अक्षर आकार:

रघुवंशं सर्गः १७ कालिदासकृतम्

Raghuvansha 17 by Kalidas

रघुवंशं सर्गः १७ कालिदासकृतम्

अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना॥ १७-१॥ स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः । अपुनात्सेवितेवोभौ मार्गावुत्तरदक्षिणौ॥ १७-२॥ तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता॥ १७-३॥ जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यैतकमात्मानमनेकं वशिना वशी॥ १७-४॥ स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन चावधि॥ १७-५॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी॥ १७-६॥ तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥ १७-७॥ तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः॥ १७-८॥ ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्॥ १७-९॥ तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम्॥ १७-१०॥ नदद्भिः स्निग्धगंभीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥ १७-११॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥ १७-१२॥ पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः॥ १७-१३॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥ १७-१४॥ स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः॥ १७-१५॥ तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः । ववृधे वैद्युतश्चाग्नेर्वृष्टिसेकादिव द्युतिः॥ १७-१६॥ स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥ १७-१७॥ ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् । सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥ १७-१८॥ बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् । धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम्॥ १७-१९॥ क्रीडापतत्रिणोप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥ १७-२०॥ ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि । सूत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥ १७-२१॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ १७-२२॥ तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥ १७-२३॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम्॥ १७-२४॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥ १७-२५॥ नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मरौ कल्पतरोरिव॥ १७-२६॥ स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः । ययावुदीरितालोकः सुधर्मानवमां सभाम्॥ १७-२७॥ वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्धृष्टं पादपीठं महीक्षिताम्॥ १७-२८॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम्॥ १७-२९॥ बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः॥ १७-३०॥ प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥ १७-३१॥ स पुरं पुरहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश्चकार द्यां नागेनैरावतौजसा॥ १७-३२॥ तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्॥ १७-३३॥ धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः । सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः॥ १७-३४॥ तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः । शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम्॥ १७-३५॥ अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः । अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥ १७-३६॥ यावन्नाश्यायते वेदिरभिषेकजलाप्लुता । तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ १७-३७॥ वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः । किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ १७-३८॥ स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥ १७-३९॥ ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ १७-४०॥ प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः । तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥ १७-४१॥ यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् । सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥ १७-४२॥ वयोरूपविभूतीनामेकैकं मदकारणम् । तानि तस्मिन्समस्तानि न तस्योत्सिचिषे मनः॥ १७-४३॥ इत्थं जनितरागासु प्रकृतिष्वनुवासरम् । अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥ १७-४४॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः । अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून्॥ १७-४५॥ प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । निकषे हेमरेखेव श्रीरासीदनपायिनी॥ १७-४६॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥ १७-४७॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥ १७-४८॥ रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥ १७-४९॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥ १७-५०॥ परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ १७-५१॥ दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ १७-५२॥ भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः । गर्भशलिसधर्माणस्तस्य गूढं विपेचिरे॥ १७-५३॥ अपथेन प्रववृते न जातूपचितोऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥ १७-५४॥ कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥ १७-५५॥ शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः । समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ १७-५६॥ न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं व सोऽर्थेन सदृशस्त्रिषु॥ १७-५७॥ हीनान्यनृपकर्तॄणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ १७-५८॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥ १७-५९॥ कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥ १७-६०॥ परकर्मापहः सोऽभूदुद्युतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥ १७-६१॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥ १७-६२॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात्तदयस्कान्त इवायसम्॥ १७-६३॥ वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥ १७-६४॥ तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः । यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक्॥ १७-६५॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् । दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥ १७-६६॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥ १७-६७॥ इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् । आ तीर्थादप्रतीघातं स तस्याः फलमानशे॥ १७-६८॥ कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि । भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥ १७-६९॥ प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः । रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः॥ १७-७०॥ प्रवृद्धौ ह्रीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी॥ १७-७१॥ सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः॥ १७-७२॥ स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः॥ १७-७३॥ दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः । प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः॥ १७-७४॥ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम्॥ १७-७५॥ पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् । जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत्॥ १७-७६॥ एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः॥ १७-७७॥ पञ्चमं लोकपालानां तमूचुः साम्ययोगतः । भूतानां महतां षष्ठमष्टमं कुलभूभृताम्॥ १७-७८॥ दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिव॥ १७-७९॥ ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च॥ १७-८०॥ इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू- द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर- स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ १७-८१॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावतिथिवर्णनं नाम सप्तदशः सर्गः ॥