अक्षर आकार:

श्रुतिसारसमुद्धरणम्

Shrutisarasamuddharanam

श्रुतिसारसमुद्धरणम्

त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वं शक्तेस्तनूजतनयं परमेष्ठिकल्पम् । जीमूतमुक्तविमलाम्बरचारुवर्णं वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ १॥ सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निरविद्यत कश्चिदतो निखिला- दविनाशि कृतेन न लभ्यमिति ॥ २॥ प्रतिपित्सुरसावविनाशि पदं यतिधर्मरतो यतिमेव गुरुम् । विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३॥ भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् । कृपया शरणागतमुद्धर मा- मनुशाध्युपसन्नमनन्यगतिम् ॥ ४॥ विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ ५॥ विसृजान्नमयादिषु पञ्चसु ता- महमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमृतं विगुणं हृदयस्थमवेहि सदाहमिति ॥ ६॥ जलभेदकृता बहुतेव रवे - र्घटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तु तथा बहुता तव बुद्धिदृशोऽविकृतस्य सदा ॥ ७॥ दिनकृत्प्रभया सदृशेन तदा जनधीचरितं सकले स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ८॥ उपरागमपेक्ष्य मतिर्विषयै- र्विषयावधृतिं कुरुते तु यतः । तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥ ९॥ मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतस्तु ततः । यदि चात्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ १०॥ चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धचिता । मतिभेदगुणो न हि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ ११॥ विदितत्वमविप्रतिपन्नतया मतिषु प्रगतं विषयेषु यथा । यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ १२॥ परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः । मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ १३॥ विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधौ । अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलितात्मचिता ॥ १४॥ पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वगुणोऽपि यतः । अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ १५॥ यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् । विफलश्च तदा विषयानुभवो ज्ञगुणो न हि सेति यदा विदिता ॥ १६॥ उपलभ्यघटादिनिभैव भवे- न्मनसो यदि संस्थितिरेकविधा । पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ १७॥ अवगन्त्रवगम्यचिदात्मधियो- रहमित्यभिमानविहीनतया । स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ १८॥ अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् । नयनं प्रहिणोति तथान्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९॥ अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि । उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २०॥ चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः । इति चिन्त्यमिदं मनसानलसै- रुपपत्तिभिरात्महितं यतिभिः ॥ २१॥ उपलभ्यमहङ्करणं न भवे- त्पुरुषस्य गुणो यदि तर्हि भवेत् । गुणिरूपमथावयवं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ २२॥ न गुणो गुणिनि स्थितवान्गुणिना विषयीक्रियते न च तस्य गुणैः । न हि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३॥ न परस्परमग्निगुणोऽग्निगतो विषयत्वमुपैति कदाचिदपि । न हि वह्निरपि स्वगुणं स्वगतं विषयीकुरुते स्वगुणेन भुवि ॥ २४॥ कणभुग्यमचीक्लृपदात्मगुणं गुणपूगमनित्यमनात्मगुणम् । अनयैव दिशा स निराक्रियतां न हि नित्यमनित्यगुणेन गुणि ॥ २५॥ वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः । उपमानमनित्यगुणं वियतो न हि नित्यमिहास्ति कणादमते ॥ २६॥ मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः । न हि योगवियोगमुपैति कुतो- ऽवयवित्वनिराकरणादमुतः ॥ २७॥ इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः । इति दृष्टमतोऽन्यददृष्टमपि स्वयमूह्यमिदं न परित्यजता ॥ २८॥ न हि सावयवं विगतावयवै- र्विगतावयवं च न सावयवैः । उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९॥ न हि कल्पितभागसमागमनं विगतावयवस्य घटेत कुतः । वितथत्वमतिः सुदृढा तु यतः परिकल्पितवस्तुषु नित्यमतः ॥ ३०॥ इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् । परमात्मपदं दृशिमात्रवपु- र्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ ३१॥ अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् । यत एवमतः स्थितमुक्तमदो न हि नित्यमनित्यगुणेन गुणि ॥ ३२॥ उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः । विषयाकृतिरञ्जितधीगुणव- द्विषयत्वमहङ्करणस्य ततः ॥ ३३॥ विषयप्रकृतिं प्रतिपन्नवतीं मतिवृत्तिमहङ्करणं च मतेः । उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ ३४॥ ननु देहभृदेष कथं भवता- भिहितः परमात्मसदुक्तिरिति । न विरुद्धमवादिषमेतमहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५॥ अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति । श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ॥ ३६॥ यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा । श्रवणेन च यन्न श‍ृणोति सदा मनसापि च यन्मनुते न सदा ॥ ३७॥ वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् । अवगच्छ तदेव पदं परमं त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ ३८॥ परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता । अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरभ्यवदत् ॥ ३९॥ नभसोऽवयवो विकृतिश्च यथा घटिकादिनभो न भवेत्तु तथा । परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४०॥ करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः । परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१॥ जनितं वियदग्रणि येन जग- त्परमात्मसदक्षरनामभृता । प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ ४२॥ उदपद्यत खप्रमुखं हि जग- त्परमात्मन इत्यपि याः श्रुतयः । अवधार्यत आभिरभेदमतिः परमात्मसतत्त्वसमर्पणतः ॥ ४३॥ यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् । जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ ४४॥ अनृतत्वमवाद्यसकृद्विकृते- र्निरधारि सदेव तु सत्यमिति । श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति ॥ ४५॥ न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधौ घटते । परमात्मपदानुमतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६॥ स्थिरजङ्गमदेहधियां चरितं परिपश्यति योऽविकृतः पुरुषः । परमात्मसदुक्तिरसाविति य- द्भणितं तदतिष्ठिपमित्थमहम् ॥ ४७॥ पृथगेव यदाक्षरतो मतिवि- न्मकरोदकवन्न घटाम्बरवत् । न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष त इत्यपि च ॥ ४८॥ न तु वस्तुसतत्त्वविबोधनकृ- द्विनिवर्तयदप्रतिबोधमिदम् । सदुपासनकर्मविधानपरं यत एवमतो न विरोत्स्यति मे ॥ ४९॥ मनआदिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् । स्वमतिं ह्यनपोह्य यथा तु तथा त्वमसीह सदात्ममतिर्वचनात् ॥ ५०॥ अथ वा त्वमिति ध्वनिवाच्यमिदं सदसीति वदेद्वचनं गुणतः । विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ ५१॥ यदि वा स्तुतये सदसीति वदे- न्मघवानसि विष्णुरसीति यथा । त्वमिति श्रुतिवाच्यसतत्त्वकता- मथ वा सत एव वदेद्वचनम् ॥ ५२॥ यदि तत्त्वमिति ध्वनिनाभिहितः परमात्मसतत्त्वक एव सदा । किमिति स्वकमेष न रूपमवे- त्प्रतिबोध्यत एव यतो वचनैः ॥ ५३॥ अत एव हि जीवसदात्मकतां न हि तत्त्वमसीति वदेद्वचनम् । यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ ५४॥ त्वदुदाहृतवाक्यविलक्षणता वचनस्य हि तत्त्वमसीति यतः । अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ ५५॥ इतिशब्दशिरस्कपदोक्तमति- र्विहिता मनआदिषु तैर्वचनैः । न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ ५६॥ मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् । मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७॥ करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् । इति वस्तुसतत्त्वकता तु यदा विधिशब्द इतिश्च तदा तु वृथा ॥ ५८॥ मनआदि समानविभक्तितया विधिशब्दमितिं च विहाय यदि । जनकेन सता सह योगमिया- दनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९॥ ननु जीवसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् । कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥ ६०॥ प्रकृतेरभिधानपदेन यदा विकृतेरभिधानमुपैति युजाम् । अनृतत्वमतिस्तु तदा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ ६१॥ विकृतित्वमवादि मनःप्रभृते- र्बहुशः श्रुतिषु प्रकृतेस्तु सतः । अत एव समानविभक्तितया मनआदि सुवेद्यमसत्यमिति ॥ ६२॥ जनितत्वमवादि न हि श्रुतिभि- र्जनकेन सतास्य शरीरभृतः । मनआदिविकारविलक्षणतां प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३॥ यदजीजनदम्बरपूर्वमिदं जगदक्षरमीक्षणविग्रहकम् । प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ ६४॥ परमात्मविकारविभक्तमति- र्न भवत्यत एव शरीरभृतः । यत एव विकारविभिन्नमति- र्न भवत्यत एव मृषात्वमतिः ॥ ६५॥ अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः । न भवेदिह तत्त्वमसिप्रभृतौ लवणं जलमित्यभिधासु यथा ॥ ६६॥ परमात्मविकारनिराकरणं कृतमस्य शरीरभृतस्तु यतः । परमेश्वररूपविलक्षणता न मनागपि देहभृतोऽस्ति ततः ॥ ६७॥ ननु जीवसतोरणुमात्रमपि स्वगतं न विशेषणमस्ति यदा । वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ ६८॥ स्वगतं यदि भेदकमिष्टमभू- दणुमात्रमपीश्वरदेहभृतोः । अपनेतुमशक्यमदो वचनै- रमुनास्य पृथक्त्वनिषेधपरैः ॥ ६९॥ इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः । वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ ७०॥ वचनं त्ववबोधकमेव यत- स्तत एव न वस्तुविपर्ययकृत् । न हि वस्त्वपि शब्दवशात्प्रकृतिं प्रजहात्यनवस्थितिदोषभयात् ॥ ७१॥ यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया । अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ ७२॥ अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् । स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३॥ सत एव हि नाम जगत्प्रकृते- रुपधानवशादिह जीव इति । अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ ७४॥ यदि जीवसतत्त्वकतां गमये- दणिमादिगुणस्य जगत्प्रकृतेः । अणिमादिगुणोक्तिरतोऽस्य मृषा यदि वास्य शरीरभृदात्मकता ॥ ७५॥ न च संसृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् । परमेश्वरमात्मतया ब्रुवता वचनेन च तत्त्वमसीत्यमुना ॥ ७६॥ त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति । क्रियया सह नामपदं समिया- न्निरपेक्षमुपैत्यनया हि युजाम् ॥ ७७॥ न हि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति । प्रतिपादकमेषु लिङादि भवे- द्विहितादिमतेर्जनकं हि यतः ॥ ७८॥ भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः । प्रथमं त्वमसीति पदे समित- श्चरमं त्वसिना समियात्तदिति ॥ ७९॥ पुरुषोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाभिमुखः । श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ ८०॥ त्वमिति ध्वनिनाभिहितस्य यत- स्तदिति श्रुतिवाच्यसदात्मकताम् । अवदद्वचनं तत एव सतो न हि जीवसतत्त्वकतां वदति ॥ ८१॥ विषयाभिमुखानि शरीरभृतः स्वरसेन सदा करणानि यतः । स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२॥ वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् । विषयेषु च नावमिवाम्भसि य- न्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ ८३॥ इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् । स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४॥ द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् । उपदेशमपेक्ष्य सदात्ममतिः परमात्मसतत्त्वकता च सदा ॥ ८५॥ सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः । अत एव न जीवसदात्मकतां प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६॥ सदुपास्स्व(?) इति श्रुतिरत्र न ते तदसि त्वमिति श्रुतिरेवमियम् । यत एवमतो न विधित्सतता सदुपासनकर्मण इत्यमृषा ॥ ८७॥ यदि तस्य कुतश्चिदिहानयनं क्रियते तदनर्थकमेव भवेत् । पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ ८८॥ किमरे पुरुषं प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् । यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनापि विधेः ॥ ८९॥ श्रुतहानिरिहाश्रुतक्लृप्तिरपि श्रुतिवित्समयो न भवेत्तु यतः । श्रुतिभक्तिमता श्रुतिवक्त्रगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९०॥ पुरुषस्य शरीरगतात्ममतिं मृतिसम्भवहेतुमनर्थकरीम् । अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ ९१॥ विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा । वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ ९२॥ यदि नापनयेच्छ्रुतिरात्ममतिं पुरुषस्य शरीरगतामनृताम् । तदहम्मतिहेतुककर्मगतिं सुखदुःखफलामवशोऽनुभवेत् ॥ ९३॥ यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमिति । पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ ९४॥ पुरुषस्य तु मर्त्यगुणस्य भवे- त्सदुपासनया न सदात्मकता । न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ ९५॥ यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया । न च हास्यति रूपमसौ हि निजं यत ऐक्यमतिर्न भरत्युभयोः ॥ ९६॥ रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् । पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७॥ अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु । कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८॥ उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् । विपरीतमतिं जनयत्युदके रजते च तथायसि हेममतिम् ॥ ९९॥ रसवीर्यविपाकविनाशमनु प्रविनश्यति काञ्चनताप्ययसः । कृतकं हि न नित्यमिति प्रगतं समवेतमवश्यमपैति यतः ॥ १००॥ अमृतत्वमसत्पुरुषस्य यदि क्रियते सदुपासनया यजिवत् । यजिकार्यवदन्तवदेव भवे- त्कृतकस्य यतो विदिताध्रुवता ॥ १०१॥ पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः । यदि सङ्गतिरिष्यत एव तयो- रवियुक्ततया न चिरं वसतः ॥ १०२॥ फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः । न च तन्निरवद्यतयाभिमतं विदुषां बहुदोषसमीक्षणतः ॥ १०३॥ सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् । अहमस्मि शरीरमिदं च ममे- त्यविवेकमतिं विनिवर्तयति ॥ १०४॥ सकलोपनिषत्सु शरीरभृतः परमात्मपदैकविभक्तितया । उपदेशवचांस्यनयैव दिशा गमयेन्मतिमानभियुक्ततया ॥ १०५॥ द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् । शबरेण विवर्धितराजशिशो- र्निजजन्मविदुक्तिनिदर्शनतः ॥ १०६॥ यत एवमतः स्वशरीरगता- महमित्यविवेकमतिं सुदृढाम् । प्रविहाय यदक्षरमद्वयकं त्वमवेहि तदक्षरमात्मतया ॥ १०७॥ न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि । न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ १०८॥ अमनस्कमधीकमनिन्द्रियकं विरजस्कमसत्त्वतमस्कमपि ॥ अमहीजलवह्न्यनिलाम्बरकं परमक्षरमात्मतयाश्रय भोः ॥ १०९॥ करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् । तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११०॥ करणानि यदोपरतानि तदा विषयानुभवाहितवासनया । विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११॥ करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता । प्रवदन्ति सुषुप्तिममुं हि बुधा विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ ११२॥ इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तिरपि । न कदाचिदपि त्रयमस्ति ममे- त्यवगच्छ सदास्मि तुरीयमिति ॥ ११३॥ यदु जागरितप्रभृति त्रितयं परिकल्पितमात्मनि मूढधिया । अभिधानमिदं तदपेक्ष्य भवे- त्परमात्मपदस्य तुरीयमिति ॥ ११४॥ यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्टितवत् ॥ ११५॥ गगनप्रमुखं पृथिवीचरमं विषयेन्द्रियबुद्धिमनःसहितम् । जनिमज्जगदेतदभूतमिति श्रुतयः प्रवदन्त्युपमानशतैः ॥ ११६॥ कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा । प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥ ११७॥ जगतः स्थितिकारणमित्थमिदं प्रथितं रविवह्निशशित्रितयम् । स्मृतिवेदजनेषु भृशं प्रथितं श्रुतिरीरितवत्यनृतं तदिति ॥ ११८॥ यदु रोहितशुक्लसुकृष्णमिदं ज्वलनादिषु रूपमवैति जनः । तदु तैजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९॥ रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमपि । असदित्यवगम्यत एव यतो व्थभिचारवती रुचकादिमतिः ॥ १२०॥ न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः । तत एव हि सत्यतयाभिमतं कनकादिविपर्यय एषु न हि ॥ १२१॥ रुचकादिसमं ज्वलनादि भवे- दनृतत्वगुणेन तु सत्यतया । अरुणप्रमुखं ज्वलनप्रभृति- प्रकृतित्रितयं कनकादिसमम् ॥ १२२॥ अनयोपमयानृततामवद- च्छ्रुतिरग्निदिवाकरचन्द्रमसाम् । अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३॥ अनृतत्वमिदं ज्वलनप्रभृते- र्यदवादि भवेत्तदुदाहरणम् । वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४॥ प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमपास्यति तन्तुगुणम् । अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५॥ अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् । अनृतं त्वपरं विकृतिस्तु यतो- ऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६॥ अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति । इति सिद्धमतो यदवादि मया जनिमज्जगदेतदभूतमिति ॥ १२७॥ मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् । चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ १२८॥ ननु नाभ्यवदच्छ्रुतिरुद्भवनं मनसस्तु सतो न च खप्रमुखात् । कथमस्य भवेदनृतत्वगति- र्मनसो भगवन्वद निश्चयतः ॥ १२९॥ ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनापि सह । कथमस्य भवेदमृषात्वगति- र्मनसो विकृतित्वगुणस्य वद ॥ १३०॥ असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः । पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ १३१॥ मनसोऽन्नमयत्वमवादि यत- स्तत एव हि भूतमयत्वगतिः । कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ १३२॥ कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं न हि सत्यमिति । प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमां च वद ॥ १३३॥ कनके रुचकादि न पूर्वमभू- च्चरमं च न विद्यत इत्यनृतम् । अधुनापि तथैव समस्तमिदं जनिमाद्वियदादि भवेदनृतम् ॥ १३४॥ कनकादिषु यद्युषजातमभू- द्रुचकप्रमुखं पृथगेव ततः । अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ १३५॥ कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः । पृथगग्रहणात्कनकप्रभृते- रिति कारणमेव सदन्यदसत् ॥ १३६॥ ननु नाम पृथग्विकृतेः प्रकृते- रथ रूपमथापि च कार्यमतः । कथमव्यतिरिक्ततयावगमः प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ १३७॥ इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः । उपलब्धृजनैरुपलब्धिमिता न भिदास्ति ततः प्रकृतेर्विकृतेः ॥ १३८॥ विकृतिर्यदि नास्ति पृथक्प्रकृते- र्न घटेत भिदाप्यभिधाप्रभृतेः । इति धीर्विफला तव येन जनै- र्विविदे नयनेन मृदाद्यभिदा ॥ १३९॥ ननु रूपमथो अपि कार्यमथो अभिधापि नटस्य पृथग्विदिता । न पृथक्त्वमुपैति नटः किमिति प्रतिवाच्यमवश्यमिदं कुशलैः ॥ १४०॥ असतो न कथञ्चन जन्म भवे- त्तदसत्त्वत एव खपुष्पमिव । न सतोऽस्ति भवः पुरतोऽपि भवा- द्यत आत्मवदेव सदिष्टमिति ॥ १४१॥ कपिलासुरिपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् । न कदाचन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२॥ प्रकृतावविशिष्टतया यदभू- दधुना तु तदेव विशेषयुतम् । निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ १४३॥ सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न चेति वद । यदि विद्यत एव पुरा प्रकृता- वधुनापि विशेषयुतत्वमसत् ॥ १४४॥ यदि नास्ति पुरा स गुणः प्रकृता- वसदुद्भवनं भवतोऽभिमतम् । जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ १४५॥ भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः । कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ १४६॥ असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः । उपपत्तिविरुद्धतया सुभृशं तदभाणि मयापि विरुद्धतया ॥ १४७॥ प्रतिषिद्धमिदं कणभोजिमतं हरिणापि समस्तगुरोर्गुरुणा । वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ १४८॥ असतश्च सतश्च न जन्म भवे- दिति पूर्वमवाद्युपपत्तियुतम् । सदसच्च न जायत एव कुतो न हि वस्तु तथाविधमास्ति यतः ॥ १४९॥ सदसत्त्वमतीत्य मनःप्रभृते- र्न कथञ्चन वृत्तिरिहास्ति यतः । तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेदमिति ॥ १५०॥ यदि नाम कथञ्चिदमुष्य भवः सदसत्त्वमपेक्ष्य भविष्यति वः । अमृषात्वममुष्य तथापि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१॥ मनसोऽनृततैवमवादि यत- स्तत एव हि तस्य मृषा चरितम् । यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥ १५२॥ यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसर्पविसर्पणवत् ॥ १५३॥ निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया । श्रुतियुक्तिबलेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ १५४॥ यदपूर्वमबाह्यमनन्तरकं न च किञ्चन तस्य भवत्यपरम् । इति वेदवचोऽनुशशास यतो वितथं परतोऽन्यदतः प्रगतम् ॥ १५५॥ प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती । अवबोधघनत्वमतोऽन्यदस- ल्लवणैकरसत्वनिदर्शनतः ॥ १५६॥ लवणैकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः । अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाहमिति ॥ १५७॥ अणु नो न च तद्विपरीतगुणं न च ह्रस्वमतो न च दीर्घमपि । प्रतिषिद्धसमस्तविशेषणकं परमक्षरमात्मतयाश्रय भोः ॥ १५८॥ असुबुद्धिशरीरगुणान्षडिमा- नविवेकिजनैर्दृशिधर्मतया । प्रतिपन्नतमान्प्रविहाय शनै- र्दृशिमात्रमवेहि सदाहमिति ॥ १५९॥ अहिनिर्ल्वयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा । परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ १६०॥ अविवेकत आत्मतया विदितं कुशरीरमिदं भवताप्यहिवत् । अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदात्मकमात्मतया ॥ १६१॥ रजनीदिवसौ न रवेर्भवतः प्रभया सततं युत एष यतः । अविवेकविवेकगुणावपि तौ भवतो न रवेरिव नित्यदृशेः ॥ १६२॥ परिशुद्धविबुद्धविमुक्तदृशे- रविवेकविवेकविवर्जनतः । मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ १६३॥ न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः । न हि कस्यचिदात्मनि कर्म भवे- न्न च कश्चिदिहास्ति मदन्य इति ॥ १६४॥ अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति । न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५॥ गगने विमले जलदादिमले सति वासति वा न भिदास्ति यथा । त्वयि सर्वगते परिशुद्धदृशौ न भिदास्ति तथा द्वयभेदकृता ॥ १६६॥ अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् । अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ १६७॥ बहुनाभिहितेन किमु क्रियते श‍ृणु सङ्ग्रहमत्र वदामि ततः । त्वयि जागरितप्रभृति त्रितयं परिकल्पितमित्यसदेव सदा ॥ १६८॥ परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः । उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ १६९॥ यदबाह्यमनन्तरमेकरसं यदकार्यमकारणमद्वयकम् । यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ १७०॥ इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् । इति पिप्पलभक्ष इवाभ्यवद- द्ध्यवशिष्टमतिं विनिवारयितुम् ॥ १७१॥ इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् । अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ १७२॥ अधुनास्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः । प्रहसान्विषयान्मृगतोयसमा- न्विचरामि महीं भवता सहितः ॥ १७३॥ तव दास्यमहं भृशमामरणा- त्प्रतिपद्य शरीरधृतिं भगवन् । करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति ॥ १७४॥ गुरुशिष्यकथाश्रवणेन मया श्रुतिवच्छ्रुतिसारसमुद्धरणम् । कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ १७५॥ भगवद्भिरिदं गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः । गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यभजन्न पठेत् ॥ १७६॥ निगमोऽपि च यस्य इतिप्रभृति- र्गुरुभक्तिमतः कथितं गुरुणा । प्रतिभाति महात्मन इत्यवद- त्पठितव्यमतो गुरुभक्तियुतैः ॥ १७७॥ येषां धीसूर्यदीप्त्या प्रतिहतमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्यो मुक्ताः स्थितास्तान्यतिवरमहितान्यावदायुर्नमामि ॥ १७८॥ भूः पादौ यस्य खं चोदरमसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै- श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९॥ इति श्री तोटकाचार्यविरचितं श्रुतिसारसमुद्धरणं समाप्तम् ॥ The text is composed in a meter called toTaka.