अक्षर आकार:

शाण्डिल्य भक्ति सूत्रम्

shANDilya bhakti sUtram

शाण्डिल्य भक्ति सूत्रम्

प्रथमोऽध्यायः प्रथममाह्निकम् ०१ ०१ ००१ अथातो भक्तिजिज्ञासा ॥ १॥ ०१ ०१ ००२ सा पराऽनुरक्तिरीश्वरे ॥ २॥ ०१ ०१ ००३ तत्संस्थस्यामृतत्वोपदेशात् ॥ ३॥ ०१ ०१ ००४ ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः ॥ ४॥ ०१ ०१ ००५ तयोपक्षयाच्च ॥ ५॥ ०१ ०१ ००६ द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः ॥ ६॥ ०१ ०१ ००७ न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् ॥ ७॥ ०१ ०१ ००८ अत एव फलानन्त्यम् ॥ ८॥ ०१ ०१ ००९ तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् ॥ ९॥ द्वितीयमाह्निकम् ०१ ०२ ००१ सा सुख्येतरापेक्षितत्वात् ॥ १०॥ ०१ ०२ ००२ प्रकरणाच्च ॥ ११॥ ०१ ०२ ००३ दर्शनफलमिति चेन्न तेन व्यवधानात् ॥ १२॥ ०१ ०२ ००३ दृष्टत्वाच्च ॥ १३॥ ०१ ०२ ००४ अत एव तदभावाद्वल्लवीनाम् ॥ १४॥ ०१ ०२ ००५ भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् ॥ १५॥ ०१ ०२ ००६ प्रागुक्तं च ॥ १६॥ ०१ ०२ ००७ एतेन विकल्पोऽपि प्रत्युक्तः ॥ १७॥ ०१ ०२ ००८ देवभक्तिरितरस्मिन् साहचर्यात् ॥ १८॥ ०१ ०२ ००९ योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥ १९॥ ०१ ०२ ०१० गौण्या तु समाधिसिद्धिः ॥ २०॥ ०१ ०२ ०११ हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥ २१॥ ०१ ०२ ०१२ तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् ॥ २२॥ ०१ ०२ ०१३ प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः ॥ २३॥ ०१ ०२ ०१४ नैव श्रद्धा तु साधारण्यात् ॥ २४॥ ०१ ०२ ०१५ तस्यां तत्त्वे चानवस्थानात् ॥ २५॥ ०१ ०२ ०१६ ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥ २६॥ समाप्तश्च प्रथमोऽध्यायः ॥ १॥ द्वितीयोऽध्यायः प्रथममाह्निकम् ०२ ०१ ००१ बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् ॥ २७॥ ०२ ०१ ००२ तदङ्गानां च ॥ २८॥ ०२ ०१ ००३ तामैश्वर्यपरां काश्यपः परत्वात् ॥ २९॥ ०२ ०१ ००४ आत्मैकपरां बादरायणः ॥ ३०॥ ०२ ०१ ००५ उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम् ॥ ३१॥ ०२ ०१ ००६ वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात् ॥ ३२॥ ०२ ०१ ००७ न च क्लिष्टः परः स्यादनन्तरं विशेषात् ॥ ३३॥ ०२ ०१ ००८ ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् ॥ ३४॥ ०२ ०१ ००९ अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् ॥ ३५॥ ०२ ०१ ०१० सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात् ॥ ३६॥ ०२ ०१ ०११ प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥ ३७॥ ०२ ०१ ०१२ तत्प्रतिष्ठा गृहपीठवत् ॥ ३८॥ ०२ ०१ ०१३ मिथोऽपेक्षणादुभयम् ॥ ३९॥ ०२ ०१ ०१४ चेत्याचितोर्न तृतीयम् ॥ ४०॥ ०२ ०१ ०१५ युक्तौ च सम्परायात् ॥ ४१॥ ०२ ०१ ०१६ शक्तित्वान्नानृतं वेद्यम् ॥ ४२॥ ०२ ०१ ०१७ तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः ॥ ४३॥ ०२ ०१ ०१८ सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थ- प्राणस्थानतदीयतासर्वतद्भा- वाप्रातिकूल्यादीनि च स्मरणेभ्यो वाहुल्यात् ॥ ४४॥ ०२ ०१ ०१९ द्वेषादयस्तु नैवम् ॥ ४५॥ ०२ ०१ ०२० तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा ॥ ४६॥ ०२ ०१ ०२१ जन्मकर्मविदश्चाजन्मशब्दात् ॥ ४७॥ ०२ ०१ ०२२ तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥ ४८॥ ०२ ०१ ०२३ मुख्यं तस्य हि कारुण्यम् ॥ ४९॥ ०२ ०१ ०२४ प्राणित्वान्न विभूतिषु ॥ ५०॥ ०२ ०१ ०२५ द्यूतराजसेवयोः प्रतिषेधाच्च ॥ ५१॥ ०२ ०१ ०२६ वासुदेवेऽपीति चेन्नाकारमात्रत्वात् ॥ ५२॥ ०२ ०१ ०२७ प्रत्यभिज्ञानाच्च ॥ ५३॥ ०२ ०१ ०२८ वृष्णिषु श्रैष्ठ्येन तत् ॥ ५४॥ ०२ ०१ ०२९ एवं प्रसिद्धेषु च ॥ ५५॥ द्वितीयमाह्निकम् ०२ ०२ ००१ भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात् ॥ ५६॥ ०२ ०२ ००२ रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम् ॥ ५७॥ ०२ ०२ ००३ अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात् ॥ ५८॥ ०२ ०२ ००४ ताभ्यः पावित्र्यमुपक्रमात् ॥ ५९॥ ०२ ०२ ००५ तासु प्रधानयोगात् फलाधिक्यमेके ॥ ६०॥ ०२ ०२ ००६ नाम्नेति जैमिनिः सम्भवात् ॥ ६१॥ ०२ ०२ ००७ अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् ॥ ६२॥ ०२ ०२ ००८ ईश्वरतुष्टेरेकोऽपि बली ॥ ६३॥ ०२ ०२ ००९ अबन्धोऽर्पणस्य मुखम् ॥ ६४॥ ०२ ०२ ०१० ध्याननियमस्तु दृष्टसौकर्यात् ॥ ६५॥ ०२ ०२ ०११ तद्यजिः पूजायामितरेषां नैवम् ॥ ६६॥ ०२ ०२ ०१२ पादोदकं तु पाद्यमव्याप्तेः ॥ ६७॥ ०२ ०२ ०१३ स्वयमर्पितं ग्राह्यमविशेषात् ॥ ६८॥ ०२ ०२ ०१४ निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था ॥ ६९॥ ०२ ०२ ०१५ पत्रादेर्दानमन्यथा हि वैशिष्टयम् ॥ ७०॥ ०२ ०२ ०१६ सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्यः ॥ ७१॥ ०२ ०२ ०१७ गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥ ७२॥ ०२ ०२ ०१८ बहिरन्तस्थमुभयमवेष्टिसववत् ॥ ७३॥ ०२ ०२ ०१९ स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात् ॥ ७४॥ ०२ ०२ ०२० भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि ॥ ७५॥ ०२ ०२ ०२१ लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥ ७६॥ ०२ ०२ ०२२ तत्स्थानत्वादनन्यधर्मः खलेवालीवत् ॥ ७७॥ ०२ ०२ ०२३ आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् ॥ ७८॥ ०२ ०२ ०२४ अतो ह्यविपक्वभावानामपि तल्लोके ॥ ७९॥ ०२ ०२ ०२५ क्रमैकगत्युपपत्तेस्तु ॥ ८०॥ ०२ ०२ ०२६ अत्क्रान्तिस्मृतिवाक्यशेषाच्च ॥ ८१॥ ०२ ०२ ०२७ महापातकिनां त्वार्तौ ॥ ८२॥ ०२ ०२ ०२८ सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ॥ ८३॥ ०२ ०२ ०२९ परां कृत्वैव सर्वेषां तथा ह्याह ॥ ८४॥ समाप्तश्च द्वितीयोऽध्यायः ॥ २॥ तृतीयोऽध्यायः प्रथममाह्निकम् ०३ ०१ ००१ भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ॥ ८५॥ ०३ ०१ ००२ तच्छक्तिर्माया जडसामान्यात् ॥ ८६॥ ०३ ०१ ००३ व्यापकत्वाद्वयाप्यानाम् ॥ ८७॥ ०३ ०१ ००४ न प्राणिबुद्धिभ्योऽसम्भवात् ॥ ८८॥ ०३ ०१ ००५ निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥ ८९॥ ०३ ०१ ००६ मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् ॥ ९०॥ ०३ ०१ ००७ फलमस्माद्बादरायणो दृष्टत्वात् ॥ ९१॥ ०३ ०१ ००८ व्युत्क्रमादप्ययस्तथा दृष्टम् ॥ ९२॥ द्वितीयमाह्निकम् ०३ ०२ ००१ तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् ॥ ९३॥ ०३ ०२ ००२ पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥ ९४॥ ०३ ०२ ००३ न विकारिणस्तु करणविकारात् ॥ ९५॥ ०३ ०२ ००४ अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम् ॥ ९६॥ ०३ ०२ ००५ आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥ ९७॥ ०३ ०२ ००६ संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः ॥ ९८॥ ०३ ०२ ००७ त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥ ९९॥ ०३ ०२ ००८ आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात् ॥ १००॥ समाप्तश्च तृतीयोऽध्यायः ॥ ३॥ इति श्रीशाण्डिल्यमहर्षिप्रणीतभक्तिसूत्रम्