अक्षर आकार:

रघुवंशं सर्गः १६ कालिदासकृतम्

Raghuvansha 16 by Kalidas

रघुवंशं सर्गः १६ कालिदासकृतम्

अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुकारि ॥ १६-१॥ ते सेतुवार्तागजबन्धमुखैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ १६-२॥ चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् । सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥ १६-३॥ अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ १६-४॥ सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ १६-५॥ अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥ १६-६॥ लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ १६-७॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ १६-८॥ तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ १६-९॥ वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥ १६-१०॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे । विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ १६-११॥ निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १६-१२॥ आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् । वन्यैरिदानीं महिषैस्तदम्भः श‍ृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १६-१३॥ वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः । प्राप्ता दवोल्काहतशेषबर्ह्याः क्रीडामयूरा वनबर्हिणत्वम् ॥ १६-१४॥ सूपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् । सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ॥ १६-१५॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६-१६॥ स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १६-१७॥ कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु । त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १६-१८॥ आवर्ज्य शाखां सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १६-१९॥ रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छन्नधूमप्रसरा गवाक्षाः ॥ १६-२०॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ १६-२१॥ तदर्हसीमां वसतिं विसृज्य मामभ्युपेतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ १६-२२॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ १६-२३॥ तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ १६-२४॥ कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ १६-२५॥ सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः । सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥ १६-२६॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥ १६-२७॥ तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ १६-२८॥ उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती । सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ १६-२९॥ तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् । रेणुः प्रपेदे प्रथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ १६-३०॥ मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ १६-३१॥ स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ १६-३२॥ तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥ १६-३३॥ स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ १६-३४॥ इत्यध्वनः केचिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान्वितताधराणां यूपानपश्यच्छतशो रघूणाम् ॥ १६-३५॥ आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ १६-३६॥ अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखा स राजा । कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ १६-३७॥ तं शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ १६-३८॥ ततः सपर्यां सपशूपहारां पुरः परार्घ्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥ १६-३९॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥ १६-४०॥ सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ १६-४१॥ वसन्स तस्यां वसतौ रघूणां पुराणशोभामभिरोपितायाम् । न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ १६-४२॥ अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ १६-४३॥ अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥ १६-४४॥ प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ १६-४५॥ दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ १६-४६॥ वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ १६-४७॥ स्वेदानुविद्धार्धनखक्षताङ्के भूयिष्ठसंदिष्टशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ १६-४८॥ यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य । शिलाविशेषान्यधिशय्य निन्युर्धारागृहेष्वातपमृद्धिवन्तः ॥ १६-४९॥ स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ १६-५०॥ आपिञ्जरा बद्धरजःकणत्वान्मञ्जुर्युदारा शुशुभेऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥ १६-५१॥ मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च । संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ १६-५२॥ जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ १६-५३॥ अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ १६-५४॥ स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ १६-५५॥ सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ १६-५६॥ परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीमुपात्ताबालव्यजनां बभाषे ॥ १६-५७॥ पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवेष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ १६-५८॥ विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ १६-५९॥ एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ १६-६०॥ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ १६-६१॥ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ १६-६२॥ आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् । जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ १६-६३॥ तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ १६-६४॥ संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ १६-६५॥ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ १६-६६॥ उद्बन्धकेशच्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः । मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ १६-६७॥ स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ १६-६८॥ ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः । प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ १६-६९॥ वर्णोदकैः काञ्चनश‍ृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् । तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥ १६-७०॥ तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥ १६-७१॥ यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ १६-७२॥ स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥ १६-७३॥ जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् । सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥ १६-७४॥ ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् । वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥ १६-७५॥ कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते । नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ १६-७६॥ ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः । गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥ १६-७७॥ तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहस्तः । रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ १६-७८॥ तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ १६-७९॥ विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् । सौपर्णमस्त्रं प्रतिसंजहार प्रह्रेष्वनिर्बन्धरुषो हि सन्तः ॥ १६-८०॥ त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ १६-८१॥ अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥ १६-८२॥ कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥ १६-८३॥ तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ १६-८४॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ १६-८५॥ इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यू भवान्स्वजन इत्यनुभाषितारम् । संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥ १६-८६॥ तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्ता - न्गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ १६-८७॥ इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया - च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ १६-८८॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ कुमुद्वतीपरिणयो नाम षोडशः सर्गः ॥