अक्षर आकार:

स्वात्मसाक्षात्कारः

SvatmasakShatkara

स्वात्मसाक्षात्कारः

॥ स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ (सर्वज्ञानोत्तरवृत्तौ) अथान्यं सम्प्रवक्ष्यामि उपायं तत्वतो गुह । अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ॥ १॥ येन विज्ञायते सम्यक् यं ज्ञात्वा तु शिवो भवेत् । न कस्य चिन्मयाख्यातं तद्विज्ञानं श्रुणुष्व मे ॥ २॥ गुरुपारम्परायातमदृष्टं सर्वादिभिः । भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ॥ ३॥ योऽसौ सर्वगतो देवः सर्वात्मा सर्वतोमुखः । सर्वतत्त्वमयोऽचिन्त्यः सर्वस्योपरि संस्थितः ॥ ४॥ सर्वतत्त्वव्यतीतश्च वाङ्मनोनामवर्जितः । सोऽहमेवमुपासीत निर्विकल्पेन चेतसा ॥ ५॥ यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् । निर्विकल्पमनिर्देश्यं हेतुदृष्टान्तवर्जितम् ॥ ६॥ अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् । अविर्भाव्यमसन्देहं तदहं नात्र संशयः ॥ ७॥ अहमेव परो देवः सर्वमन्त्रमयः शिवः । सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ॥ ८॥ मया व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् । अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ॥ ९॥ अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् । शिवाद्यवनिपर्यन्तं तत्सर्वं मयि संस्थितम् ॥ १०॥ यच्चकिञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ॥ ११॥ अहमात्मा शिवोह्यन्यः परमात्मेति यः स्मृतः । एवमुपासयेन्मोहान्न शिवत्वमाप्नुयात् ॥ १२॥ शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् । यश्शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा ॥ १३॥ अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः । सर्वगं सर्वदेहस्थं पश्यते नात्र संशयः ॥ १४॥ एवमेकात्मभावेन संस्थितस्य तु योगिनः । सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ॥ १५॥ योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ १६॥ अविज्ञातः पशुः सो हि सृष्टिधर्मसमाश्रितः । विज्ञातः शाश्वतः शुद्धः स शिवो नात्र संशयः ॥ १७॥ तस्मादात्मा सदा वेद्यः सुविचार्यः विचक्षणैः । परापरविभागेन स्थूलसूक्ष्मविभागशः ॥ १८॥ परः परमनिर्वाण अपरः सृष्टिभेदतः । स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैकसंस्थितः ॥ १९॥ अथवा बहुशोऽनेन किमुक्तेन षडानन । वाग्विकल्पविशेषेण मनः संमोहकारिणा ॥ २०॥ सर्वे धर्मात्मनः सन्ति यद्येवं परिकल्पयेत् । तत्तद्भवत्यसन्देहात् सदा तद्भावभावतः ॥ २१॥ इत्येवमात्मविज्ञानं कथितं तु समासतः । ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासयेत् ॥ २२॥ न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः । आत्मविज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥ २३॥ संसारार्णवमग्नानां भूतानां शरणार्थिनाम् । नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ॥ २४॥ आत्मानं परमो भूत्वा यो विजानाति तत्त्वतः । स मुच्यते त्वयत्नेन सर्वावस्थां गतोऽपि सन् ॥ २५॥ आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते । तदात्मानमुपासीत योऽयमात्मा परस्तु सः ॥ २६॥ न प्राणो नैव चापानो विशिष्टकरणस्तथा । सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ॥ २७॥ न चैवाभ्यन्तरे बाह्ये नातिदूरे समीपतः । स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ॥ २८॥ तिर्यगूर्ध्वमधश्चैव बहिरन्तश्च नित्यशः । सर्वशून्यं तमाभासमात्मानं भावयेत्सदा ॥ २९॥ नैव शून्यं न चाशून्यमशून्यं शून्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३०॥ निरामयं निराधारं वर्णरूपविवर्जितम् । निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ॥ ३१॥ निराश्रयं निरालम्बमप्रमेयमनूपमम् । स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ॥ ३२॥ संन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः । भावयेदात्मनात्मानमात्मन्येवात्मनि स्थितम् ॥ ३३॥ स देशजातिसम्बन्धान्वर्णाश्रमसमन्वितान् । भावानेतान् परित्यज्य स्वरूपं भावयेद्बुधः ॥ ३४॥ मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः । सर्वभावान् परित्यज्य ह्यात्मभावं तु भावयेत् ॥ ३५॥ अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ३६॥ नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३७॥ अचिन्त्यं चिन्तयेन्नित्यं कृत्वा चित्तं निराश्रयम् । निस्तत्त्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ॥ ३८॥ निर्विकल्पमचिन्त्यं च हेतुदृष्टान्तवर्जितम् । तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ॥ ३९॥ निरस्यविषयासङ्गं मनोवृत्तिं विवर्जयेत् । यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ॥ ४०॥ सर्वदिग्देशकालेषु योगाभ्यासो विधीयते । सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ॥ ४१॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानमलिङ्गवस्तु गवां समाः ॥ ४२॥ यस्मात्सर्वगतं ब्रह्म व्यापकं सर्वतोमुखम्। तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ॥ ४३॥ नैव तस्य कृतेनार्थो न कार्यो न विधिः स्मृतः । न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ॥ ४४॥ गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोऽपि पिबन्नपि । सर्वदा सर्वकालेषु वातशीतातपेषु च॥ ४५॥ भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु । आत्मन्यवस्थितः शान्त आत्मतृप्तस्तु निष्कलः ॥ ४६॥ नागतोऽहं गतो वापि नागमिष्येन गच्छता । न भूतो न भविष्यामि प्रकृत्यस्थिरधर्मणी ॥ ४७॥ प्राकृतानि तु कर्माणि प्रकृतिः कर्मसम्भवा । नाहं किञ्चित्करोमीति युक्तं मन्येत तत्त्ववित् ॥ ४८॥ नैव प्रकृतिबन्धोऽस्ति मुक्त इत्यभिधीयते । न चैव प्राकृतैर्दोषैर्लिप्यते तु कदाचन ॥ ४९॥ निर्नाश्य तमसोरूपं दीपो यद्वत् प्रकाशते । आभात्येवं परो ह्यात्मा त्यक्त्वा अज्ञानजं तमः ॥ ५०॥ स्नेहक्षयाद्यथा दीपो बलान्निर्वाणमिच्छति । तथात्मभावनायुक्तः स्वात्मन्येवावतिष्ठते ॥ ५१॥ घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नयति नाकाशं तद्वज्जीवो नभोपमः ॥ ५२॥ भिन्ने कुम्भे यथाकाशमाकाशत्वं प्रतिपद्यते । विभिन्ने प्राकृते देहे तथात्मा परमात्मनि ॥ ५३॥ इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा । सर्वबन्धाद्विनिर्मुक्तः सर्वज्ञः सर्वगो भवेत् ॥ ५४॥ तदागमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् । अस्मात्परं नान्यदिहास्ति किञ्चित् ज्ञात्वैव सन्त्यज्य मनोविकल्पम् ॥ ५५॥ विज्ञानमेवं समुपास्य विद्वान् विशत्यकामं सततं नियुक्तः । सर्वत्रगामी भवतीह मुक्तः तद्धर्मधर्मी बहिरन्तःसंस्थः ॥ ५६॥ सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहः स शिवत्वमेति ॥ ५७॥ न दीक्षा न तु संस्कारो न मुद्रा न च मण्डलम् । न जपो नार्चनं स्नानं न होमो नैवसाधनम् ॥ ५८॥ धर्माधर्मफलौ न स्तः नैव पिण्डोदकक्रिया । नियमादि न तस्यास्ति नोपवासो विधीयते ॥ ५९॥ प्रवृत्तिश्च निवृत्तिश्च ब्रह्मचर्यव्रतानि च । अग्निप्रवेशनं नास्ति पतनं भृगुनोदके ॥ ६०॥ शिवज्ञानामृतं पीत्वा विचरस्व यथा सुखम् । शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ॥ ६१॥ सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः । अतः परतरं नास्ति विज्ञेयं कुत्रचित् गुह ॥ ६२॥ इति श्रीमत्सर्वज्ञानोत्तरे स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ पाठभेद: पाठभेदाः - न जपो नार्चनं स्नानं न होमो नैव साधनम् । धर्माधर्मफलं नास्ति न पिण्डोदकक्रिया ॥ ५८॥ नियमानि न तस्यास्ति नोपवासो विधीयते । प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ॥ ५९॥ अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके । शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ॥ ६०॥ शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः । सत्यं सत्यं पुनः सत्यं त्रिसत्यं स्मयः कृतः ॥ ६१॥ अतः परतरं नास्ति विज्ञेयं कुत्रचिद्गुह । विमलयति सर्वभावान् विमलात्मा विमलबुद्धि दृढधीः ॥ ६२॥ सर्वं विमलं पश्यति विमलो विमलेन भावेन । जाग्र जाग्र जाग्र स्वप्नं तथा जाग्रसुषुप्तिकम् ॥ ६३॥ जाग्र तुर्यं कालपरमतीतं परदर्शनम् । विश्वाग्रस्ये प्रशान्तश्च शिवदर्शनमेव च ॥ ६४॥ सायुज्यमितिभेदेन चोर्ध्वमेकादशस्मृतः ॥ ६५॥ From http://shodhganga.inflibnet.ac.in/handle/10603/1354