अक्षर आकार:

रघुवंशं सर्गः १८ वंशानुक्रम कालिदासकृतम्

Raghuvansha 18 by Kalidas

रघुवंशं सर्गः १८ वंशानुक्रम कालिदासकृतम्

स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः । अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १८-१॥ तेनोनुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलोन्मुखेन ॥ १८-२॥ शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ १८-३॥ पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ १८-४॥ तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्त्रः ॥ १८-५॥ नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ १८-६॥ तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ १८-७॥ तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥ १८-८॥ स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ १८-९॥ अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १८-१०॥ पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ १८-११॥ पूर्वस्तयोरात्मसमे चिरोढामात्मोभवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १८-१२॥ वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्टः । सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥ १८-१३॥ अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास । यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥ १८-१४॥ गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः । उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १८-१५॥ तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् । उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ १८-१६॥ तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १८-१७॥ तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव । सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ १८-१८॥ तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् । विलासिनीनामरतिक्षमाऽपि जरा वृथा मत्सरिणी जहार ॥ १८-१९॥ उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥ १८-२०॥ ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥ १८-२१॥ तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ १८-२२॥ तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥ १८-२३॥ आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे । पातुं सहो विश्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥ १८-२४॥ अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥ १८-२५॥ पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः । राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥ १८-२६॥ कौसल्य इत्त्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥ १८-२७॥ यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम । ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ १८-२८॥ तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ १८-२९॥ पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ १८-३०॥ वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ १८-३१॥ तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ १८-३२॥ महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा । तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥ १८-३३॥ ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ १८-३४॥ सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥ १८-३५॥ स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् । अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥ १८-३६॥ नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ १८-३७॥ लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः । दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ १८-३८॥ तं राजवीथ्यामधिहस्ति यातमाधोरणालम्बितमग्र्यवेशम् । षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ १८-३९॥ कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ १८-४०॥ तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ १८-४१॥ मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥ १८-४२॥ पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् । तस्याननादुच्चरितो विवादश्चचाल वेलास्वपि नार्णवानाम् ॥ १८-४३॥ निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ १८-४४॥ शिरीषपुष्पाधिकसौकुमार्यः खेदं न यायादपि भूषणेन । नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥ १८-४५॥ न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावद् । सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ १८-४६॥ उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा । संजातलज्जेव तमालपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥ १८-४७॥ अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ १८-४८॥ न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ १८-४९॥ स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् । तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ १८-५०॥ व्यूह्यः स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः । आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ॥ १८-५१॥ अथ मधु वनितानां नेत्रनिर्वेशनीय- मनसिजतरुपुष्पं रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणमाकल्पजातं विलसितपदमाद्यं यौवनं स प्रपेदे ॥ १८-५२॥ प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ १८-५३॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतौ वंशानुक्रमो नामाष्टदशः सर्गः ॥