अक्षर आकार:

सप्तति रत्नमालिका

saptati ratnamAlikA

सप्तति रत्नमालिका

The six shlokas (Nos. 10, 59, 17, 65, 23, 55) are from the full text of ᳚saptati ratnamAlA᳚ भाद्रपदमासगत विष्णुविमलर्क्षे वेङ्कटमहीध्रपति तीर्थदिनभूते । प्रादुरभवज्जगति दैत्यरिपुघण्टा हन्त कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥ (श्लोकं - १०) सशङ्खचक्रलाञ्छनः सदूर्ध्वपुण्ड्रमण्डितः सकण्ठलग्नसत्तुलस्यनर्घ पद्ममालिकः । सितान्तरीय सूत्तरीय यज्ञसूत्रशोभितः ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥ (श्लोकं - ५९) अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवाद् दिगन्तवादिहंसजैत्रकालमेघदेशिकात् । उपात्त सर्वशासनाय हन्त वर्षविंशतौ पुनःपुनर्नमस्क्रियाऽस्तु वेङ्कटेशसूरये ॥ (श्लोकं - १७) कवितार्किककलभव्रजकबलीकृतिसिंहं कमलापतिकसुणारसपरिवर्धितबोधम् । यतिनायकपदपङ्कजयुगलीपरतन्त्रं भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ (श्लोकं - ६५) कल्ये सततं करुणाजलर्धिं करुणाविषयं कमलाधिपतेः । कलिवैरिशठारिवचोरसिकं कवितार्किककेसरिसूरिगुरुम् ॥ (श्लोकं - २३) गुरौ वादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीना यतीन्द्राप्रियाः स्युः । यतीन्द्राप्रियाः विष्णुकारुण्यदूराः कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ (श्लोकं - ५५) वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे । मायावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु घण्टावतारः ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ वादिद्विपशिरोभङ्गपञ्चाननपराक्रमः । श्रीमान् वेङ्कटनाथार्यः चिरं विजयतां भुवि ॥ श्रीमते निगमान्तमहादेशिकञाय नमः ।