगसूत्रभाष्ये व्यासाचार्याश्च ``चित्तनदीनाम-उभयतोवाहिनी । वहति कल्याणाय वहति पापाय च'' इति निरूपयामासुः । एकचिन्तनाभ्यासः च सुचिरं उद्वेगं अन्तरानुष्ठेयः । ``जन्मान्तर शताभ्यस्ता राम ! संसारवासना । सा चिराभ्यासयोगेन न विना क्षीयते क्वचित् ॥ '' इति ॥ १४॥ एवं सुचिराभ्यासे सति नष्टं मनो भवति । नष्टे च मनसि वासनाजनकबाह्यनिमित्त-अभावात् वासना अपि क्रमेण क्षीयते । क्षीणायां च वासनायां प्रतिबन्ध-अभावात् आत्मज्ञानं उदेति । ततः कृतकृत्यत्वं भवति इत्याह - नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥ नष्टेति । नष्टं मानसं यस्य सः नष्टमानसः स च असौ उत्कृष्टयोगी च इति । तस्य मनोनाशसम्पादनेन उत्कृष्टस्य योगिनः, मनोनिरोधमात्रं कृतवतो योगिनोऽपरमत्वं अभिहितम् । अतः एव स्वस्थितिं स्वात्मनि स्थितिं यतः प्राप्तस्य कृत्यं कार्यं अस्ति किम् ? नास्ति इत्यर्थः । कृतकृत्यत्वं भवति इति भावः । यद्वा विषयप्रवणं मनः पूर्वोक्त तत्त्वाभ्यासेन प्रत्यक्प्रवणतासम्पादनद्वारा विनाशं प्रापितवतः स्वनिष्ठस्य योगिनः किं कुत्सितं कृत्यं अस्ति इति काकुः ।(change of the voice under different emotions) तादृश योगिश्रेष्ठे विधिनिषेधशास्त्रं न प्रभवति । लोकानुग्रहार्थं कर्म कुर्वन् अन्यथा कुर्वन् वा, स न हीयते इति भावः । ``यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥ '' ``आत्मलाभान्नपरं विद्यते''। ``यल्लाभान्नापरो लाभः'' इत्यादि श्रुतिस्मृतेः । मनोनाशं अकृतवतः अयोगिनः अस्वस्थत्वेन स्वास्थ्यलाभाय कृत्यमस्ति एव । अकृतकृत्यत्वात् तस्य । एतेन योगिनः जीवन्मुक्तिप्रापकत्वस्य शास्त्रसम्मतत्वात् ॥ १५॥ एवं योगिनां कृतकृत्यं उपदिश्य तेषां एव तत्त्वसाक्षात्कारप्राप्तिद्वारा निरतिशय-आनन्दरूपदृष्टमहाफलं उपदिशन् योगप्रकरणं उपसंहरति - दृश्यवारितं चित्तमात्मनः । चित्वदर्शनं तत्त्वदर्शनम् ॥ १६॥ दृश्येति । दृश्यवारितं दृश्येभ्यः वारितं परावर्तितं चित्तं एव आत्मनः चित्वदर्शनं भवति । दृश्यसंविलितं चित्तं योगाभ्यासेन दृश्यवियुक्तं यदा भवति तदा तच्चित् भवति । चित्वमेव चित्तस्य यथार्थस्वरूपम् । अतः चित्तसम्बन्धि चैत्यपरिमार्जनं एव चित्त्वदर्शनम् । चित्तं जडं स्वतः अन्यत् साधयितुं न समर्थं भवति । अतः स्वसिद्धये स्वविषयसिद्धये च, स्वसाक्षीभूतं स्वप्रकाशचिद्रूपं वस्तु समालम्बते । ततः च चिद्-अधीनजीवितं चित्तं असद् एव । स्वसाक्षिणं परमात्मानं विस्मृत्य चित्तं दृश्याकारं जीवति । यदि पुनरपि परमात्मस्मृतिं प्राप्नोति तदा चित्तत्वं परित्यज्य चित्तं चित्वं प्राप्नोति । तथा च चित्तात् चैत्यपरित्यागः एव अन्ततः चिन्मात्रता पर्यवसन्ना भवेत् । इदं एव तत्त्वदर्शनम् । चित्तरहितः चित्वदर्शनस्य एव परमार्थत्वात् । तथा च उक्तम्- ``चित्स्वभाव परामृष्टा स्पन्दशक्तिः असन्मयी । कल्पना चित्तिमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥ चित्तमित्येव रूढोऽयं यदैव कलनोदिता । तदैव चित्वं विस्मृत्य सा जडेव व्यवस्थिता । दृश्याऽसम्भवबोधेन मनसो दृश्यमार्जनम् । सपन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः ॥ '' इति । निर्वाणनिर्वृतिः इति अमनस्कस्य योगारूढस्य निरतिशय-आनन्दप्राप्तिः अभिहिता । अर्थमनर्थं अन्यत्र अपि उक्तः । ``समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तत् यदेतद्-अन्तःकरणेन गृह्यते ॥ '' इति गीतायां अपि ``प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ '' इत्यादिना । अचित्तत्वं एव मुक्तिः । अतः तदेव आसादनीयं इति भावः ॥ १६॥ एतावता योगाभ्यासमार्गेण मनोनाशः उपदिष्टः । इदानीं विचारमार्गेण तन्नाशं आह - मानसन्तु किं मार्गणे कृते । नैव मानसं मार्ग आर्जवात् ॥ १७॥ मानसमिति । मानसं तु किं ? मनसः स्वरूपं किं इति मार्गणे विमर्शे कृते मानसं नैव विद्यते । तु शब्दः पूर्वोक्तयोगाभ्यासक्रमापेक्षया विचारमार्गस्य व्यतिरेकद्योतनार्थः । तु शब्द सूचितं व्यतिरेकं एव विशदयति-मार्गे इति । मार्गे विचारः मार्गे आर्जवात् ऋजुभावस्य विद्यमानत्वात् इत्यर्थः । सङ्कल्पविकल्पादिवृत्तिमत्त्वं मनसः स्वरूपं । सर्वशक्तेः मायाशबलस्य आत्मनः समुत्पन्नं भावनामात्रं एतत् भवति । तच्च चिदचित् उभयसंवलनरूपत्वात् न एकतरं रूपः भजति । परमार्थतः तु ``मन्वानो मनः'' इति ``तान्येतानि कर्मनामधेयानि'' इति श्रुतौ आत्मनः कर्मप्रयुक्त-नामधेयेषु मनस्-शब्दपरिगणनात् चेतन आत्मा एव मनो अविद्या-उपाधिवशात् अचेतनतां उपगच्छति । अतो नचित् अपि अचित् न सत् न अपि असत्-मनः इति चिदचिद्विलक्षणं सदसदुभयविलक्षणं च भवति । एवं चलनस्वभावत्वं अपि तस्य औपाधिकं एव । तथा च तच्छैलूषवत् थे लेअदेर् ओफ़् अ बन्द् , ओने व्हो बेअत्स् तिमे) क्रियानिमित्तानि नानानामरूपाणि अहङ्कारचित्तबुद्धिजीवादीनि धत्ते । यथा पचनात् पाचकः इति, पठनात् पाठकः इति, कर्षणात् कृषिकः इति,आधिपत्यात् अधिपतिः इति च विचित्रक्रियाकरणाद् एकः एव नरो नानाशब्दप्रत्ययभाक् भवति तथा मनोपि कर्मवशात् तानि नानानामानि धत्ते । वस्तुतः तु मनः एकं एव । मनसः कर्मैवेदं देहेन्द्रियादिकं सर्वं जगत् । तद्भावे भावात् तदभावे च अभावात् । बन्धमोक्षौ अपि मनः आयत्तौ एव । ``मन एव मनुष्याणां कारणं बन्ध मोक्षयोः । '' ``बन्धाय विषयासक्तं मोक्षे निर्विषयं स्मृतम्'' इत्यादि श्रुतेः । अतः मनोनिरोधमात्रेण बाह्याभ्यन्तरकृत्स्नबन्धनिवृत्तिः सिद्ध्यति । तन्निरोध-उपायश्च प्राणस्पन्दनिरोधः प्राक् उक्तः । स च धारण असाधकतया प्राणस्य दीर्घसूक्ष्म-एकाग्रतां जनयति इति समाधेः बहिरङ्गः एव । एकचिन्तनरूप-संप्रज्ञातसमाधिप्राप्तिद्वारा मनोनाश-सम्पादनं अनृजुः क्लिष्टश्च पन्थाः । मनसः स्वरूपं कीदृशं इति मनस्सत्त्वविचारो ऋजुः पन्थाः । मनोभ्रान्तिकृतत्वात् बन्धप्रत्ययस्य तन्निर्णयाय एव प्रयत्नः कार्यः । यस्य बन्धप्रत्ययप्रयोजकता तस्य परित्यागेन एव तन्निवृत्तिः स्यात् । ``सारभे तच्चिकित्सया निदानपरिवर्जनम् । '' इति च आयुर्वेदविदां समयः । न हि रोगनिदानापथ्याशनादिरोगतत्त्वनिर्णय-अभावे तच्चिकित्सायै प्रयत्नः सङ्घटेत । मनः तत्त्वे च विचार्य निर्णीते मनः शशविषाणवद् असत्कल्पं पर्यवस्यति । अतः अविचारद्वैतभावनामात्रसिद्धस्य मनसो विचारजन्यज्ञानमात्रात् लयसिद्धिरिति विचारः कार्यः इति भावः । तथा च उक्तम् - ``जडत्वात्-निस्वरूपत्वात् सर्वदैव मृतं मनः । मिथ्या सङ्कल्पकलितं मिथ्यावस्थितिमागतम् । अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता । अहो नु खलु चित्रेयं मायामय विहायसि'' ॥ इति । अत्र उदाहरन्ति इमं इतिहासम् । आसीत् कश्चन जामातृ प्रियसखः । स च वितते कस्मिंश्चित् विवाहमहोत्सवे जामातुः स्निग्धोहम् (affectionate, friendly, attached) इति वदन् जामात्रा साकं प्रविष्टवान् । ततश्च जामातृसखस्यापि कन्यासम्बन्धिनः अर्हणानि कारयामासुः । जामातरि निरतिशयविश्वासेन प्रियहितं इव भासमानं अमुं प्रति कन्यासम्बन्धिनः वरसम्बन्धिनः वा ``कोऽयम्'' , ``कुतो वाऽगतः'' ``किं एवं भोगान् भुङ्क्ते'' इत्यादिकं न विचारयामासुः । कन्यासम्बन्धिनः जामातृपक्ष्योऽयं कश्चित् स्यात् इति वितर्कयामासुः । वरसम्बन्धिनश्च कन्यापक्ष्योऽयं कदाचित् स्यात् इति निर्णयाम्बभूवुः । अयं च भोगान् भुङ्क्ते । उभयपक्षीयान् अधिक्षिपति । सर्वकार्यनिर्वाहे स्वातन्त्र्यं आवहति । उच्चावचं चेष्टते । एवं बहुतिथे काले विगलिते वितर्कशङ्काकुलाः ते कोऽयं एवं एवं वल्गति इति विचारयितुं आरभन्त । जामातृनिकटं आगत्य ``तवाप्तो वाऽयम्'' इति अपृच्छन् । ``न मम अयं आप्तः किं तु युष्माकं आप्तः स्यात् इति निश्चेयं अहम्'' इति जामाता प्रत्यवदत् । ते च अस्मद् आप्तः बन्धुः वा नायं इति प्रत्यवादिषुः । एवं एतेषां स्वतत्वविचारप्रवृत्ति उन्मुखतां इङ्गितेन अभिज्ञाय ``न इतः परं अत्र अवस्थातुं अस्माभिः न शक्यम्'' इति मनसि मन्वानः तान् अनापृच्य एव यत्रक्वापि जामातृसखः पलायितः इति । अतः जामातृसखवत् मनः अपि अविचारदशायां अधिकरोति । विचार्यमाणे मनः तत्त्वे चिदचिदुभयपक्षेपि असम्भवात् तन्नास्ति एव अलीकवत् इति भावः ॥ १७॥ ननु मनसो अलीकवत् असत्वे प्रतियोगिप्रसिद्धेः अभावात् निषेद्धुं विचारयितुं वा नैव शक्यते इति आशङ्क्य अविचारदशाप्रसिद्धां मनस्थितिं लक्षणप्रमाणाभ्यां उपवर्णयति - वृत्तयस्त्वहं वृत्तिमाश्रिताः । वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥ वृत्तय इति । वृत्तयो मनः इति मनसः लक्षणम् । कामसङ्कल्पादिवृत्तयः अनन्ताः । वृत्तयः सङ्कल्पाः उच्यन्ते । न तद् अतिरिक्तं मनसः तत्त्वं अस्ति । ताः च जडा अपि चित्सम्बन्धात् तप्तायगोलकवत् चेतना उपलक्ष्यन्ते । एताश्च वृत्तयो देहादि-अभिमानाख्यं अहङ्कारं आश्रित्य विजृम्भन्ते । मिथ्याभूतदेहादि-अभिमानेन निमित्तेन प्रथमं उत्थीयमाना वृत्तिः एव अहङ्कारः इति भण्यते । सा च सर्वानर्थहेतुत्वात् भवबन्धिनी । परमार्थः तु जडाजडयोः अज्ञानतत्साक्षिणोः अन्तराळिकं साभासं तत्त्व अन्तःकरणं एकं एव जीव-बुद्धि-मनः-चित्त-अह्ङ्कारादि नानानामभिर्व्यवह्रियते । जीवनात् जीवः इति देहादौ अहं अभिमानात् अहङ्कारः इति निश्चयात् बुद्धिः इति सङ्कल्पात् मनः इति स्मरणात् चित्तं इति च अज्ञानांशेन प्रकृतिः इति च एकं एव तत्त्वं औपाधिकनानासंज्ञाभिः श्रौतानां प्रक्रिया । तत्त्वदर्शिभिः व्यासादिमुनीन्द्रैरपि अन्तःकरणतत्वं एवमेव व्यवस्थापितम् । गौतमादिकृततन्त्रानुसारिणः तु स्वस्वबुद्ध्यनुसारेण अहङ्कारादि अन्तःकरण तत्त्वं अन्यथा अन्यथा व्याचक्षते । तत्र गौतमीयाः अहङ्कारः द्रव्यविशेषः विभुः जीवः । तत्ज्ञानकारणं मनो अणुप्रमाणम् । बुद्धिः तु जीवगुणः । सा च अत्रिक्षणावस्यायिनि इति वर्णयन्ति । सङ्ख्याश्च मूलप्रकृतिकार्यभूता बुद्धिः महतत्वम् । अहङ्कारः च तत्काअर्यः तत्त्वान्तरम् । मनः तु एकादश-इन्द्रिय-अन्तर्गतं इति सिद्धान्तयन्ति । जैमिनीयमतानुसारिभिः च कैश्चित् मनो विभुद्रव्यं इति । अन्यैश्च अन्नमयं इति । अहङ्कारश्च जडज्ञानोभयात्मकः । स एव जीवात्मा । तस्य चिदंशो बुद्धिः इति निरूपयन्ति । पाञ्चरात्रं अतीयैः च वासुदेवाख्यात् परमात्मनः सङ्कर्षणाख्यः जीवः सः एव अहङ्कारः तस्मात् प्रद्युम्नाख्यं मनः ततो अनिरूद्धाख्या बुद्धिः च आजायते इति सङ्गिरन्ते । चार्वाकाः च कायस्य चैतन्यगुणो यः सः एव बुद्धिः । कायः एव अहङ्कारः स एव आत्मा । तस्य पूर्वापरपरामर्शः मनः इति वदन्ति । आर्हतैः च मध्यमपरिमाणः चिद्रूपः जीवाः अस्तिकायः एव अहङ्कारः । तस्य विषयाभिलाषः मनः । विषयविज्ञानं च बुद्धिः इति व्यवस्थाप्यते । बौद्धः तु आलयविज्ञानधारा क्षणिकी बुद्धिः । स एव आत्मा । अहङ्कारश्च प्रवृत्तिविज्ञानात्मकः । बुद्धेरेव बाह्यविषयाकारपरिणामः मन इति निश्चीयते । एताः च वादिविकल्पनाः स्वकपोलकल्पिताः प्रमाणमूर्धन्य-उपनिषद्सम्मताः न भवन्ति । अतः एव भगवान् श्रीरमणः प्रामाणिकं औपाधिकं संज्ञाभेदं वृत्तयो मनः इति प्रथमं अङ्गीकृत्य विद्धि अहं मनः इति पश्चात् एकत्वं उपदिशति । अतः अहन्त्वं एकं एव आस्ते । वृत्तयो द्विविधा भवन्ति । अहंवृत्तिः इदंवृत्तिः इति । बुद्धीन्द्रियादि सर्ववृत्तयः इदंवृत्तौ अन्तर्भूताः । इदमाकारवृत्तीनां सर्वासां अहमाकारवृत्ति एव मूलस्कन्धः । प्रथमत्वात् । अज्ञानतादात्मनः चित्तः देहादि-अभिमानी अहङ्कारः एव प्रथमं उदेति । तद् अनन्तरं चित्त बुद्ध्यादि-दृश्यसंवेदनात्मिका इदंवृत्तयः प्रादुर्भवन्ति । उत्तमपुरुष-अभावे न प्रथम मध्यमौ सम्भवतः । अतः अहङ्कार एव सर्वस्य मायामयस्य प्रपञ्चस्य मूलप्रदेशः । अहङ्कारस्य इदंवृत्तिषु अभिमानः एव ममता इति निरुच्यते । विचारेण अहङ्कारत्यागे ममतात्यागः सुलभः भवति । अतः अहं अर्थविचारः कर्तव्यः ॥ १८॥ ननु अमूर्तत्वेन अहङ्कारस्य कथं दाहः वा त्यागः वा सम्पादयितुं शक्यते इति आशङ्कायां अहंवृत्तिमूलस्थान-अन्वेषणाख्यविचारजनितस्वात्मसंवित्-बलेन तद्दाहः अतिसुकरः इत्याह - अहमयं कुतो भवति चिन्वतः । अयि पतत्यहं निजविचारणम् ॥ १९॥ अयमहमिति । अहंवृत्तिरूपोऽहङ्कारः कुतः कस्मात् उद्भवति उद्गच्छति इति चिन्वतः विचारयतः पुंसः अयं अहङ्कारः पतति तद् उत्पत्तिस्थाने विनश्यति । इदं निजविचारणं आत्मविचारः इत्यर्थः । अयि इति विचारसुकरता-द्योतनार्थं शिष्यं प्रति अनुनयोक्तिः । तदुक्तम् - ``राजन् ! स्वात्मविचारोऽयं कोऽहं स्यां इति रूपभृत् । चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः ॥ इति अयं भावः - यथा अहम्भावलक्षणात् कारणात् मन-आदिलक्षणस्संसार-अङ्कुरो जायते तथा अहम्भावस्य अपि कारणं ``किम्'' इति शास्त्रप्रमाणतः विचारणीयम् । ततश्च चिद्रूपः आत्मा एव तत्कारणं इति निश्चीयेत । देहादि-अहङ्कारान्ताः सर्वे अपि अध्यात्मिका अर्थाः च अनृताः अनात्मानः । अतः तेषां स्वतः सेद्धुं अशक्यत्वात् तद्-विलक्षण-आत्म-अध्यासात् सिद्धौ मिथ्यात्वं उपगन्तव्यम् । संविद्रूपः आत्मा मूषानिषिक्त-द्रुतताम्र इव शरीरादि-आकारेण अहं इति प्रतिभासते । शरीरादौ अहन्त्ववेदनं च न वास्तवम् । अमूर्तस्य मूर्तदेहादिसम्बन्धस्य वास्तवत्व असम्भवात् । एवं देहादौ अहं इति तादात्म्य-अभिमानलक्षणस्य अहमः कारणं किं इति विवेकदशा पर्यालोचनीयम् । अन्ततः अहन्त्वं असत्कल्पं विनश्यति । इदंवृत्तिपरित्यागेन अहम्वृत्तेः मूलस्थाने मार्गिते सापि कतकरजोवद् हि नश्यति । देहेन्द्रियादिषु अभिमानाख्य अहङ्कारवृत्तिविनाशे अनहन्ता स्यात् इति इदं एव आत्मविचारणं इति । तथा च वासिष्ठे - ``नाहन्त्वं लभ्यते राम ! बुद्ध्या सम्यङ् निएरीक्षताम् । असदेव कुतोप्येतत्-बाह्यलक्ष इवोदितम् ॥ '' ``कोहं कथमिदं चेति विचारेणैव नश्यति । नाहमित्येव निर्वाणं किमेतावति मूढता ॥ '' इति । ``कोहं कथमिदं दृश्यं को जीवः किं च जीवनम् । '' जीवितं भुवनं वापि ततोऽहमिति नश्यति ॥ '' इति च । ``यदा यदा देहादौ अहम्भावोदयः स्यात् तत्समकालं एव तत्र तत्र अनहन्त्वबुद्धिः उत्पादनीया । एवं पुनः पुनः सावधानं उपस्थापितेन अनहम्भावभावनेन अहम्भावविनाशः कर्तव्यः इति भावः ॥ एवं अहमः मूलास्थान-अन्वेषणेन अहन्ताविनाशकथनेन जगन्नाशः अपि सूचितः । अहन्तामूलत्वात् जगतः । पूर्वं समाधि-अभ्यासेन मनोनाशः ``नष्टमानसोत्कृष्टयोगिनः'' इति अत्र कथितः इति भेदः ॥ १९॥ ननु लोके अहङ्कारस्य आत्मतया प्रसिद्धत्वात् तन्नाशे स्वात्मनाशापत्या नैरात्म्यापत्तिः स्याद् इति शङ्कायां आह - अहमि नाशभाज्यहमहन्तया । स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥ अहमिति । अहमि अहङ्कारे नाशभाजि सति कोऽहं कुतोऽहं इति विचारजनितसाक्ष्यहङ्कारविवेकविज्ञानेन समूलकाषं कषिते सति हृत् सर्वोपसंहाराधिष्ठानं परमपूर्णसत् निरतिशयबृहत्वरूपं सद्वस्तु अहम् - अहं तया विनष्ट-अहङ्कारात् विलक्षण अहन्तया स्वयं प्रयत्नं विना स्वयं एव स्फुरति प्रकाशते । तथा च आत्मनो नाशः सम्भवति । अहेयस्वभावत्वात् । साक्ष्यात्माभिन्नस्य परिच्छिन्नस्य देहमात्र-अहम्भावस्य विनाशे अपि तादृग् अहम्भावनाशोपलक्षितं पराहम्भावरूपं परमार्थ सच्चिद्रूपं वस्तु न नश्यति इति भावः । अत्र अहङ्कारत्रयं भगवता उपदिष्टम् । तस्य अयं आशयः । देहपरिच्छिन्नः अहङ्कारः नाशप्रतियोगितया निर्दिष्टः प्रथमः । देहादिपरिच्छेदविहीनः सर्वपदार्थविकारात्मना भासमानो अहङ्कारो द्वितीयः । अवस्थात्रयादि सर्वपदार्थसारभूतः सर्वकारणीभूतः सर्वदा एव हृदि संस्थितः अखण्डाद्वयसन्मात्रस्वरूपः तृतीयः अहङ्कारः । अहन्तया इति उपलक्षणे तृतीया । तथा च अयं अर्थः सम्पद्यते । अहङ्कारद्वयं अपि विनाश्य सर्व-अहङ्कारनाश-अवधिभूततया परिशिष्यमाणं निरहम्भावं पूर्णसन्मात्रं स्फुरति इति । न केवलं ; तादृक्सन्मात्रस्फुरणं धर्माधर्मादिवद् अलौकिकं किन्तु सर्वप्रत्यक्षानुभवसिद्धं एव इति वक्तुं स्फुरति इति स्वानुभवसिद्धिः उक्ता । सर्वदृश्यसमष्ट्यभिमन्तारं देहेन्द्रियादि-व्यष्टि-अभिमानिनं अहङ्कारं च स्वात्मविचारजन्यबोधेन निर्मूलनं कृत्वा परिशिष्टचिन्मात्रस्थितिः एव श्रेयस्करी इति भावः ॥ २०॥ अहन्तानाश-उपलक्षितचैतन्यस्य व्यपदेश्यतां अहम्पदलक्ष्यत्वबोधनद्वारा विशदयन् पूर्वसूचितं अहङ्कारत्रयं अपि स्पष्टयति - इदमहं पदाभिख्यमन्वहम् । अहमि लीनकेऽप्यलयसत्तया ॥ २१॥ इदमिति । अहमि देहाभिमानात्मकाहङ्कारे लीनके अपि विनष्टे अपि अन्वहं समष्ट्यहङ्कारात् अनु अनन्तरं अलयसत्तया अविनश्वरसद्रूपतया अहम्पदाभिख्यं अहम्पदलक्ष्यार्थं इदम् (प्रकृतम्) स्वप्रकाशापरोक्ष-चिन्मात्रं वस्तु स्फुरति । विचारजन्यज्ञानेन देहादिपरिच्छिन्नाहङ्काराध्यासस्य यो विनाशः प्राक् उक्तः स एव ``अहमिलीनकेऽपि'' इत्यनेन वर्णितः । समष्ट्यहङ्कारश्च हिरण्यगर्भः इत्युच्यते । व्यष्ट्यहङ्कारस्य कल्पितत्वेन विनाश्यत्वं इव समष्ट्यहङ्कारात्मनो हिरण्यगर्भस्य अपि कल्पितत्वमेव । समष्ट्यहङ्कारभावं आपन्नस्य परमेष्ठित्वम् । इदं अपरब्रह्मरूपं इति सिद्धान्तः । परमार्थदृष्टौ तु न परमेष्ठी जीवः जगद्वा किञ्चित् अस्ति । ब्रह्मैव सद्रूपं पूर्णं अवशिष्यते । तच्च देशकालवस्तुपरिच्छेदशून्यमिति द्योतयितुं एव पूर्वं परमपूर्णसत् इति पूर्णात्वांशे परमत्वविशेषणं दत्तम् । अत्रापि अन्वहं इति सर्वात्मक-अहङ्कारस्य अपि हेयत्वं एव उक्तम् । तस्य सप्रपञ्चत्वात् । व्यष्टिसमष्ट्यादिसर्वप्रपञ्च-अतीतः यो अहङ्कारः स एव उपादेयः । सत्तया सर्वदा स्फुरणात् । अतः एव सुषुप्तौ व्यष्टिसमष्यहङ्कारद्वयविनाशे सत्यपि सद्रूप-आत्मानुभवश्च सर्वलोकप्रतीतः । तदानीं आत्मनाशस्य न केनापि अभ्युपगन्तुं शक्यत्वात् । ``अविनाशी वा अरे अयं आत्माऽनुछित्तिधर्मा'' इत्यादि श्रुतेः । सुषुप्तौ विशेषविज्ञान-अभावे अपि निर्विशेषस्वरूपचितः नासत्वम् । अहम्पदाभिख्यत्वं अव्यपदेश्यस्य आत्मनः काल्पनिकं एव । इदन्त्वव्यावृत्तिरूपं प्रवृत्तिनिमित्तं च पुरस्कृत्य एव सद्ब्रह्मादिशब्दाभिधेयत्वं अपि । न वस्तुवृत्तेन । अतः अहन्तानाशे न केनापि शब्देन तत्कालस्फुरितं वस्तु व्यपदेष्टुं शक्यते । महासमुद्रे विलीनस्य सैन्धवस्य इव व्यपदेश्यत्वं एव तदा भवति । एतेन सर्वविध-अहन्तावधिकद्वैतप्रपञ्चोपशमोलक्षितब्रह्मभावेन अवस्थानं विचारजनितत्वज्ञानं अन्तरा न सम्भवति इति भावः ॥ २१॥ अहमयं कुतो भवति चिन्वतः इति अहमो मूलस्थानान्वेषणं उक्तम् । तद् अन्वेषणप्रकारं उपदिशति - विग्रहेन्द्रिय प्राणधीतमः । नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥ विग्रहेति । विग्रहः पाञ्चभौतिकं स्थूलशरीरं इन्द्रियाणि ज्ञानेन्द्रियकर्मेन्द्रियाणि दश मिलितानि प्रत्येकं वा प्राणः जीवनहेतवो दश वायवः धीः मनः चित्तं अहङ्कारः इति अन्तःकरणं धीपदेन ग्राह्यम् । तमः अव्याकृतमाया अव्यक्त-अज्ञानादिपदाभिधेयं वस्तु च, नाहं अहम्पदाभिख्यः पूर्वोक्तः चिदात्मा न भवति । तत्र हेतुः- जडं इति । अन्याधीनप्रकाशत्वं एव जडत्वम् । तथा च देहादि अव्यक्तान्ता अनात्मानः जडत्वात् अनुमानं एकं प्रमाणं उक्तं भवति । न च जडत्व असिद्धिः । देहादिजाड्यस्य प्रकृतिसिद्धत्वेन अपह्नोतुं अशक्यत्वात् । अतः स्वरूपसिद्धये स्वसाक्षिभूतंस्वप्रकाशचिद्रूपं तत्त्वं अपेक्षते इति अन्याधीनप्रकाशत्वं अव्याहृतं देहादेः । अतः नाहम्पदलक्ष्यार्थाः ते भवन्ति । ननु विग्रहेन्द्रियादयः प्रकाशमानाः सन्तः प्रत्यक्षतः अनुभूयन्त । नैयायिकप्रभृतयः दर्शनकृतश्च प्रकाशमानतया सदात्मत्वं तेषां अभिमन्यन्ते । अतः कथं अप्रकाशमानत्वेन तेषां अनात्मत्वं व्यवस्थापयितुं शक्यते इति चेत् । न । चित्यचिदात्मसन्निधानाभावे विग्रहादीनां प्रकाशमानता अस्म्भवात् । सुषुप्तौ विग्रहादिप्रकाश-अभावेन आत्माभावप्रसङ्गाच्च । न च इष्टापत्तिः । कृतहानाकृताभ्यागम प्रसङ्गात् । अतः सुषुप्तेः प्राक्कालीन आत्मा एव पश्चाद् अपि अनुस्यूततया वर्तते इति उपेयम् । भिन्नत्वे च प्रत्यभिज्ञा अनुपपत्यादयः दोषाः परस्सहस्रं सम्भवेयुः । नैयायिकप्रभृतयः तु नित्यसाक्षिप्रकाशं आत्मानं अजानाना एव परप्रकाश्यस्य अनित्यविज्ञानस्य देहेन्द्रियादि अन्यतमस्य आत्मत्वं मन्यन्ते । अतः ते भ्रान्ताः एव । ननु देहेन्द्रियादिषु सत्वं भासते । अतः सत्तावत्वात् ते कथं अनात्मानः इति शङ्कायां तेषां सत्वम अपि चिदात्मसत्ताधीनं एव इति चिद्विभिन्नत्वं इव सद्भिन्नत्वं व्यवस्थापयितुं अनुमानान्तरं आह - एकसद् इति । देहेन्द्रियादयः न एकसत् इति पृथक् अन्वयो बोध्यः । एकं अखण्डं सत् सत्तासामान्यं इत्यर्थः । तथा च देहादयः न अखण्डसन्मात्र आत्मरूपा भवितुं अर्हन्ति । कुतः इति आकाङ्क्षायां हि असत् इति हि यस्मात् देहेन्द्रियादिकं सद्भिन्नम् तस्मात् इत्यर्थः । तथा अयं अर्थः सम्पन्नो भवति । देहेन्द्रियादयः आत्मानः सद्भिन्नत्वात् । न खलु प्रकाशमान्त्वमात्रं देहेन्द्रियादेः सत्वं अवगमयति; रज्जुसर्पमरीच्युदकादीनां अपि प्रकाशमानत्वेन सत्त्वापत्तेः । न च रज्जुसर्पादीनां आरोपितत्वेन प्रकाशमानत्वे अपि न सत्त्वम् अङ्गीकर्तुं शक्यते । देहेन्द्रियादीनां अनारोपितत्वात् प्रकाशमानत्वप्रयुक्तं सत्वं अवश्यं अङ्गीकार्यं इति वाच्यं । देहेन्द्रियादीनां अपि चिदात्मनि अध्यासेन रज्जुसर्पादिवद् आरोपितत्वात् । देहेन्द्रियादीनाम् अत्यन्त-असत्वे प्रकाशमानत्व अयोगः । तेषां आत्यन्तिकसत्त्वे च अप्रकाशमानत्व अयोगः । तथा च बाध्यमानत्व अयोगः स्यात् इति न सत्वं नापि सदसत्वं परस्परविरोधात् इति अनिर्वाच्यत्वं एव विमृश्यमाने सिद्ध्यति । चिदात्मा एव परमार्थसद्रूपः । सत्वेनैव निर्वाच्यः सः । अबाधितस्वयम्प्रकाशता एव सत्ता भवति । सा च स्वरूपं एव आत्मनः । न तु तद् अतिरिक्ता भवति । सत्तासामान्य-अर्थक्रियाकारित्वादिकं नैय्यायिकादिभिः अभ्युपगम्यमानं सर्वं आत्मसत्ताधीनसत्ताकत्वात् अलक्षणं एव । न एकसत् इति अनेन एकसत्तावादं अनुस्मारयति भगवान् । तज्जडं ह्यसत् इति अनेन देहेन्द्रियादिप्रपञ्चस्य अत्यन्त असत्वपक्षं अपि संसूचयति । व्यावहारिकदृष्ट्या भ्रान्तिप्राप्त-अहम्पदाभिधेयत्वं देहेन्द्रियादीनां निषिध्यते । तेषु अहन्त्वभ्रमनिवृत्तिं विना अहमः मूलान्वेषणस्य अशक्यसम्पादत्वात् । चार्वाकादयः हि वादिनः विग्रहादीनां एव अहम्प्रत्ययगम्यत्वं उररीकुर्वन्ति । तदपि अनुचितं इति निरूपणीयं । कोऽहं कुतोऽहं इति विचारः संशयपूर्वकः एव । स च वादिविप्रतिपत्ति-अधीन इति तत् अभिमतपक्षाणां असाधुत्वनिरूपणं अपि प्रस्तुत-उपष्टम्भकतया जिज्ञासु-उपयोगितया च भगवता कृतम् । न पुनः परमतनिषेधव्यासिनतया इति बोध्यम् । किञ्च अज्ञानाद् अनादिकालात् आरभ्य भ्रान्त्या प्रसक्तमनात्मदेहादौ आत्मभ्रमं अध्यारोपापवाद-न्यायं आश्रित्य अपवदितुं विग्रहादि अनात्मत्वं भगवान् व्यवस्थापयति । व्यवहारदृष्ट्याध्यारोपः परमार्थदृष्ट्या अपवादः । उपदेशादिव्यवहारार्थं एव व्यवहारपरमार्थदृष्टिसम्मेळनं अपि अङ्गीक्रियते । एतत् दृष्टिपरिकल्पनमूलकं एव सत्तत्रैविध्य कल्पनं अपि । घटादयो व्यावहारिकाः । रज्जुसर्पादयः प्रातिभासिकाः । वन्ध्यापुत्रः शशश्रृङ्गादयः तु अत्यन्त असन्तः इति चैवं अवान्तरवैलक्षण्यकल्पनं अपि अज्ञबोधनार्थं एव । परमार्थतः तु देहादयः वा रज्जुसर्पादयः वा शशविषाणादयः व सर्वेऽपि विकल्पनामात्रतयाऽत्यन्त असन्तः एव । अतः एवाविग्रहादीनां अत्यन्त असत्वं वैज्ञानिकदृष्ट्या भगवता ``तज्जडंह्यसत् इति'' प्रतिश्रुतं । तत्त्वविदो भगवतः श्रीरमणस्य तत्त्वदृष्ट्या देहेन्द्रियादिकं जगदखिलं आत्मरूपं एव इति शशश‍ृंङ्गसमानं असद् एव भवति । एवं असतः जगतः आत्मसत्तया सत्वकल्पने च प्रातिभासिकव्यावहारिकादिषु वस्तुषु त्रिषु अपि समानत्वेन सत्तात्रैविध्यकल्पनायाः न अवकाशः एव । अखण्डसद्रूपात्मदर्शने जाते देहेन्द्रियादेः जगतः जगत्वमेव विनश्यति । तत्सर्वं आत्मनि तिरोभवति । तन्मात्रं च तत्त्वतो न भिद्यते । इदं एव अभिप्रेत्य ``स्फुरति हृत्स्वयं परमपूर्णसत्'' इति देहेन्द्रियादिभेदप्रतिभासशून्यं आत्मज्ञानं विचारफलतया प्राग् अभिहितम् । एवं च विग्रहादिकार्यकरणसङ्घाते नाऽहं नाऽहं इति विचारेण निषिद्धे मिथ्या-अहङ्कारबाधेन परिशिष्ट-अखण्डसद्रूप अहं स्वरूपबोधः पर्यवस्यति इति भावः । विग्रहेन्द्रियप्राणधीतमः इति नपुंसक -एकवद्भावः ॥ २२॥ परमपूर्णसत् अलयसत्तया एकसत् इति निरहम्भाक्कालीनस्य अहमः तस्य च स्फुरति इति स्फुरणक्रियाश्रयत्वं अपि आवेदितम् । अतः भवति सन्देहः सत्वभासकं स्फुरणान्तरं अस्ति न वा इति । अस्ति चेद् जडत्वप्रसङ्गः, नास्ति चेत् असत्व आपत्तिः इति इमं संशयं परिहर्तुं सच्चितोः अभेदं आह - सत्वभासिका चित्क्ववेतरा । सत्तया हि चित् चित्तयाह्यहम् ॥ २३॥ सत्वभासिकेति । आत्मसत्वस्य भासिका प्रकाशप्रयोजिका इतरा अन्या चित्क्व अस्ति । न कुत्रापि अस्ति इत्यर्थः । सत्त्वभासकचित् अन्तरं नास्ति इति यावत् । कुत इति अपेक्षायां आह - सत्तया इति । हि यतः सत्तया सत्वेन एव चिद्भवति । चित्तया एव हि अहं सद्भवति । सच्चितोः अभेदात् इति भावः । सत्वभासकचिद्-अन्तरं अस्ति चेद् तादृक् चिद् अन्तरसत्वभासकचित् अन्तरं अङ्गीकर्तव्यम् । एवमेव तस्य तस्य अपि स्यात् इति अनवस्था दुर्वारा । अतः सद् एव चिद् चिद् एव सत् इति स्वीकार्यम् । तथा च सत्वं स्वयम्प्रकाशमानत्वं एव । आत्मनः सर्वविशेषरहितत्वात् सत्ता सामान्यरूपत्वं एव, नतु सत्ताश्रयत्वम् । एवं चित्वं अपि सवितृप्रकाशवद् आत्मस्वरूप-अव्यरिक्तं एव, न तु ज्ञानक्रियाश्रयत्वम् । ज्ञातृत्वं तु आत्मनः बुद्ध्यादि-औपाधिकं एव । एवं च न अनवस्थादिदोषप्रसङ्गः । आत्मनः सच्चिदंशयोः एव देहादिप्रपञ्चेषु भानं न स्वतः तेषु सत्वभाने सिद्ध्यतः । जडत्वात् अनिर्वचनीयत्वात् असत्वात् च । ``असद्वा इदमग्र आसीत्'' नैवेह किञ्चन अग्रे आसीत् इत्यादिश्रुत्या प्रत्यक्षादि अनुभवेन च देहेन्द्रियगगन-पवनादिप्रपञ्चस्य आद्यन्तयोः असत्वं अवगम्यते । मध्यकाले तेषां सत्वं प्रतीयते । आद्यन्तयोः असद्भूतानां वर्तमानदशामात्रे सत्वेन प्रतिभासमानानां देहेन्द्रियादीनां कदाचिद् असत्वं कदाचित् सत्वं इति सदसद् उभयरूपत्वं वक्तुं न शक्यते । सत्व-असत्वयोः अन्योन्य-प्रतिद्वन्द्विरूपत्वेन अन्यतरनाशं अन्तरा निवेशन (bringing to rest, fixing) असम्भवात् । एवं च अवश्यं अन्यतरप्रणाशे स्वीकर्तव्ये वर्तमानदशाप्रतीतस्य सत्वस्य एव प्रणाशः अभ्युपेयः । तथा च त्रिषु अपि कालेषु असत्वं एव देहेन्द्रियादिप्रपञ्चस्य सिद्ध्यति । न च आद्यन्तयोः प्रतीतस्य असत्वस्य एव प्रहाणं भवतु । एवं चेत् प्रपञ्चस्य कालत्रयेपि सत्वं एव सिद्ध्येत् इति वाच्यम् । आद्यन्तयोः चिरतरं असत्वप्रतीतेः । अतः अचीरप्रतीतमध्यकालसत्वस्य एव प्रहाणं श्रुतियुक्ति-अनुभवसिद्धं इति दृश्यप्रपञ्चस्य असत्वं सिद्धम् । ``आदावन्ते च यन्नास्ति वर्तमाने अपि तत्तथा'' इत्यादि वचनात् च । एवं च प्रपञ्च-असत्ववादिनां केषाञ्चिद् आचार्याणां पक्षः । सत्वादिनां अखण्डसन्मात्रं सर्वत्र प्रपञ्चे दृश्यते इति पक्षः । सोऽपि उपपन्नः एव । ``सदैव सोम्य इदमग्र आसीत्'' इत्यादिश्रुतिभिः आद्यन्तयोः सद्रूपत्वं प्रपञ्चस्य प्रतिपादितम् । स्थितिकाले च प्रमाणप्रवृतौ सत्यां सर्वं सत् इति एव प्रतीयते इति अनुभवसिद्धम् । ``असद्वा इदमग्र आसीत्'' इत्यादिश्रुतियुक्त्योः च अनभिव्यक्तसत्ताकत्वप्रतिपादकतया चरितार्थत्वेन सत्वश्रुतियुक्त्योः अन्यथा उपपादन-असम्भवात् सदातनी-सार्वत्रकी सर्ववस्तुसत्ता लाघवात् एक एव इति युक्ता । एवं सत्ता-एक्ये सिद्धे आदावन्ते च कारणब्रह्मरूपसत्तया एव प्रपञ्चस्य सत्वं न तु तत् अतिरिक्तसत्ताकत्वम् । अखण्डसत्त सर्वत्र दृश्यते इत्ययं सत्ववादिनां अभिमतः पक्षः । पक्षद्वय अपि क्षोदक्षमं एव । परन्तु देशकालपरिच्छिन्न-अनन्तसत्ता समवायार्थक्रियाकारित्वादिकल्पनं पक्षद्वयबहिर्भूतं सर्वश्रुतियुक्तिविरुद्धं अनुचितं एव । प्रपञ्चस्य सदसत्वपक्षद्वयं सप्रयोजनं एव । आत्मत्वेन् कल्पितेषु देहादिषु असत्वबुद्ध्या आत्मत्वनिरासद्वारा ऐकात्म्यदर्शने प्रपञ्चासत्ववादः उपयुज्यते । एवं सत्ववादोऽपि । कथं इति चेत् असद्वात् अस्य अन्यार्थत्वेन प्रपञ्चस्य नासत्वं मन्तव्यम् । किन्तु सर्वं सद् एव । प्रपञ्चस्य असत्वस्थापनार्थं सत्वप्रसिद्धिः वक्तव्या भवति । प्रपञ्चे सत्वप्रसिद्धौ तद्विरोधित्वात् असत्वं न सिद्ध्यति । तत्र सत्व-अप्रसिद्धौ च प्रतियोगिप्रसिद्धि-अभावेन तत्प्रतिरोधक असत्वम् सुतरां न सिद्ध्यति । एवं सर्वत्र सत्तया प्रतिरुद्धं असत्वं निरास्पदं भवेत् इति अखण्ड-सन्मात्र-आत्मवस्तुपरिशेषे सिद्धे देहादिप्रपञ्चाकारस्य पृथक् अप्रतिभासमानत्वेन सच्चिन्मात्रं अखण्डं वस्तु एव अहं इति साक्षात्कारात् स्वात्मप्रतिष्ठासिद्धिः प्रयोजनम् । अतः अखण्डसच्चिद्रूपत्वं आत्मनः एव न अन्यस्य इति सिद्धम् । एवं आनन्दत्वं अपि । न आनन्दवत्वं आत्मनः । ``विज्ञानं आनन्दं स्यात्'' यो वै भूमा तत् सुखम्'' ``एष परम आनन्दः सत्यं ज्ञानं अनन्तं ब्रह्म'' इत्यादि श्रुतिभ्यः । तान्त्रिकाः तु आत्मनः धर्मत्वेन सच्चिदानन्दान् कथयन्ति । आत्मा सत्वधर्मको वा सद्रूपो वा इत्यादिविवादात् प्राक् तादृक् विवादास्पदीभूतं जडविलक्षणं अनृतभिन्नं स्वतस्सिद्धं किञ्चित् तत्वं वादिभिः सर्वैः अपि अङ्गीकार्यं अकामेन अपि । अन्यथा स्थिरस्य कस्यचित् विवादकर्तुः अभावे धर्मत्वादिसर्वविवादलोपप्रसङ्गः । अतः विवादकर्तृत्वेन विवादाभिज्ञत्वेन विवादकृतजयपराजयरूप फलभागत्वेन च स्थिरः कश्चित् अभ्युपेयः । स च न केनापि निराकर्तुं शक्यते । निरालम्बनविवादासम्भवात् । स च सच्चिदानन्दरूपः इति अनुभवसिद्धत्वेन न कारणान्तरं मार्गणीयम् । इदं अनुभवसिद्धत्वमेव ``चित्तया हि अहं इति'' भगवान् आह । सच्चिद्रूपः आत्मा स्थिरः कश्चित् सर्वैः वादिभिः अङ्गीकार्यः इति तदर्थः । अयं विशेषार्थः यदि न अभविष्यत् तर्हि ``चित्तया हि सत्'' इति एव प्रयोगः अभविष्यत् । ``सत्वभासिका चित्क्ववेतरा'' इति सत्वस्य चित् अन्तरभास्यत्वप्रतिक्षेपे सत्वाभिन्नचिद्भास्यत्वशङ्कायां तद् अपोदनार्थं सत्तया हि चित् चित्तया ह्यहं इत्याह । अयं भावः चित्स्वरूपलाभः सत्वेन एव । तच्च सत्वं चित्स्वरूपमेव सेत्स्यति । सत्वस्य चिद्भिन्नत्वे चितः असत्वप्रसङ्गात् । न च इष्टापत्तिः । चिद् अस्ति इति व्यवहारविलोपापत्तेः । एवं सतः स्वरूपलाभश्च चित्तैव । तच्च सत्वं चिदभिन्नम् । चिद्भिन्नत्वे सति सत्स्वरूप-अलाभप्रसङ्गात् । न च सदंशेन चित् चिदंशेन सत् च परस्परभास्यभासकतां प्राप्नोति इति वाच्यम् । आत्मनः निरंशत्वेन तत्रांशभेदकल्पना अनुपपत्तेः । कथं तर्हि निर्विशेषस्य निरवयवस्य अतिसूक्ष्मत्वेन अतीन्द्रियस्य आत्मनः सच्चिद्रूपत्वसिद्धिः । सच्चितोः अभेदेन एव स्वयम्प्रकाशमानताख्यसत्वस्य प्राक् उक्तरीत्या सिद्धेः । ननु निर्धर्मके आत्मनि कथं स्वयम्-प्रकाशमानतारूपसत्वाश्रयत्वं सम्भवति । निर्धर्मकत्वभङ्गापत्तेः इति चेत् । न । सद्रूपत्व उक्त्या एव प्रत्युक्तत्वात् । ननु कथं सच्चिदादिशब्दप्रत्ययविषयत्वं नामजातिक्रियागुणविहीनस्य निर्विशेषस्य आत्मनः । सर्वे च शब्दाः नामजात्यादिसम्बन्धसापेक्षं एव अर्थं बोधयन्ति इति नियमः । अतः न चिदादिशब्दप्रत्ययविषयत्वं आत्मनः सिद्ध्यति । ``यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अनिरुक्ते अनिलयने इति च'' श्रुतयः अवाच्यत्वं आत्मनः आमनन्ति । अव्यपदेश्यस्य च आत्मनः अव्यपदेश्यता कथं इति चेत् अतद्व्यावृत्या इति गृहाण । जातिगुणक्रियाकुलगोत्रसूत्रविहीनत्वात् अद्वयत्वात् अविषयत्वात् आत्मत्वात् च केनापि इदन्तया विधिमुखेन व्यपदेशः सम्भवति । अतः सत् इति अस्य असत् न इत्यर्थः । चिद् इति अस्य अचित् न इत्यर्थः । आनन्दं इति अस्य आनन्दं न इत्यर्थः सिद्ध्यति । एवं च अनृतजडदुःखात्मकप्रपञ्चव्यावर्तकत्वं आयाति । प्रपञ्चस्य अनृतत्वं प्राक् स्थापितम् । ``वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'' इत्यादिश्रुतिभ्यश्च तत्सिद्धं । लोकप्रसिद्ध-अनित्यज्ञप्तिरूपत्वप्रतिषेधेन अपि चित्वं उच्यते । नित्यज्ञप्तिरूपं ब्रह्म इत्यर्थः पर्यवस्यति । ``न हि विज्ञातुः विज्ञातेः विपरिलोपः विद्यते अविनाशित्वात्'' इत्यादिश्रुत्या विज्ञातृस्वरूपव्यतिरिक्तनित्यज्ञप्तिसिद्धेः । तथा च अनृतजडदुःखव्यावृत्या सद् आदिशब्दाः आत्मानं बोधयन्ति इति आकरे विस्तारः ॥ २३॥ एवं ``मानसं तु किम्'' इति आरभ्य जीवात्मपरिशोधनं कृतम् । तेन च अयं अर्थः परिनिष्पन्नः । प्रत्यक्षानुमान-उपमानशब्द-अर्थापत्यादिमान-अगम्यत्वात् ज्ञातुः स्वरूपत्वेन नास्ति इति अपलपितुं अशक्यत्वात् च परिशेषतः देहेन्द्रिय-अन्तःकरणादिप्रत्याख्यानप्रकारेण स्वयं अन्विष्य तत्साक्षितया अविषयीभूतस्वयम्प्रकाश-सच्चिदानन्दरूपः आत्मा ज्ञेयः इति । एवं जीवात्मपरिशोधनं कृत्वा तस्य परमात्माभिन्नत्वं कथयितुं परमात्मपरिशोधनं आह - ईशजीवयोर्विषधीभिदा । सत्स्वभावतो वस्तु केवलम् ॥ २४॥ ईशेति । ईशजीवयोः ईशः सर्वज्ञं सर्वशक्तं मायाशबलं सर्वनियामकं चैतन्यम् । जीवः किञ्चिज्ञं किञ्चित्छक्तं देहेन्द्रियान्तःकरणादि-उपाधि-अवच्छिन्नं तत्प्रतिबिम्बितं वा चैतन्यम् । तयोः ईशजीवयोः वेषधीभिधा वेषः उपाधिः तस्य धीः भ्रान्तिप्रत्ययः तेन भिदा भेदः भवति इति शेषः । उपाधिभ्रान्तपरित्यागे विचारेण ईशजीवयोः सत्स्वभावतः सद्रूपत्व-अविशेषणात् तेनरूपेण वस्तु केवलं अखण्डं एकं वस्तु शिष्यते । जीवेश्वरभेदक-उपाधिभ्रम-अपगमे जीवत्वं ईश्वरत्वं उभयं अपगच्छति । अखण्ड-सच्चिद्रूपं अव्यपदेश्यं तत्त्वं एकं एव शिष्यते इत्यर्थः । भगवता श्रीरमणेन जीवेश्वरजगतां त्रयाणां अपि अत्र मिथ्यात्वं उपदिष्टं इति विस्पष्टं अधिगम्यते । अन्यथा वेषकल्पना-प्रयुक्तभेदं जीवेश्वरयोः न उच्येत । सत्स्वभावतः इति च । अतः विज्ञायते तेषां त्रयाणां मिथ्यात्वं तद् अभिमतं इति । अखिलवेदान्तानां अखण्डैकार्थं इष्टत्वं च भगवता सूचितम् । वस्तुकेवलं इति उपदेशात् । वस्तुनः केवलत्वं च जीवेश्वरत्व-उपलक्षित-अखण्डव्यक्तिमात्ररूपत्वं एव । न हि जीवेश्वरयोः अभेदः नाम कश्चन संसर्गरूपः स्वीक्रियते । अपितु जीवत्व-उपाधेः ईश्वरत्व-उपाधेश्च विचारजनितविज्ञानेन विनाशे अखण्डैकसच्चिन्मात्र-व्यक्तिपर्यवसायित्वं एव । ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' इत्यादि श्रुतेः । अतः सद्वस्तु-आश्रयविषयाद् अनादि-अज्ञानात् एव जीवेश्वरजगद्विभ्रमो जायते इति तेषां सत्स्वभावत्वनिर्धारणार्थं अवश्यं अभ्युपेयम् । किञ्च ईशजीवयोः वेषधीकृतो भेदः प्रत्यक्षादिप्रमाणसिद्धः । उभयानुगतं सत्स्वभावत्व-उपलक्षित-अखण्डव्यक्तिमात्रत्वं तु श्रुतिविद्वद्-अनुभवमात्रगम्यम् । एवं च प्रत्यक्षादिना विरुद्धस्वभावत्वेन अवगम्यमानयोः जीवेश्वरयोः एकव्यक्तिमात्रत्वं यावत् प्रत्यक्षादीनां अप्रामाण्यं न व्यवस्थाप्यते तावत् दुर्घटम् । चन्द्रप्रादेशिकत्वादिस्थले प्रत्यक्षादीनां यथाभूतार्थौ-आवेदकत्व(Making known)-अभावेन तद्-रीत्या सर्वत्र तेषां अनाश्वासप्रतिपादनद्वारा अप्रामाण्यं अपि पूर्वाचार्यसम्मतं श्रीरमणभगवद्-अनुमतं इति च विशदम् ॥ २४॥ एवं वेषभ्रान्तिप्रत्ययम्-अन्तरा जीवेश्वरयोः भेद-अनुपलम्भात् उपाधिभूतवेषाणां स्वातन्त्र्येण सत्तायां प्रमाण-अभावात् आविद्यकत्वे सिद्धे परिपूर्ण-सच्चिदात्मा जीवः इति अवधृतं भवति । एवं ईशोपि इति । देहेन्द्रियादि-अपोहमुखेन तत्साक्षितया तद्-अधिष्ठानतया च निरुपाधिकं ब्रह्मैवाहं इति निखिलवेदान्त-मूर्धन्यभूत-महावाक्यार्थसारसर्वस्वं ब्रह्मात्मैक्यज्ञानं उपदिशति - वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः ॥ २५॥ वेषहानत इति । वेषहानतः ईशजीवयोः यो वेषः उपाधिः तस्य हानतः प्राक् उक्तरीत्या विचारेण विना असम्पादनात् स्वात्मदर्शनं यत् अखण्डसच्चिदात्मज्ञानं तदेव ईशदर्शनं परमात्मज्ञानं भवति । तद् उपपादयति - स्वात्मरूपतः इति । विवेकेन शोधितस्य ईशस्य शोधितस्वात्मरूपत्वात् इत्यर्थः । स्वात्मा च सर्वेषां नित्यसिद्धः इति स्व-अभिन्नब्रह्मज्ञानार्थं न यतनीयम् । किन्तु अज्ञानजनितवेषनिवृत्यर्थं एव । तत्र प्रथमं स्वात्मनः वेषहाने जाते परमात्मनः वेषहानं अपि सिद्ध्यति इति न तद्वेषहानार्थं अपि पृथक् प्रयत्नः आस्थेयः । स्वात्मवेषग्रहणमूलकत्वात् ईशवेषकल्पनस्य । यदि स्वात्मनः वेषग्रहः अपनीतः भवेत् तद् ईशवेषः वा ईशो वा जगद्वा किमपि न स्वरूपसत्तां लभते । अतः ईशदर्शनार्थं स्वात्मवेषहानं अन्तरा न अन्या गतिः । आत्मा एव ब्रह्म इति च सर्वोपनिषदां सिद्धान्तः । स्वात्मविचारापेक्षया ईशदर्शनार्थं न अन्यः अस्ति उपायः । स्वात्मविचारः एव ब्रह्मविचारः इत्युच्यते । स्व-अन्यत् चेत् ब्रह्मविचारः अपि अन्यः स्यात् । स्व-अन्यत्वे स्वीकृतेऽपि तादृशस्य ब्रह्मणः न विचारापेक्षा भवति । विचारात् प्राक् एव गुरूपदेशमात्रेण तत्स्वरूपस्य निर्णीतत्वेन संशय-असम्भवात् विचारासम्भवः । अतः ब्रह्म-अभिन्नजीवविचारः एव जीव-अभिन्नब्रह्मज्ञानहेतुः । स्वात्मदर्शनं ईशदर्शनं इति दर्शनयोः अभेदकथनेन तद्विषययो जीवेशयोः अपि अभेदः सिद्ध्यति । स च अभेदः न जीवत्व-ईश्वरत्वाभ्यां सम्भवति । परस्परविरुद्धत्वात् । किन्तु स्वात्मरूपतः पूर्वोक्तसत्स्वभावतः इत्यर्थः ॥ २५॥ परितिष्ठितं आत्मतत्त्वज्ञानं सफलं प्रतिजानीते भगवान् - आत्मसंस्थितिस्स्वात्मदर्शनम् । आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥ आत्मसंस्थितिरिति । आत्मनि संस्थितिः एव स्वात्मदर्शनम् । न अन्यत् । कुतः इति चेत् आत्मनिर्द्वयात् आत्मनः भेद-अभावात् । एतत् उक्तं भवति । घटादिदर्शनं इव स्वात्मदर्शनं न भवति । विज्ञानस्वरूपत्वात् आत्मनः । न खलु यस्य यत् स्वरूपं भवति तस्य ज्ञानान्तरविषयत्वं सम्भवति । स्वात्मनि क्रियाविरोधात् । ज्ञानान्तरविषयत्वे ज्ञानस्वरूपभङ्ग-आपत्तेश्च । यो हि ज्ञाता स एव दर्शनरूपः । तस्य च सर्वात्मकत्वात् ज्ञातुः ज्ञातृ-अन्तर-अभावाच्च न दर्शनविषयत्वम् । तथा च श्रुतिः । ``विज्ञातारं अरे केन विजानीयात्'' ``स वेत्ति वेद्यं न च तस्य अस्ति वेत्ता'' इत्याद्याः । अतः च आत्मभावापत्तिः एव आत्मदर्शनम् । स्वाभाविकी आत्मभावापत्तिश्च नित्यसिद्धा अपि अविद्यया अप्राप्ता एव भवति । अतः अविद्याजनितविपरीतग्रहे विद्यया अपनीते सा अभिव्यज्यते इति आत्मदर्शनं आत्मा आप्तिः वा उपचारमात्रं एव । ज्ञानेन अज्ञान-तत्कार्यदेहादि-अध्यासनिवृतौ स्वाभाविकी या स्वात्मभावस्थितिः सा एव आत्मनिष्ठता अपि भवति । आत्मनिर्द्वयात् एव । न अन्यादृशी गृहस्थता एव देवदत्तस्य । आत्मनः अद्वयत्वेन अनन्यत्वात् । यथा स्वस्वरूप-अनन्यत्वेन आत्मदर्शनं आत्मभावप्राप्तिः एव सम्भवति तेन एव हेतुना आत्मनिष्ठता अपि इति तादृशः व्यवहारः अपि औपचारिकः एव इति भावः । अनेन जीवन्मुक्तस्थितिः अभिहिता कृतकृत्यता च सूचिता । नित्यमुक्तस्वभावस्य आत्मनः अज्ञान-आवरणं एव बन्धः इत्युच्यते । ज्ञानेन तन्नाशः एव मुक्तिः । नष्टे च अज्ञाने दृश्यमानः व्यवहारः सर्वोऽपि कौतुकाय एव विदुषः ॥ २६॥ ननु कुतः आत्मसंस्थितः एव आत्मदर्शनं इति आकाङ्क्षायां आह - ज्ञानवर्जिताऽज्ञानहीनचित् । ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥ ज्ञानवर्जितेति । ज्ञानवर्जिता वृत्तिज्ञानवर्जिता अज्ञानवर्जिता च या चित् चैतन्यं ज्ञान-अज्ञानविलक्षणं ज्ञानं आत्मदर्शनं भवति । तत् ज्ञातुं अन्तरं भेदः नास्ति किम् ? न अस्ति इत्यर्थः । ज्ञातत्व-अज्ञातत्वविलक्षण-ज्ञप्तिमात्रस्वभावकं आत्मानं अन्यज्ञानेन विषयीकर्तुं भेदः नास्ति इति । ज्ञानवर्जितत्व-उक्त्या अज्ञेयत्वं उक्तम् । अज्ञानहीनत्व उक्त्या च ज्ञेयत्वं अभिहितम् । ज्ञेयत्व-अज्ञेयत्व-उभयशून्यकथनेन ज्ञातत्व-अज्ञातत्वविलक्षणं एव ज्ञानं इति उक्तं भवति । तच्च ज्ञानं आत्मरूपम् । अतः ज्ञातत्व-अज्ञातत्व-उभयशून्यं आत्मतत्त्वं वेत्तुं ज्ञानान्तरं न सम्भवति । ज्ञानान्तरं अस्ति चेत् तेन ज्ञातत्वं आत्मचैतन्यस्य स्यात् । तथा च चैतन्यभेदापत्तिः । किं च आत्मनः ज्ञातत्व-आपत्तिश्च । ज्ञातत्वे च आत्मनः जडत्वविकारित्वादयः दोषाः प्रादुष्यः । अन्तरं इति अनेन ज्ञानान्तरविषयतापादकभेदः ज्ञानमात्रस्वरूपे आत्मनि नास्ति इत्यर्थः । नित्यसिद्धज्ञान-प्रकाशस्य स्वरूप-अभिव्यक्तौ ज्ञानान्तर-अपेक्षा च न युज्यते । स्वतःसिद्धप्रकाशात्मत्वात् । न खलु दीपः स्वस्वरूप-अभिव्यक्त्यर्थं अन्यदीपप्रकाशं अपेक्षते । नापि च ज्ञानाज्ञानविलक्षणरूप-ज्ञानात् अन्यत् ज्ञानं अस्ति । येन स्वरूपज्ञाने अपि अपेक्षेत । तथा च आत्मानं जानामि न जानामि इति एतद् उभयविलक्षणचैतन्य-मात्र अवस्थितिः या पूर्वा उक्ता सा एव आत्मदर्शनं इति भावः । ``अन्यदेव तद्विदितात् अथो अविदितात् अधि'' ``अविज्ञातं विजानतां विज्ञातं अविजानताम्'' इत्यादि श्रुतेः । किञ्च अत्र अर्थान्तरं अपि । ज्ञातत्व-अज्ञातत्व-उभयविलक्षणज्ञानैकरसे स्वात्मनि शास्त्र-आचार्य-उपदेशादिना लब्धे ज्ञातुं अन्तरं अन्यत् वस्तु अस्ति किम् ? आत्मविज्ञानेन एव सर्वविज्ञानप्राप्तेः । कृतकृत्यत्वाच्च विज्ञेयान्तरं न अवशिष्यते इति । ननु ज्ञान-अज्ञानविलक्षणज्ञानस्य ज्ञानार्थं यदि ज्ञानान्तरं नास्ति तदा ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' ``तदात्मानं एव अवेत्'' ``एतं आत्मानं विदित्वा'' इत्याद्याः श्रुतयः ज्ञानान्तर-अस्तित्व-आवेदका निरर्थिका भवेयुः इति चेत् । न । अविद्याजनितविपरीतग्रहणनिवृत्यर्थं ज्ञानान्तर-अस्तिता-आवेदकत्वात् तासां । ``जानाम्यहं ब्रह्म'' न जानामि ब्रह्म इति अविद्यया अन्तः करणादिषु लौकिकैः व्यवहियते । आत्मानं ज्ञान-अज्ञानविलक्षणज्ञानमात्रं विवेकतः पृथक्कृत्य अपोहार्थं ज्ञानस्वरूपस्य अपि ज्ञानान्तर-अपेक्षया उपदेशः श्रुतिषु क्रियते न पुनः स्वभावसिद्धज्ञानस्वरूपप्रकाशनार्थं ज्ञानान्तर-अपेक्षा श्रुतिभिः उपदिश्यते । अन्तःकरणादौ आत्मत्वभ्रान्तेः अभावे च ज्ञानान्तर-उपदेश-आनर्थक्यं इष्टं एव । विपरीतग्रहरूप-निमित्त-अभावे नैमित्तिक-उपदेशस्य अपि असम्भवात् । अतः ज्ञानाज्ञानविलक्षण-ज्ञानात्मकं स्वरूपं इति साधु एव । एतेन हेयोपादेयविलक्षणत्वं अर्थात् उक्तं भवति । ज्ञानाज्ञानविलक्षणज्ञानस्य स्वस्वरूपभूतत्वेन न हेयत्वं उपादेयत्वं वा शक्यं वक्तुम् । हेयत्व-उपादेयत्वयोः भेदसापेक्षत्वात् । स्वस्माद् अन्यत् हि हेयं उपादेयं वा भवति । न तु स्वस्य स्वयं एव हेयं उपादेयं वा भवति । भेदाभावात् । ``अस्ति किं ज्ञातुमन्तरम्'' च भेदं व्यावर्तयति भगवान् । ज्ञानाज्ञानविलक्षणत्व-उपदेशेन ज्ञानस्वरूपस्य आत्मनः हेयोपादेय विलक्षणत्वं व्यक्त-अव्यक्तविलक्षणत्वं कार्यकारणविलक्षणत्वं सत्त्वासत्त्वविलक्षणत्वं च एकेन भेद-असम्भवहेतुना एव भगवता संक्षिप्य उपदिष्टं इति बोध्यम् । तथा च सर्व-विशेषप्रत्यस्तमित-आत्मतत्त्वं अतिसूक्ष्मं इति भावः ॥ २७॥ एवं ज्ञानाज्ञानविलक्षण-ज्ञप्तिमात्रसंस्थितिरूपां जीवन्मुक्तिस्थितिं अभिधाय जीवन्मुक्ति-विदेहमुक्त्योः उभयोः अपि आनन्द-आत्मत्वं उपदेष्टुं उपक्रमते - किं स्वरूपमित्यात्मदर्शने । अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ २८॥ किं स्वरूपमिति । किं स्वरूपम् देहेन्द्रियादिषु अहन्तया भासमानेषु मुख्यात्मस्वरूपं कीदृशं इति प्राक् उक्तदिशा विचारेण आत्मदर्शने ज्ञानाज्ञानविलक्षणज्ञानमात्रस्थितिलाभे जाते,अव्ययं नाशरहितं अभवं भवः संसारः तद् रहितं सांसारिकसुखदुःखोभयविलक्षणं इत्यर्थः । आपूर्णं आसमन्तात्, पुरस्तात् पश्चात् दक्षिणतः च उत्तरेण-अधस्तात्-उपरिष्टात् च व्यापकं चिन्मयं सुखं अनायासलक्षणं सिद्ध्यति इति शेषः ॥ अथवा किं स्वरूपं यस्य तत् किंस्वरूपं ज्ञातं इति अज्ञातं इति वा निर्णेतुं अशक्यं आत्मस्वरूपमिति एवं आत्मदर्शने जाते इत्यर्थः । शिष्टं प्राग्वत् । आत्मदर्शनवतां जीवन्मुक्तानां सच्चिदात्मप्राप्तिः नित्यसिद्धा इति प्राङ्निरूपितम् । आनन्दात्मत्वं तेन एव सिद्धं अपि वैषयिकसुखदुःखवैलक्ष्यण्यबोधनार्थे पुनः उपदिष्टम् । साङ्ख्यवैशेषिकादयः हि मोक्षसुखं संवेद्यं इति विवदन्ते । अन्ये च केचन स्वानुभूति विषयं इति मन्यन्ते । उभयं अपि न भगवद्-रमणाचार्यानुमतम् । आपूर्णचित्सुखं इति सुखस्य आत्मस्वरूपत्ववर्णनात् । श्रुतिषु च सुखस्वरूपत्वं आत्मनः अभिहितम् । आत्मानन्दयोः अभेदे सिद्धे च अनुभूतिविषयत्वं प्रमाणान्तरसंवेद्यत्वं वा न सङ्गच्छते । ``यत्रत्वस्य सर्वं आत्मा एव अभूत् तत् केन कं विजानीयात्'' । ``यत्र न अन्यत् पश्यति न अन्यत् श्रुणोति न अन्यद् विजानाति स भूमा'' । ``भूमैव सुखं नाल्पे सुखं अस्ति'' इत्यादि श्रुतेः । अतः आत्मानन्दः न अनुभाव्यः । किन्तु अनुभवरूपः । अतः आनन्दात्मकात्मभावापत्तिः एव वस्तुतः आनन्दानुभवः । आत्मनि अनृतजडदुःखात्मकत्व-भ्रमनिवृतौ स्वस्वभावभूत-आनन्दात्मतास्थितिः अधिगम्यते मुक्तैः । ज्ञानेन अज्ञाननाशप्रयुक्तदेहादि-अभावः हि मोक्षः । मोक्षे देहेन्द्रियमनसां अभावेन कथं आनन्दानुभवः शक्यते वर्णयितुम् ? समुद्रात् उद्धृतं उदकं पुनश्च समुद्रे प्रक्षिप्तं यथा न पृथक्त्वेन प्रतीयते तथा आनन्दात्मनि विलीनश्च मुक्तः कथं स्वाभिन्नानन्दात्मकत्वं ज्ञातुं क्षमेत । अतः मोक्षसुखं न संवेद्यं इति सिद्धम् ॥ २८॥ ननु ``जक्षन्क्रीडन् रममाण'' ``सोश्नुते सर्वान्कामान्सह । ब्रह्मणाविपश्चितेति'' , स यदि पितृलोककामो भवति इत्यादि श्रुतिषु मुक्तिसुखं संवेद्यं इति प्रतिपादितम् । तासां च न अप्रामाण्यं भवितुं अर्हति । अतः मानान्तर-अवेद्यत्वे अपि मुक्ति-आनन्दस्य स्वसंवेद्यत्वं अभ्युपेयं एव । लोके च सुखी अहं इति सुखात्मकं आत्मानं स्वयं वेदयतः इति प्रसिद्धम् । अतः आनन्दात्मकत्ववचनानां अपि स्वसंवेद्यत्व-अर्थकतया नेयत्वात् इति आशङ्क्य आह - बन्धमुक्त्यतीतं परं सुखम् । विन्दतीह जीवस्तुदैविकः ॥ २९॥ बन्धेति । दैविकः दैवीसम्पत्सम्पन्नः । अथवा जन्मान्तर-अर्जितसुकृतनिकरनिर्धूतपापनिवहः, यद्वा दैवं मुक्ति सुखानुभावकप्रारब्धकर्म तत्सम्पन्नः । अथवा दैववश-आसादितज्ञानसामग्रीसम्पन्नः दैविकः जीवः । न तु सर्वोऽपि । तु शब्दः दौर्लभ्यद्योतनार्थः । इह अस्मिन् शरीरे वर्तमाने एव । अथवा मनुष्यजन्मनि । यद्वा जीवदशायां एव । अथवा विद्या-उत्पत्तिसमकाले एव न तु कालान्तरे देशान्तरे लोकान्तरे जन्मान्तरे वा । बन्धमुक्ति-अतीतं बन्धमोक्षविलक्षणं परं निरतिशयं सुखं सच्चिदानन्द-एकघनं स्वाभाविकं अजरामरं अभयं पदं विन्दति लभते । अलब्धत्वभ्रमनिवृत्तिं अश्नुते इति भावः । एवम्भूतस्य आत्मनः नित्यप्राप्तत्वात् । ``ब्रह्म एव असन् ब्रह्म अप्येति'' ``ब्रह्मवेद ब्रह्मैव भवति'' इत्यादि श्रुतिभ्यः । नित्यमुक्तस्वभावस्य आत्मनः अज्ञान-आवरणं एव बन्धः । तन्नाशः एव मुक्तिः । बन्धस्य सत्यत्वे अनिर्मोक्षप्रसङ्गात् मिथ्यात्वं पर्यवस्यति । सदैकस्वभावः आत्मनि बन्धः कल्पितः । कल्पनाकाले अपि स्वभावप्रच्युतिः न आत्मनः । सुखित्वदुःखित्वमूढत्व-जनिमरणादयः संसाराः सर्वे अपि आत्मनि अध्यारोपिताः । सुखित्वादिसंसार-अवस्थासु सर्वासु अपि विशेष्यत्वेन अनुगतः आत्मा अवभासते एव । अथाऽपि सुखित्वादिविशेष-अध्यारोपवशात् एव आत्मनः स्वरूप-अवस्थानं न सम्भवति । गुरुशास्त्र-उपदेशेन स्वरूप-अवस्थानं श्रेयः इति श्रुतेः सति सुखित्वादिकृतस्वरूप-अनवस्थानं निवर्तते । अतः सुखित्वदुःखित्वादि-विशेष-अध्यारोपसापेक्षा एव मुक्तिः । बन्ध-आरोप-अभावे मुक्तिः अपि न अपेक्षिता एव । न खलु निगडबन्ध-अभावे निगडमुक्तिः आवश्यकी भवति । यदि दुःखित्वादिबन्धः नास्ति तदा बन्धनिवृत्तिरूपमोक्षः अपि नास्ति एव । परमात्मनि यस्य कस्यचित् वास्ताविकत्व-असम्भवात् । अतः बन्धभ्रान्तिनिवृत्तिमात्रे मोक्षः अपि व्यावहारिकः एव । न खलु बन्धः भ्रान्तिमत्व-अविद्यावत्व-तद्-अभावाभ्यां आत्मस्वभावस्य कश्चित् विशेषः शक्यते वक्तुम् । सर्वदा तस्य निर्विशेषचैतन्य-एकरसस्वभावत्वात् । अतः बन्धमुक्ति-अतीतं सुखस्वरूपं आत्मवस्तु एव परमपदं इति भगवता उपदिष्टम् । तदुक्तं - ``न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ इति किञ्च जीवन्मुक्तः विदेहमुक्तव्यवहारः अपि अज्ञकल्पित एव न परमार्थः । स्वस्वाभाविक-आत्मलाभरूपे ज्ञानफले मुक्तिभेदविशेषस्य अपि असम्भवात् । नापि ज्ञानोदये जाते विदेहतापत्तिः । स्वविरोधि-अंशस्य एव ज्ञानेन बाधितत्वात् । ज्ञान-अधिकबलस्य प्रारब्धकर्मणः फलत्वात् देहधारणस्य तस्य च उपजीव्यत्वेन ज्ञान-अविरुद्धत्वात् । उपादानभूतनिद्रानाशे अपि स्वप्नसंस्कारस्य किञ्चित् कालं अनुवृत्तिवद् अज्ञाननाशे अपि यावत् प्रारब्धं देहादिप्रतिभास उपपन्नः एव । स च चित्रव्याघ्र इव दृश्यमानः कौतुकाय एव न बन्धाय भवति । कथं इति चेत् ? सदेहप्रतिभासात् च अन्य-अज्ञजनदृष्ट्या एव न तु स्वदृष्ट्या भवति । स्वनिश्चयेन तु स्वयं विदेहः एव भवति । अतः स्वरूप-अवस्थितेः समत्वे जीवन्मुक्ति-विदेहमुक्त्योः स्वदृष्ट्या भेदकल्पना-असम्भवात् । अतः न अनयोः स्व-अनुभवतः विशेषः । ननु भोक्तृत्व-अभोक्तृत्वकृतः विशेषः तयोः स्यात् । प्रारब्धभोगार्थत्वात् देहस्थितेः इति चेत् । न । भोक्तृत्व-अभिमानेन भोगास्वादने भोगकृतः विशेषः स्यात् । न तु असङ्ग-उदासीन-आत्मैकात्म्यं गतस्य विदुषः अभिमानलेशः अपि सम्भावयितुं शक्यते । विदुषा क्रियमाणः सर्वव्यवहारः अपि कर्तृत्वादि-अभिमानशून्यः इति न अनर्थाय । व्यवहारकाले अपि स्वरूप-प्रच्युति असम्भवात् । सर्वभेदव्यवहारकल्पके अज्ञाने विनष्टे ज्ञानमात्रपरिशेषे समे सति जीवन्मुक्तिविदेहमुक्त्योः न अणुमात्रं अपि स्वदृष्ट्या भेदः भवति इति अन्यत्र विस्तरः । दैविकः इति अस्य अयं भावः । आत्मलाभार्थं दैवं प्रधानं पौरुषं तु अप्रधानं इति । न खलु कार्यसामान्यं पौरुषमात्रेण वा दैवमात्रेण वा सिद्ध्यति । पौरुषस्य अनुग्राहकतया दैवानुकूल्य-अभावे कार्यं न सिद्धयति अध्यक्षं इदं सर्वेषाम् । अतः एव दुर्दैवानां बहुशः कृतप्रयत्नानां अपि न आत्मलाभः पुरुषार्थो वा सिद्ध्यति । तत्र को हेतुः ? दैवप्रातिकूल्यं एव इति निश्चयः । दैवपौरुषयोः भूयान् विवादः दृश्यते वादिनां प्रधानत्वे । भगवतः श्रीरमणस्य तु दैवपौरुष-उभयसम्मेलनेन एव पुरुषार्थः सिद्ध्येत् इति मतम् । ``मानसं तु किं मार्गणे कृते'' इति आरभ्य ``किं स्वरूपमित्यात्मदर्शने'' इति एतावत् पर्यन्तं पौरुषप्रयत्नरूप-आत्मविचारक्रमः कथितः । अवसाने च दैवं कथितं इति उभयसम्मिलितत्वं भगवतः मतं इति श्लिष्यते एव । अतः एव योगीश्वरेण श्रीयाज्ञवल्क्येन अपि एवं उक्तम् । ``दैवे पुरुषाकारे च कार्यसिद्धिः व्यवस्थिता'' इति । अतः मन्यामहे महर्षेः मतं एव बहुमतं सर्वेषां इति । तच्च दैवं प्राक्तनं कर्म वा प्राक्तनं पौरुषं वा कालयदृच्छानियति-आदिरूपं वा नवग्रहादिरूपं वा यथातथा भवतु । न तद्विशेषेसु आग्रहः । परन्तु अदृष्टसहितेन दृष्टप्रयत्नेन एव पुरुषार्थलाभः मुमुक्षूणां इति । अथवा दैवं अरुणाचलेश्वरशक्तिपातः । ततः तत्सम्पन्नः दैविकः स्वयं एव भगवान् श्रीरमणः । अहं इव अन्यः अपि एवं ईश्वर-अनुग्रहात् तत्पदं अश्नुते इति । अन्यथा मानुषाणां ``त्रिभिर्क्रणवा (अवरोधः) जायत'' इति श्रुतौ देवादि ऋणित्वश्रवणात् ``तस्मात् एषां तन्नप्रियं यत् एतत् मनुष्याः विद्युः इति श्रुतौ च देवकृतविद्या-विघ्नप्रतिपादनात् कृतोपि पौरुषप्रयत्नः विफलः एव भवेत् । श्रुतिः अपि आह - ``यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् । '' ``यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥ '' इत्यादिना । इह इति लोकान्तरप्राप्यत्वं व्यवच्छिनत्ति । ``इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । '' ``इह चेद् अवेदीत् अथ सत्यमस्ति । '' ``ईश्वरानुग्रहादेव पुंसां अद्वैतवासना । महामयकृतत्राणा द्वित्राणां उपजायते ॥ '' इत्यादि वचनात् । विन्दति इति अनेन पुरुषार्थ-भागिनः पुरुषस्य दौर्लभ्यं द्योतयति । ``बहूनां जन्मनामन्ते,'' ``अनेकजन्मसंसिद्धः'' ``मनुष्याणां सहस्रेषु'' इत्यादि वचनात् । तस्मात् सर्वलाभोत्तमलाभं उत आत्मलाभार्थं पूर्वोक्तपौरुषप्रयत्नेन सह दैवानुग्रह अपि आसादनीयः इति भगवद्-उपदेशसारः । परिसमाप्तः समस्तशास्त्रार्थसारसङ्ग्रहभूत उपदेशसारः । अथ इदानीं स्व-उक्तार्थे मुमुक्षूणां विश्वासं अभिवर्धयितुं उपदेशसारस्य अस्य आगमसंप्रदायपरिशुद्धिं अन्ते भगवान् वर्णयति- अहमपेतकं निजविभानकम् । महदिदं तपो रमणवागियम् ॥ ३०॥ अहमिति । अहमा अहम्त्वेन अपेतकं वर्जितं कर्तृत्व-अभिमानरहितं इत्यर्थः । निरहम्भावसहजब्रह्मस्थितिकं इति यावत् । अतः एव निजविभानकं निजं स्वीयं आत्मीयं न अन्यापेक्षं विभानं प्रतिभानं स्फुरणं इति यावत् । सहज-आत्मस्थितौ स्वयं एव स्फुरितं इति भावः । दैविकतपः प्रभावप्राप्तत्वं आह । ``महदिदं तपः'' इति । महत् ब्रह्म तद्विषयकं तद्रूपं वा इदम्-अन्तरं यत् तपः ज्ञानमयं तपः सा एव इयं ग्रन्थरूपा रमणवाक् । रमणस्य वाक् वाक्यं उपदेशः इत्यर्थः । निरहम्भाव-आत्मसहजस्थिति-ज्ञानतपोरूपः अयं श्रीरमण-उपदेशसारः इत्यर्थः । अहमपेतकं इति अनेन बुद्धिपूर्वकत्वनिरासः । निजविभानकं इति अनेन स्वयम्प्रतिभान-वेदसमत्वं अभिमतम् । ``महदिदं तप'' इति स्वीयकठिनतपस्सम्पादितत्वं अनायासलक्षणज्ञानमयत्वं मुमुक्षूपादेयज्ञानविचार-सार-सङ्ग्रहरूपत्वं इति एवं आदिकं सूचितं । रमणवाक् इति अनेन मुमुक्षूणां आत्मसमतासम्पादकं इति ध्वनितम् । उपदेशसाराख्य-उपनिषद्-द्रष्टुः महर्षेः नामधेय-उल्लेखनं च इति सर्वं रमणीयम् । जयन्ति रमणाचार्यं पादपाथोब्जरेणवः । विरजस्का विराजन्ते यच्छिरस्का नरालयः ॥ १॥ अन्विष्य खिन्नौ विधिमायवौ यत् महोद्यमेनापि महः पुरस्थम् ॥ १॥ तदेव यं शक्तिनिपातदम्भात् वव्रे स्वयं तं रमणं वृणीमः ॥ २॥ यत्कृपालवमात्रेण तीर्णोस्मि भवसागरम् । श्रीगुरून् रमणाभिख्यान् प्रणतोस्मि शिवङ्करान् ॥ ३॥ क्वचैतत्ग्रन्थगाम्भीर्यं क्व मे मन्दमनीषिता । तथापि अस्याः कृतेर्मूलं रमणीयनिरीक्षणम् ॥ ४॥ जाग्रत्स्वप्नसुषुप्त्यतीतमखिलाधिष्ठानमाभ्यन्तरं प्रत्यक् ब्रह्म रसायनं सुखधनं पूर्णं परं पावनम् । स्वात्मज्योतिरनादिमध्य निधनं मायाविहीनं शिवं सर्वज्ञं हृदि मे चकास्तु सततं संसारविच्छित्तये ॥ ५॥ मुक्तिं सिषाधयिषतां अवनाय नॄणां आनन्दबोधमगुणं स्वमपास्य रूपम् । भान्तं गुरोर्भुवनमङ्गलविग्रहेण शोणाचलैक निलयं रमणं नतास्मः ॥ ६॥ निर्दोषं निर्गुणं वस्तु लोकेस्मिन्नोपलभ्यते । अतो मे साहसं सन्तः सहन्तां स्निग्धचेतसः ॥ ७॥ यज्ञेशमखिपुत्रेण जगदीश्वरशास्त्रिणा । कृत्रा साधुमुदे भूयात् व्याख्या तत्त्वसुबोधिनी ॥ ८॥ इति भगवच्छ्रीमद्रमणमहर्षेः उपदेशसारस्य इञ्चिक्कौल्लैग्रामवासिना यज्ञेशमखिसूनुना, अभयाम्बागर्भसम्भवेन शास्त्ररत्नाकर, आत्मविद्याभूषण, विद्यालङ्कार बिरुदालङ्कृतेन जगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या समाप्ता । हृदयकमलवासिने श्रीमते रमणाय नमः ।