अक्षर आकार:

रघुवंशं सर्गः १९ अग्निवर्णश‍ृङ्गार कालिदासकृतम्

Raghuvansha 19 by Kalidas

रघुवंशं सर्गः १९ अग्निवर्णश‍ृङ्गार कालिदासकृतम्

अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् । शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १९-१॥ तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः । सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ १९-२॥ लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ १९-३॥ सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः । संनिवेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनोऽभवत् ॥ १९-४॥ कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ १९-५॥ इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् । अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ १९-६॥ गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ १९-७॥ तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ १९-८॥ यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ १९-९॥ तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १९-१०॥ घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ १९-११॥ सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः । ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १९-१२॥ अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे । वल्लकी च हृदयंगमक्षमा वल्गुवागपि च वामलोचना ॥ १९-१३॥ स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १९-१४॥ चारु नृत्यविगमे स तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १९-१५॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमा ॥ १९-१६॥ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १९-१७॥ तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १९-१८॥ लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥ १९-१९॥ प्रेमगर्वितविपक्षमत्सरादायताश्च मदनान्महीक्षितम् । निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥ १९-२०॥ प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥ १९-२१॥ स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥ १९-२२॥ कॢप्तपुष्पशयनाꣳल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ १९-२३॥ नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते । लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ १९-२४॥ चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥ १९-२५॥ स स्वयं चरणरागमादधे योषितां न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ १९-२६॥ चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ १९-२७॥ दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः ॥ १९-२८॥ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ १९-२९॥ प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् । पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्मपरिभोगमण्डनम् ॥ १९-३०॥ मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥ १९-३१॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः । अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ १९-३२॥ संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥ १९-३३॥ योषितामुडुपतेरिवार्चिषां स्पर्शनिवृतिमसाववाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ १९-३४॥ वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ॥ १९-३५॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ १९-३६॥ अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥ १९-३७॥ विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ १९-३८॥ कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ १९-३९॥ सैकतं स सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् । स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥ १९-४०॥ मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः । जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥ १९-४१॥ अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ १९-४२॥ दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥ १९-४३॥ ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ १९-४४॥ तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥ १९-४५॥ यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ १९-४६॥ एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ १९-४७॥ तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ १९-४८॥ दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ १९-४९॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥ १९-५०॥ व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ १९-५१॥ बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥ १९-५२॥ स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ १९-५३॥ तं गृहोपवनएव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः ॥ १९-५४॥ तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ १९-५५॥ तस्यास्तथाविधनरेन्द्रविपत्तिशोका- दुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ १९-५६॥ तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना- मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥ १९-५७॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावग्निवर्णश‍ृङ्गारो नामैकोनविंशः सर्गः ॥