अक्षर आकार:

स्वप्नोदितम्

svapnoditam

स्वप्नोदितम्

देशिकानुग्रहोत्तुङ्गतरङ्गशिशिराशयः । निवसामि निजानन्दपरिपूर्णैकभूमनि ॥ १॥ देशिकानुग्रहोत्तुङ्गमत्तमातङ्गमस्तकम् । आरुह्य विहराम्यात्मपदे समरसोज्ज्वले ॥ २॥ देशिकानुग्रहोत्तङ्गगिरिश‍ृङ्गमुपेयुषः । तृणवद्भाति मे सर्वं जगदत्यल्पमाततम् ॥ ३॥ देशिकानुग्रहोदारग्रहग्रस्तात्मवानहम् । न किञ्चिदपि जानामि जगदेतच्चराचरम् ॥ ४॥ देशिकानुग्रहोदारवेत्रोदस्तमनोग्रहः । विजानामि जगत्सर्वमात्ममात्रतयाधुना ॥ ५॥ देशिकानुग्रहोदारतरणिप्रसरोद्भवे । स्वानन्दैकरतं वीक्षे समुल्लसितमद्भुतम् ॥ ६॥ देशिकानुग्रहोदारतुषारकिरणोदये । आश्चर्यमान्तराम्भोजमुन्निद्रमभवन्मम ॥ ७॥ देशिकानुग्रहोदारदावानललता भृशम् । दग्ध्वाशेषं जगज्जालमलं मां शीतयत्यहो ॥ ८॥ देशिकानुग्रहोदाररवितप्तमनोमरौ । स्वानन्दकन्दलः कश्चिदाश्चर्यमुदभूद्भृशम् ॥ ९॥ देशिकानुग्रहोदारसमीरे वाति सर्वतः । मम चित्तमहाम्भोधिश्चित्रं न स्पन्दते कुतः ॥ १०॥ देशिकानुग्रहोदारदारैः सन्ततसङ्गिनः । मम भावे मनो लीनं निवृत्ताशेषवृत्तिकम् ॥ ११॥ देशिकानुग्रहोदारपीताम्बरधरस्य मे । शीततापादिभिर्दुःखं कथं सङ्घीभविष्यति ॥ १२॥ देशिकानुग्रहोदारसाम्राज्याधिपतेर्मम । अशेषमभवद्वश्यमतः किमविशेषतः ॥ १३॥ देशिकेन्द्रकृपाखड्गखण्डिताशारिमण्डलः । अखण्डितनिजानन्दमण्डले निवसाम्यहम् ॥ १४॥ देशिकेन्द्रकृपाखड्गकृत्तचित्तमृगोत्तमः । शान्तभीतिश्चराम्यन्तरात्मकान्तारसन्ततौ- ॥ १५॥ देशिकेन्द्रकृपाखड्गविलूनेऽज्ञानपादपे । संसारघोरवेतालः क्व गतो वा न वेद्म्यहम् ॥ १६॥ देशिकेन्द्रकृपाचन्द्रचन्द्रिकाशीतलाकृतिः । संसारसौरसन्तापं' नैवाहं वेद्मि किञ्चन ॥ १७॥ देशिकेन्द्रकृपाचन्द्रसमेधितचिदम्बुधौ । निमग्नोऽहं न पश्यामि स्वभिन्नं वस्तु किञ्चन ॥ १८॥ देशिकेन्द्रकृपाचन्द्रनिरस्तान्तस्तमस्ततिः । किमप्यहं न पश्यामि किमाश्चर्यमभूदिह ॥ १९॥ देशिकेन्द्रकृपाचन्द्रप्रफुल्लानन्दकैरवम् । आघ्रायाघ्राय हृष्यामि स्वात्मन्येव मुहुर्मुहुः ॥ २०॥ देशिकेन्द्रकृपाचन्द्रद्रुतचन्द्रोपलान्तरः । विश्रान्तिमाप्तवानस्मि विज्ञानैकरसे पदे ॥ २१॥ कृतार्थोऽस्मि कृतार्थोऽस्मि देशिकानुग्रहादहम् । अतः सर्वे जनो यूयमुपाद्ध्वं देशिकोत्तमम् ॥ २२॥ इति स्वप्नोदितां निष्ठामनुस्मरति यः पुमान् । सोऽसौ सत्यपरानन्दपदवीं याति पावनीम् ॥ २३॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं स्वप्नोदितं सम्पूर्णम् । ॥ हरिः ॐ ॥